शांतिपर्व

अध्यायः ३७०

Santi Parva (Sanskrit) · Adhyaya 370
अक्षर का आकार

नाग उवाच।

अथ ब्राह्मणरूपेण कं तं समनुपश्यसि।
मानुषं केवलं विप्रं देवं वाऽथ शुचिस्मिते।।

को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि।
संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति।।

सुरासुरगणानां च देवर्षीनां च भामिनि।
ननु नागा महावीर्याः सौरभेयास्तरस्विनः।।

वन्दनीयाश्च वरदा वयमप्यनुयायिनः।
मनुष्याणां विशेषेण नावेक्ष्या इति मे मतिः।।

नारभार्योवाच।

आर्जवेन विजानामि नासौ देवोऽनिलाशन।
एकं तस्मिन्विजानामि भक्तिमानतिरोपण।।

स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा।
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षते।।

हित्वा त्वद्दर्शनं किंचिद्विघ्नं न प्रतिपालयेत्।
तुल्योप्यभिजने जातो न कश्चित्पर्युपासते।।

तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि।
आशाच्छेदेन तस्याद्य नात्मानं दरधुमर्हसि।।

आशया ह्यभिपन्नानामकृत्वाऽश्रुप्रमार्जनम्।
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते।।

मौने ज्ञानफलावाप्तिर्दानेन च यशो महत्।
वाग्मित्वं सत्यवाक्येन परत्र च महीयते।।

भूप्रदानेन च गतिं लभत्याश्रमसंमिताम्।
न्याय्यस्यार्धस्य संप्राप्तिं कृत्वा फलमुपाश्रुते।।

अभिप्रेतामसंश्लिष्टां कृत्वा चात्महितां क्रियाम्।
न याति निरयं कश्चिदिति धर्मविदो विदुः।।

नाम उवाच।

अभिमानैर्न मानो मे जातिदोषेण वै महान्।
रोषः संकल्पजः साध्वि दग्धो वागग्निना त्वया।।

न च रोषादहं साध्वि पश्येयमधिकं तमः।
तस्य वक्तव्यतां याति विशेषेण भुजङ्गमाः।।

रोषस्य हि वशं गत्वा दशग्नीवः प्रतापवान्।
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे।।

अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम्।
धर्मणारोषसंविग्नाः कार्तवीर्यसुता हताः।।

जामदग्न्येन रामेण सहस्रनयनोपमः।
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः।।

तदेष तपसां शत्रुः श्रेयसां विनिपातकः।
निगृहीतो मया रोषः श्रुत्वैवं वचनं तव।।

आत्मानं च विशेषेण प्रशंसाम्यनपायिनि।
यस्य मे त्वं विशालाक्षि भार्या गुणसमन्विता।।

एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः।
सर्वथा चोक्तवान्वाक्यं स कृतार्थः प्रयास्यति।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्तत्यधिकत्रिशततमोऽध्यायः।। 370।।