शांतिपर्व
अध्यायः ३६९
भीष्म उवाच।
अथ काले बहुतिथे पूर्णे प्राप्तो भुजङ्गमः।
दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वता।।
तं भार्याऽप्युपचक्राम पादशौचादिभिर्गुणैः।
उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत।।
अथ त्वमसि कल्याणि देवतातिथिपूजने।
पूर्वमुक्तेन विधिना युक्ता कर्मसु वर्तसे।।
न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता।
मद्वियोगेन सुश्रोणि विमुक्ता धर्मसेतुना।।
नागभार्योवाच।
शिष्याणां गुरुशुश्रूषा विप्राणां वेदधारणम्।
भृत्यानां स्वामिवचनं राज्ञो लोकानुपालनम्।।
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते।
वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता।।
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत्।
गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता।।
नियताहारता नित्यं व्रतचर्या यथाक्रमम्।
धर्मो हि धर्मसंबन्धादिन्द्रियाणां विशेषतः।।
अहं कस्य कुतो वाऽपि कः को मे ह भवेदिति।
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमे वसेत्।।
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते।
तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै।।
साऽहं धर्मं विजानन्ती धर्ननित्ये त्वयि स्थिते।
सत्पथं कथमृत्सृज्य यास्यामि विपथं पथः।।
देवतानां महाभाग धर्मचर्या न हीयते।
अतिथीनां च सत्कारे नित्ययुक्ताऽस्म्यतन्द्रिता।।
सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै।
तच्च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति।।
गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः।
आसीनो वर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः।।
अहं त्वनेन नागेन्द्र सत्यपूर्वं समाहिता।
प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः।।
एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि।
दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः।।
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
एकोनसप्तत्यधिकत्रिशततमोऽध्यायः।। 369।।