शांतिपर्व

अध्यायः ३४८

Santi Parva (Sanskrit) · Adhyaya 348
अक्षर का आकार

भीष्म उवाच।

नारदः परिप्रपच्छ भगवन्तं जनार्दनम्।
एकार्णवे महाघोरे नष्टे स्थावरजङ्गमे।

श्रीभगवानुवाच।

शृणु नारद तत्वेन प्रादुर्भावान्महामुने।
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः।
रामो रामश्च रामश्च कुद्धः कल्कीति ते दश।।

पूर्वं मीनो भविष्यामि स्थापयिष्याम्यहं प्रजाः।
लोकान्वै धारयिष्यामि मज्जमानान्महार्णवे।।

द्वितीयः कूर्मरूपो मे हेमकूटनिभः स्मृतः।
मन्दरं धारयिष्यामि अमृतार्थं द्विजोत्तम।।

मप्रां महार्णवे घोरे भाराक्रान्तां भुवं पुनः।
ततो बलादहं विद्वन्सर्वभूतहिताय वै।।'

सत्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्।
आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः।
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम्।।

नारसिंहं वषुः कृत्वा हिरण्यकशिषुं पुनः।
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम्।।

विरोचनस्य बलवान्बलिः पुत्रो महासुरः।
अवध्यः सर्वलोकानां सदेवासुररक्षसाम्।
भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति।।

त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ।
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपान्।।

`वटुर्गत्वा यज्ञसदः स्तूयमानो द्विजोत्तमैः।
यज्ञस्तुतिं करिष्यामि श्रुत्वा प्रीतो भवेद्वलिः।।

किमिच्छसि वटो ब्रूहीत्युक्तो याचे महद्वरम्।
दीयतां त्रिपदीमात्रमिति याचे महाऽऽसुरम्।।

स दद्यान्मयि संप्रीतः प्रतिषिद्धश्च मन्त्रिभिः।
यावज्जलं हस्तगतं त्रिभिर्विक्रमणैर्युतम्।।'

ततो राज्यं प्रदास्यामि शक्रायामिततेजसे।
देवताः स्थापयिष्यामि स्वस्वस्थानेषु नारद।।

बलिं चैव करिष्यामि पातालतलवासिनम्।
दानवं च बलिश्रेष्ठमबध्यं सर्वदैवतैः।।

त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः।
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम्।।

संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च।
रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः।।

त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा।
प्राप्स्येते वानरत्वं हि प्रजापतिसुतावृषी।।

तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः।
महाबला महावीर्याः शक्रतुल्यपराक्रमाः।

ते सहाया भविष्यन्ति सुरकार्ये मम द्विज।।
ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्।
हनिष्ये रावणं रौद्रं सगणं लोककण्टकम्।।

` विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम्>
अयोध्यावासिनः सर्वान्नेष्येऽहं लोकमव्ययम्।।'

द्वापरस्य कलेश्चैव संधौ पार्यवसानिके।
प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति।।

तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान्।
कुशस्थलीं करिष्यासि निवासं द्वारकां पुरीम्।।

वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम्।
हनिष्ये नरकं भौमं मुरं पीठं च दानवम्।।

प्राग्ज्योतिषं पुरं रम्यं नानाधनसमन्वितम्।
कुशस्थलीं नष्यिष्यामि हत्वा वै दानवोत्तमान्।।

`कृकलास भूतं च नृगं मोचयिष्ये च वै पुनः।।

तत्र पौत्रनिमित्तेन गत्वा वै शोणितं पुरम्।
वाणस्य च पुरं गत्वा करिष्ये कदनं महत्।।'

शंकरं रमहासेनं बाणप्रियहिते रतम्।
पराजेष्याम्यथोद्युक्तौ देवौ लोकनमस्कृतौ।।

ततः सुतं बलेर्जित्वा बाणं बाहुसहस्त्रिणम्।
विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः।।

यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः।
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम।।

`कंसं केशिं तथाक्रूरमरिष्टं च महासुरम्।
चाणूरं च महावीर्यं मुष्टिकं च महाबलम्।।

प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम्।
कालीयं च वशे कृत्वा यमुनाया महाह्रदे।।

गोकुलेषु ततः पश्चाद्भवार्थे तु महागिरिम्।
सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे।।

अपक्रान्ते ततो वर्षे गिरिमूर्ध्निं व्यवस्थितः।
इन्द्रेण सह संवादं करिष्यामि तदा द्विज।
लघ्वाच्छिद्य धनं सर्वं वासुदेवं च पौण्ड्रकम्।।'

जरासन्धश्च बलवान्सर्वराजविरोधनः
भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे।।

मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति।
शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै।।

`दुर्योधनापराधेन युधिष्ठिरगुणेन च।'
समागतेषु बलिषु पृथिव्यां सर्वराजसु।।

वासविः सुसहायो वै मम त्वेको भविष्यति।
युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह।।

एवं लोका वदिष्यन्ति नरनारायणावृषी।
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ।।

`शस्त्रैर्निपतिताः सर्वे नृपा यास्यन्ति वै दिवम्।।'

कृत्वा भारावतरणं वसुधाया यथेप्सितम्।
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम।।

करिष्ये प्रलयं घोरमात्मज्ञानाभिसंश्रयः।
`द्वारकामात्मसात्कृत्वा समुद्रं गमयाम्यहम्।।

ततः कलियुगस्यादौ द्विजराजतरुं श्रितः।
भीषया मागधेनैव धर्मराजगृहे वसन्।।

काषायवस्रसंवीतो मुण्डितः शुक्लदन्तवान्।
शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान्।।

शूद्राः सुद्धेषु भुज्यन्ते मयि बुद्धत्वमागते।
भविष्यन्ति नराः सर्वे बुद्धाः काषायसंवृताः।।

अनध्याया भविष्यन्ति विप्रा यागविवर्जिताः।
अग्निहोत्राणि सीदन्ति गुरुपूजा च नश्यति।।

न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव भ्रातरः।
न पौत्रा न कलत्रा वा वर्तन्तेऽप्यधमोत्तमाः।।

एवंभूतं जगत्सर्वं श्रुतिस्मृतिविवर्जितम्।
भविष्यति कलौ पूर्णे ह्यशुद्धो धर्मसंकरः।।

तेषां सकाशाद्धर्मज्ञा देवब्रह्मविदो नराः।
भविष्यन्ति ह्यशुद्धाश्च न्यायच्छलविभाषिणः।।

ये नष्टधर्मश्रोतारस्ते समाः पापनिश्चये।
तस्मादेता न संभाष्या न स्पृश्या च हितार्थिभिः।
उपवासत्रयं कुर्यात्तत्संसर्गविशुद्धये।।

ततः कलियुगस्यान्ते ब्राह्मणो हरिपिङ्गलः।
कल्किर्विष्णुयशः पुत्रो याज्ञवल्क्यः पुरोहितः।।

तस्मिन्नाशे वनग्रामे तिष्ठेत्सोन्नासिमो हयः।
सहया ब्राह्मणाः सर्वे तैरहं सहितः पुनः।
म्लेच्छानुत्सादयिष्यामि पाषण्‍डांश्चैव सर्वशः।।

पाषण्डश्च कलौ तत्र माययैव विनश्यते।
पाषण्‍डकांश्चैव हत्वा तत्रान्तं प्रलये ह्यहम्।।

ततः पश्चाद्भविष्यामि यज्ञेषु निरतः सदा।
राज्यं प्रशासति पुनः कुन्तीपुत्र युधिष्ठिरे।।'

कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम्।
कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान्।।

हंसः कूर्मश्च मत्स्यश्च प्रादुर्भावा द्विजोत्तम।
वराहो नरसिंहश्च वामनो राम एव च।
रामो दाशरथिश्चैव सात्वतः कल्किरेव च।।

यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता पुनः।
सर्वदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे।।

अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित्।
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः।।

लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः।
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम्।।

यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना।
एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया।
पुराणं च भविष्यं च सरहस्यं च सत्तम।।

भीष्म उवाच।

एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः।
एतावदुक्त्वा वचनं तत्रैवान्तर्दधे पुनः।।

नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम्।
नरनारायणौ द्रष्टुं बदर्याश्रममाद्रवत्।।

इदं महोपनिषदं चतुर्वेदसमन्वितम्।
सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम्।।

नारायंणमुखोदीतं नारदोऽश्रावयत्पुनः।
ब्रह्मणः सदने तात यथादृष्टं यथाश्रुतम्।।

युधिष्ठिर उवाच।

एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः।
किं वै ब्रह्मा न जानीते यतः शुश्राव नारदात्।।

पितामहोऽपि भगवांस्तस्माद्देवादनन्तरः।
कथं स न विजानीयात्प्रभावममितौजसः।।

भीष्म उवाच।

महाकल्पसहस्राणि महाकल्पशतानि च।
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह।।

सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः।
जानाति देवप्रवरं भूयश्चातोधिकं नृप।
परमात्मानमीशानमात्मनः प्रभवं तथा।।

ये त्वन्ये ब्रह्मसदने सिद्धसङ्घाः समागताः।
तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम्।।

अष्टाविंशत्सहस्राणि ऋषीणां भावितात्मनाम्।
आत्मानुगामिनां ब्रह्मा श्रावयामास तत्वतः।
एवं पुरा प्राप्तमिदं भानुना मुनिभाषितम्।।

वर्षषष्टिसहस्राणि षष्टिवर्षशतानि च।
सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः।
तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम्।।

सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः।
मेरौ समागता देवाः श्राविताश्चेदनुत्तमम्।।

देवानां तु सकाशाद्वै ततः श्रुत्वाऽसितो द्विजः।
श्रावयामास राजेन्द्र पितॄन्वै मुनिसत्तमः।।

मम चापि पिता तात कथयामास शंतनुः।
ततो मयापि श्रुत्वा च कीर्तितं तव भारत।।

सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम्।
सर्वे ते परमात्मानं पूजयन्ते समन्ततः।।

इदमाख्यानमार्षेयं पारम्पर्यागतं नृप।
नावासुदेवभक्ताय त्वया देयं कथंचन।।

`आख्यानमुत्तमं चेदं श्रावयेद्यः सदा नृप।
तदैव मनुजो भक्तः शुचिर्भूत्वा समाहितः।
प्राप्नुयादचिराद्राजन्विष्णुलोकं च शाश्वतम्।।'

मत्तोन्यानि च ते राजन्नुपाख्यानशतानि वै।
यानि श्रुतानि सर्वाणि तेषां सारोयमुद्धृतः।।

सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम्।
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम्।।

यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः।
एकान्तभावोपगत एकान्ते सुसमाहितः।।

प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः।
स सहस्रार्चिपं देवं प्रविशेन्नात्र संशयः।।

मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्।
जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत्।।

त्वयापि सततं राजत्रभ्यर्च्यः पुरुषोत्तमः।
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः।।

ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः।
युधिष्ठिर महाबाहो महाबुद्धिर्जनार्दनः।।

वैशंपायन उवाच।

श्रुत्वैतदाख्यानवरं धर्मराड्‌जनमेजय।
भ्रातरश्चास्य ते सर्वे नारायणपराभवन्।।

जितं भगवता तेन पुरुषेणेति भारत।
नित्यं जप्यपरा भूत्वा सारस्वतमुदीरयन्।।

यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः।
जगौ परमकं जप्यं नारायणमुदीरयन्।।

गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम्।
पूजयित्वा च देवेशं पुनरायात्स्वगाश्रमम्।।

भीष्म उवाच।

एतत्ते सर्वमाख्यातं नारदोक्तं मयेरितम्।
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा।।

सौतिरुवाच।

एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम्।
जनमेजयेन तच्छ्रुत्वा कृतं सम्यग्यथाविधि।।

यूयं हि तप्ततपसः सर्वे च चरितव्रताः।
शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः।

यजध्वं सुहुतैर्यज्ञैः शाश्वतं परमेश्वरम्।
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
अष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः।। 348।।