शांतिपर्व

अध्यायः ३४७

Santi Parva (Sanskrit) · Adhyaya 347
अक्षर का आकार

भीष्म उवाच।

एवं स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभिः।
`भगवान्विश्वसृक्सिंहः सर्वमूर्तिमयः प्रभुः।'
दर्शयामास मुनये रूपं तत्परमं हरिः।।

किंचिच्चन्द्राद्विशुद्धात्मा किंचिच्चन्द्राद्विशेषवान्।
कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः।।

शुकपत्रनिभः किंचित्किंचित्स्फटिकसन्निभः।
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्।।

प्रबालाङ्कुरवर्णश्च श्वेतवर्णस्तथा क्वचित्।
क्वचित्सुवर्णवर्णाभो वैदूर्यसदृशः क्वचित्।।

नीलवैर्दूर्यसदृश इन्द्रनीलनिभः क्वचित्।
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित्।।

एतान्बहुधान्वर्णान्रूपैर्बिभ्रत्सनातनः।
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात्।।

सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित्।
ओंकारमुद्गिरन्वक्रात्सावित्रीं च तदन्वयाम्।।

शेषेभ्यश्चैव वक्रेभ्यश्चतुर्वेदान्गिरन्बहून्।
आरण्यकं जगौ देवो हरिर्नारायणो वशी।।

वेदिं कमण्डलुं दर्भान्मणिरूपांस्तथा कुशान्।
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्।
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा।।

तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः।
वाग्यतः प्रणतो भूत्वा ववन्दे परमेश्वरम्।।

तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः।।

श्रीभगवानुवाच।

एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः।
इमं देशमनुप्राप्ता मम दर्शनलालसाः।।

न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन।
ऋते ह्यैकान्तिकश्रेष्ठात्त्वं चैवैकान्तिकोत्तम।।

ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज।
तास्त्वं भजस्व सततं साधयस्व यथागतम्।।

वृणीष्व च वरं प्रिय मत्तस्त्वं यदिहेच्छसि।
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः।।

नारद उवाच।

अद्य मे तपसो देव यमस्य नियमस्य च।
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया।।

वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः।
भगवन्विश्वदृक् सिंहः सर्वमूर्तिर्महान्प्रभुः।।

भीष्म उवाच।

एवं संदर्शयित्वा तु नारदं परमेष्ठिजम्।
उवाच वचनं भूयो गच्छ नारद माचिरम्।।

इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः।
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति।।

सिद्धा ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन्।
तमोरजोभिर्निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम्।।

न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च।
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः।।

सत्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै।
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते।।

भूतग्रामशरीरेषु नश्यत्सु न विनश्यति।
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा।।

द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः।
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते।।

यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः।
स वासुदेवो विज्ञेयः परमात्मा सनातनः।।

पश्य देवस्य माहात्म्यं महिमानं च नारद।
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन।।

सत्वं रजस्तमश्चेति गुणानेतान्प्रचक्षते।
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च।।

एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते।
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणातिगः।।

जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते।।

खे वायुः प्रलयं याति मनस्याकाशमेव च।
मनो हि परमं भूतं तदव्यक्ते प्रलीयते।।

अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते।
नास्ति तस्मात्परतरः पुरुषाद्वै सनातनात्।।

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्।
ऋते तमेकं पुरुषं वासुदेवं सनातनम्।
सर्वभूतात्मभूतो हि वासुदेवो महाबलः।।

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
ते समेता महात्मानः शरीरमिति संज्ञितम्।।

तदाविशति यो ब्रह्मन्न दृश्यो लघुविक्रमः।
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः।।

न विना धातुसंघातं शरीरं भवति क्वचित्।
न च जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत।।

स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः।
तस्मात्सनत्कुमारत्वं योऽलभत्स्वेन कर्मणा।।

यस्मिंश्च सर्वभूतानि प्रद्युम्नः परिपठ्यते।
तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च।।

तस्मत्सर्वं संभवति जगत्स्थावरजङ्गमम्।
सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु।।

यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः।
ज्ञेयः स एव राजेन्द्र जीवः संकर्षणः प्रभुः।।

संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते।
प्रद्युम्नाद्योऽनिरूद्धस्तु सोहंकारः स ईश्वरः।।

मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम्।
अक्षरं च क्षरं चैव सच्चासच्चैव नारद।।

मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम।
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः।।

निर्गुणो निष्कलश्चैव निर्द्वन्द्वो निष्परिग्रहः।
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते।।

इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः।
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद।।

सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि।
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम्।।

अहं हि जीवसंज्ञो वै मयि जीवः समाहितः।
मैवं ते बुद्धिरत्राभूर्द्दृषो जीवो मयेति वै।।

अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः।
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम्।।

सिद्धा हि ते महाभागा नरा ह्येकान्तिनोऽभवन्।
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने।।

`अहं कर्ता च कार्यं च कारणं चापि नराद।
न दृश्यश्चक्षुषा देवः स्पृश्यो न स्पर्शनेन च।
आघ्रेयो नैव गन्धेन रसेन च विसर्जितः।।

सत्वं रजस्तमश्चैव न गुणास्ते भवन्ति हि।
स हि सर्वगतः साक्षी लोकस्यात्मेति कथ्यते।।'

हिरण्यगर्भो लोकादिश्चतुर्वक्रोऽनिरुक्तगः।
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः।।

ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः।
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान्।।

द्वादशैव तथाऽऽदित्यान्वामपार्श्वे समास्थितान्।
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान्।।

नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः।
सर्वान्प्रजापतीन्पश्य पश्य सप्तऋर्षीस्तथा।।

वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः।
तपांसि नियमांश्चैव यमानपि पृथग्विधान्।।

तथाऽष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्।
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनी।।

वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्।
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम्।।

अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा।
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम।।

त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान्।
देवकार्यादपि मुने पितृकार्यं विशिष्यते।।

देवानां च पितृणां च पिता ह्येकोऽहमादितः।
अहं हयशिरा भूत्वा समुद्रे पश्चिमोत्तरे।।

पिबामि सुहुतं हव्यं कव्यं च श्रद्धयाऽन्वितम्।
मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम्।।

ततस्तस्मै वरान्प्रीतो दत्तवानस्म्यनुत्तमान्।
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च।।

अहंकारकृतं चैव नामपर्यायवाचकम्।
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन।।

त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि।
सुरासुरगणानां च ऋषीणां च तपोधन।।

पितृणां च महाभाग सततं संशितव्रत।
विविधानां च भूतानां त्वमुपास्यो भविष्यसि।।

प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा।
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा।।

एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे।
`एवं रुद्राय मनवे इन्द्रायामिततेजसे।'
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम्।।

निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता।
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः।।

विद्यासहायवन्तं मामादित्यस्थं सनातनम्।
कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः।।

हिरण्यगर्भो भगवानेष च्छन्दसि संस्तुतः।
सोहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः।।

एषोऽहं व्यक्तिमाश्रित्य तिष्ठामि दिवि शाश्वतः।
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः।।

कृत्वाऽऽत्मस्थानि भूतानि स्थावराणि चराणि च।
एकाकी विद्यया सार्धं विहरिष्ये जगत्पुनः।।

ततो भूयो जगत्सर्वं करिष्यामीह विद्यया।
अस्मिन्मूर्तिश्चतुर्थी या साऽसृजच्छेषमव्ययम्।।

स हि संकर्षणः प्रोक्तः प्रद्युम्नः सोप्यजीजनत्।
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः।।

अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः।
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च।।

एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः।
यथा सूर्यस्य गगनादुदयास्तमने इह।
नष्टे पुनर्वलात्काल आनयत्यमितद्युते।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः।। 347।।