शांतिपर्व

अध्यायः ३२१

Santi Parva (Sanskrit) · Adhyaya 321
अक्षर का आकार

याज्ञवल्क्य उवाच।

साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे।
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम।।

नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम्।
तावुभावेकचर्यौ तावुभावनिधनौ स्मृतौ।।

पृथक्पृथक्प्रपश्यन्ति येऽप्यबुद्धिरता नराः।
वयं तु राजन्पश्याम एकमेव तु निश्चयात्।।

यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते।
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित्।।

रुद्रप्रधानानपरान्विद्धि योगानरिंदम्।
तेनैव चाथ देहेन विचरन्ति दिशो दश।।

यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह।
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ।।

तावदेवाष्टगुणिनं योगप्राहुर्मनीषिणः।
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम।।

द्विगुणं योगत्यं तु योगानां प्राहुरुत्तमम्।
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम्।।

धारणं चैव मनसः प्राणायामश्च पार्थिव।
एकाग्रता च मनसः प्राणायामस्तथैव च।।

प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः।
यद्यदृश्यति मुञ्चन्वै प्राणान्मैथिलसत्तम।
वाताधिक्यं भवत्येव तस्मात्तं न समाचरेत्।।

निशायाः प्रथमे यामे चोदना द्वादश स्मृताः।
मध्ये स्वप्नात्परे यामे द्वादशैव तु चोदनाः।।

तदेवमुपशान्तेन दान्तेनैकान्तशीलिना।
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः।।

पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा।
शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च।।

प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल।
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह।।

मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप।
अहंकारं तथा बुद्धौ बुद्धिं च प्रकृतावपि।।

एवं हि परिसंख्याय ततो ध्यायन्ति केवलम्।
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम्।।

तस्थुषं पुरुषं नित्यमभेद्यमजरामरम्।
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाख्यम्।।

युक्तस्य तु महाराज लक्षणान्युपधारम्।
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वयेत्।।

निर्वाते तु यथा दीपो ज्वलेत्स्नेहस—धतः।
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिण।।

पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः।
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम्।।

शक्तदुन्दुभिनिर्घोषैर्विधिधैर्गीतवादितैः।
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम्।।

तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः।
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिषणिभिः।।

संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत्।
तथैवोत्तरमागम्य एकाग्रमनसस्तथा।।

स्थिरत्वादिन्द्रियाणां तु निश्चलस्तथैव च।
एवं युक्तस्य तु मुनेर्लक्षणान्युपल----।।

स्वयुक्तः पश्यते ब्रह्म यत्तत्परम----यम्।
महतस्तमसो मध्ये स्थितं ज्व नसा--भम्।।

एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम्।
कालेन महता राजञ्श्रुतिरेषा सनातनी।।

एतद्धि योगं योगानां किमन्यद्योगलक्षणम्।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
एकविंशत्यधिकत्रिशततमोऽध्यायः।। 321।।