शांतिपर्व

अध्यायः ३२०

Santi Parva (Sanskrit) · Adhyaya 320
अक्षर का आकार

याज्ञवल्क्य उवाच।

न शक्यो निर्गुणस्तात गुणीकर्तुं विशांपते।
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे।।

गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा।
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः।।

गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते।
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः।।

अव्यक्तस्तु न जानीते पुरुषोऽज्ञः स्वभावतः।
न मत्तः परमोस्तीति नित्यमेवाभिमन्यते।।

अनेन कारणेनैतदव्यक्तं स्यादचेतनम्।
नित्यत्वाच्चाक्षरत्वाच्च क्षरत्वान्न तदन्यथा।।

यदाऽज्ञानेन कुर्वीत गुणसर्गं पुनःपुनः।
यदात्मानं न जानीते तदाऽऽत्मापि न मुच्यते।।

कर्तृत्वाच्चापि सर्गाणां सर्गधर्मा तथोच्यते।
कर्तृत्वाच्चापि योगानां योगधर्मा तथोच्यते।।

कर्तृत्वात्प्रकृतीनां च तथा प्रकृतिधर्मिता।।

कर्तृत्वाच्चापि वीजानां बीजधर्मा तथोच्यते।
गुणानां प्रसवत्वाच्च प्रलयत्वात्तथैव च।।

`कर्तृत्वात्प्रलयानां तु तथा प्रलयधर्मि च।
कर्तृत्वात्प्रभवाणां च तथा प्रभवधर्मि च।।

बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च।'
उपेक्षत्वादनन्यत्वादभिमानाच्च केवलम्।।

मन्यन्ते यतयः सिद्धा अध्यात्मज्ञा गतज्वराः।
अनित्यं नित्यमव्यक्तं व्यक्तमेतद्धि शुश्रुम।।

अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषास्तथा।
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः।।

अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः।
यथा मुञ्ज इषीकाणां तथैवैतद्धि जायते।
`न चैव मुञ्जसंयोगादिषीका तत्र बुध्यते।।'

अन्यच्च मशकं विद्यादन्यच्चोदुम्बरं तथा।
च चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते।।

अन्य एव तथा मत्स्यस्तदन्यदुदुकं स्मृतम्।
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः।।

अन्यो ह्यग्निरुखाऽप्यन्या नित्यमेवमवेहि भोः।
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै।।

पुष्करं त्वन्यदेवात्र तथाऽन्यदुदकं स्मृतम्।
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्।।

एतेषां सहवासं च निवासं चैव नित्यशः।
याथातथ्येन पश्यन्ति न नित्यं प्राकृता जनाः।।

ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम्।
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः।।

साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यानमुत्तमम्।
एवं हि परिसंख्याय साङ्ख्याः केवलतां गताः।।

ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम्।
अतः परं प्रवक्ष्यामि योगानामनुदर्शनम्।।

।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
विंशत्यधिकत्रिशततमोऽध्यायः।। 320।।