शांतिपर्व

अध्यायः २९४

Santi Parva (Sanskrit) · Adhyaya 294
अक्षर का आकार

युधिष्ठिर उवाच।

कथं नु युक्तः पृथिवीं चरेदस्मद्विधो नृपः।
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते।।

भीष्म उवाच।

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्।
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते।।

सगर उवाच।

किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते।
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम्।।

भीष्म उवाच।

एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविदां वरः।
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत्।।

सुखं मोक्षसुखं लोके न च मूढोऽवगच्छति।
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः।।

सक्तबुद्धिरशान्तात्मा स न शक्यश्चिकित्सितुम्।
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते।।

स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम।
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता।।

संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च।
समर्थाज्जीवने ज्ञात्वा मुक्तश्चर यथासुखम्।।

भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम्।
ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च।।

सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम्।
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि।।

कृतकौन्तूहलस्तेषु मुक्तश्चर यथासुखम्।
उपपत्त्योपलब्धेषु लोकेषु च समो भव।।

एष तावत्समासेन तव संकीर्तितो मया।
मोक्षार्थो विस्तरेणाथ भूयो वक्ष्यामि तच्छृणु।।

मुक्ता वीतभया लोके चरन्ति सुखिनो नराः।
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः।।

आहारसंचये सक्ता यथा कीटपिपीलिकाः।
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः।।

स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना।
इमे मया विनाभूता भविष्यन्ति कथं त्विति।।

स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते।
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति।।

भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्।
स्वकृते नाधिगच्छन्ति लोके नास्त्यकृतं पुरा।।

धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्।
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः।।

स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा।
को हेतुः स्वजनं द्वेष्टुं रक्षितं वाऽदृढात्मनः।।

स्वजनं हि यदा मृत्युर्हन्त्येव भुवि पश्यतः।
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना।।

जीवन्तमपि चैवैनं भरणे रक्षणे तथा।
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि।।

यदा मृतं च स्वजनं न ज्ञास्यसि कथंचन।
सुखितं दुःखितं वाऽपि ननु बोद्धव्यमात्मना।।

मृते वा त्वयि जीवे वा यदा भोक्ष्यति वै जनः।
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः।।

एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः।
मोक्षे निवेशय मनो भूयश्चाप्युपधारय।।

क्षुत्पिपासादयो भावा जिता यस्येह देहिनः।
क्रोधो लोभस्तथा मोहः सत्ववान्मुक्त एव सः।।

द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः।
न प्रमाद्यति संमोहात्सततं मुक्त एव सः।।

दिवसेदिवसे नाम रात्रौरात्रौ पुमान्सदा।
भोक्तव्यमिति यः स्विन्नो दोषबुद्धिः स उच्यते।।

आत्मभावं तथा स्त्रीषु सक्तमेव पुनः पुनः।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः।।

संभवं च विनाशं च भूतानां चेष्टितं तथा।
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः।।

प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु।
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते।।

मृत्युनाऽभ्याहतं लोकं व्याधिभिश्चोपपीडितम्।
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते।।

यः पश्यति स संतुष्टो नपश्यंश्च विहन्यते।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः।।

अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति।
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः।।

पर्यङ्कशय्या भूमिश्च सामने यस्य देहिनः।
शाल्यन्नं च कदन्नं च यस्य स्यान्मुक्त एव सः।।

क्षौमं च कुशचीरं च कौशेयं वल्कलानि च।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः।।

पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति।
तथाच वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः।।

सुखदुःखे समे यस्य लाभालाभौ जयाजयौ।
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः।।

रक्तमूत्रपुरीषाणां दोषाणां संचयांस्तथा।
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते।।

वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च।
कुजभावं च जरयाः यः पश्यति स मुच्यतेत।।

पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा।
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते।।

गतानृषींस्तथा देवानसुरांश्च तथा गतान्।
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते।।

प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः।
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते।।

अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते।।

अपत्यानां च वैगुण्यं जनं विगुणमेव च।
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्।।

शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः।
असारमिव मानुष्यं सर्वथा मुक्ता एव सः।।

एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत्।
गार्हस्थ्याद्यदि ते मोक्षे कृता बुद्धिरविक्लवा।।

तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः।
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुर्नवत्यधिकद्विशततमोऽध्यायः।। 294।।