शांतिपर्व
अध्यायः २९३
युधिष्ठिर उवाच।
अतत्त्वज्ञस्य शास्त्राणां संततं संशयात्मनः।
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह।।
भीष्म उवाच।
गुरुपूजा च सततं वृद्धानां पर्युपासनम्।
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
गालवस्य च संवादं देवर्षेर्नारदस्य च।।
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियः।
श्रेयस्कामो यतान्मानं नारदं गालवोऽब्रवीत्।।
यैः कैश्चित्संमतो लोके गुणैश्च पुरुषो नृषु।
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे।।
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति।
अमूढश्चिरमूढानां लोकतत्त्वमजानताम्।।
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याणामविशेषतः।
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति।।
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः।
इदं श्रेय इदं श्रेय इति सर्वे प्रबोधिताः।।
तांस्तु विप्रस्थितानदृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः।
स्वशास्त्रैः पिरतुष्टाश्च श्रेयो नोपलभामहे।।
शास्त्रं यदि भवेदेकं श्रेयो व्यक्तं भवेत्तदा।
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम्।।
एतस्मात्कारणाच्छ्रेयो गहनं प्रतिभाति मे।
ब्रवीतु भगवांस्तन्मे उपसन्नोस्म्यधीहि भो।।
नारद उवाच।
आश्रमास्तात चत्वारो यथा संकल्पिताः पृथक्।
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव।।
तेषांतेषां तथाहि त्वमाश्रमाणां ततस्ततः।
नानारूपं गुणोद्देशं पश्य विप्रस्थितं पृथक्।।
न यान्ति चैव ते सम्यगभिप्रेतमसंशयम्।
अन्येऽपश्यंस्तथा सम्यगाश्रमाणां परां गतिम्।।
यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम्।
अनुग्रहं च मित्राणाममित्राणां च निग्रहम्।।
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः।
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता।।
सद्भिश्च समुदाचारः श्रेय एतदसंशयम्।
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्।।
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्।
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि।।
असंत्यागश्च भूत्यानां श्रेय एतदसंशयम्।
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम्।।
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम्।
अहंकारस्य च त्यागः प्रमादस्य च निग्रहः।।
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते।
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च।।
ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम्।
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान्।।
नात्यर्थमुपसेवेत श्रेयसोर्थी कथंचन।।
नक्तंचर्यां दिवास्वप्नमालस्यं पैशुनं मदम्।
अतियोगमयोगं च श्रेयसोर्थी परित्यजेत्।।
आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया।
स्वगुणैरेव मार्गेति विप्रकर्षं पृथग्जनात्।।
निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविता नराः।
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात्।।
अनूच्यमानास्तु पुनस्ते मन्यन्ते महाजनात्।
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः।।
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्।
विपश्चिद्गुणसंपन्नः प्राप्नोत्येव महद्यशः।।
अब्रुवन्वाऽतिसुरभिर्गन्धः सुमनसां शुचिः।
तथैवाव्याहरन्भाति विमलो भानुरम्बरे।।
एव मादीनि चान्यानि परित्यक्तानि मेधया।
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च।।
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया।
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते।।
असदुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति।
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम्।।
मूढानामवलिप्तानामसारं भाषितं बहु।
दर्शयत्यन्तरात्मानमग्निरूपमिवांशुमान्।।
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम्।
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति मे।।
नापृष्टः कस्यचिद्ब्रूयान्नाप्यन्यायेन पृच्छतः।
जानन्नपि च मेधावी जडवत्समुपाविशेत्।।
ततो वासं परीक्षेत धर्मनित्येषु साधुषु।
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च।।
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्।
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन।।
निरारम्भोऽप्ययमिह यथालब्धोपजीवनः।
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्।।
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा।
तथा पश्यामहे स्पर्शमुभयोः पुण्यपापयोः।।
अपश्यन्तोऽन्यविषयं भुञ्जते विघसाशिनः।
भुञ्जानाश्चान्यविषयान्विषयान्विद्धि कर्मणाम्।।
यत्रागमयमानानामसत्कारेण पृच्छताम्।
प्रब्रूयाद्ब्रह्माणो धर्मं त्यजेत्तं देशमात्मवान्।।
शिष्योषाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता।
यथावच्छास्त्रसंपन्ना कस्तं देशं परित्यजेत्।।
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्।
आत्मपूजाभिकामो वै को वसेत्तत्र पण्डितः।।
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः।
प्रदीप्तमिव चेलान्तं कस्तं देशं न संत्यजेत्।।
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः।
भवेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु।।
धर्ममर्थनिमित्तं च चरेयुर्यत्र मानवाः।
न ताननुवसेज्जातु ते हि पापकृतो जनाः।।
कर्मणां यत्र पापेन वर्तन्ते जीवितेप्सवः।
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव।।
येन खट्वां समारूढः कर्मणाऽनुशयी भवेत्।
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः।।
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः।
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान्।।
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः।
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत्।।
स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः।
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन्।।
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान्।
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम्।।
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः।
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान्।।
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु।
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु।।
उपसृष्टेषु दान्तेषु दुराचारेषु साधुषु।
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम्।।
यत्र राजा धर्मनित्यो राज्यं धर्मेण पालयेत्।
अपास्य कामान्कामेशो वसेत्तत्राविचारयन्।।
यथाशीला हि राजानः सर्वान्विषयवासिनः।
श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते।।
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम्।
न हि शक्यं प्रधानेन श्रेयः सङ्ख्यातुमात्मनः।।
एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मनः।
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रिनवत्यधिकद्विशततमोऽध्यायः।। 293।।