शांतिपर्व
अध्यायः २९१
* युधिष्ठिर उवाच।
अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते।
यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह।।
भीष्म उवाच।
सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि।
तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु।।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ।।
स तेषां गुणसंघातः शरीरं भरतर्षभ।
सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च।।
ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः।
महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा।।
प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा।
तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम्।।
आकाशात्खलु यो घोषः संघातस्तु महीगुणः।
वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते।।
इत्येतन्मयमेवैतत्सर्वं स्थावरजङ्गमम्।
प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः।।
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्।
विषयान्कल्पयामास यस्मिन्यदनुपश्यति।।
शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम्।
रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः।।
रूपं चक्षुर्विपाकश्च त्रिविधं ज्योतिरूच्यते।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः।।
प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः।
इति सर्वगुणा राजन्व्याख्याताः पाञ्चभौतिकाः।।
सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत।
मनः षष्ठानि चैतेषु ईश्वरः समकल्पयत्।।
यदूर्ध्वपादतलयोरवाड्यूर्ध्नश्च पश्यसि।
एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे।।
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः।।
इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः।
तमः सत्वं रजस्तैव तेऽपि भावास्तदाश्रयाः।।
चक्षुरालोचनायैव संशयं कुरुते मनः।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते।।
तमः सत्वं रजश्चेति कालः कर्म च भारत।
गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च।
मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः।।
येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते।
जिघ्रती भवति घ्राणं रसती रसना रसान्।।
स्पर्शनं स्पर्शती स्पर्शान्बुद्धिर्विक्रियतेऽसकृत्।
यदा प्रार्थयते किंचित्तदा भवति सा मनः।।
अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा।
इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति।।
पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते।
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति।।
न सुखेन न दुःखेन कदाचिदपि वर्तते।
सेयं भावात्मिका भावांस्त्रीनेतान्परिवर्तते।।
सरितां सागरो भर्ता यथा वेलामिवोर्मिमान्।
इति भावगता बुद्धिर्भावे मनसि वर्तते।।
प्रवर्तमानं तु रजस्तद्भावेनानुर्तते।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता।।
कथंचिदुपपद्यन्ते पुरुषे सात्विका गुणाः।
पिरदाहस्तथा शोकः संतापोऽपूर्तिरक्षमा।।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः।
अविद्या रागमोहौ च प्रमादः स्तब्धता भयम्।।
असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता।
कथंचिदुपवर्तन्ते विविधास्तामसा गुणाः।।
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा।।
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः।
प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत्।।
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्।।
इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह।
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्।।
सत्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः।
सृजतेऽत्र गुणानेक एको न सृजते गुणान्।।
पृथग्भूतौ प्रकृत्या तु संप्रयुक्तौ च सर्वदा।
यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तो भवेत्तथा।।
न गुणा विदुरात्मानं स गुणान्वेद सर्वतः।
परिद्रष्टा गुणानां तु संस्रष्टा मन्यते यथा।।
आश्रयो नास्ति सत्वस्य गुणसर्गेण चेतना।
सत्वमस्य सृजन्त्यन्ये गुणान्वेद कदाचन।।
सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति।
संप्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः।।
इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा।
निश्चक्षुर्भिरजानद्भिरिन्द्रियाणि प्रदीपवत्।।
एवं स्वभावमेवैतत्तद्बुद्ध्वा विहरन्नरः।
अशोचन्नप्रहृष्यंश्च स वै विगतमत्सरः।।
स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान्।
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः।।
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे।।
इतीदं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्।
विमुच्य सुखमासीत विशोकश्छिन्नसंशयः।।
ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णां नदीं नराः।
यथा गाधमविद्वांसो बुद्धियोगमयं तथा।।
नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः।
अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः।।
न भवति विदुषां महद्भयं
यदविदुषां सुमहद्भयं भवेत्।
न हि गतिरधिकाऽस्ति कस्यचि
त्सकृदुपदर्शयतीह तुल्यताम्।।
यत्करोति बहुदोषमेकत
स्तच्च दूषयति यत्पुरा कृतम्।
नाप्रियं तदुभयं करोत्यसौ
यच्च दूषयति यत्करोति च।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकनवत्यधिकद्विशततमोऽध्यायः।। 291।।