शांतिपर्व
अध्यायः २८९
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
अस्मिन्वृत्रवधे तात विवक्षा मम जायते।।
ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप।
निहतो वासवेनेह वज्रेणेति ममानघ।।
कथमेष महाप्राज्ञ ज्वरः प्रादुर्बभूव ह।
ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो।।
भीष्म उवाच।
शृणु राजञ्ज्वरस्येमं संभवं लोकविश्रुतम्।
विस्तरं चास्य वक्ष्यामि यादृशश्चैव भारत।।
पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम्।
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम्।।
अप्रमेयमनाधृष्यं सर्वलोकेषु भारत।
तत्र देवो गिरितटे हेमधातुविभूषिते।।
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह।
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ।
तथा देवा महात्मानो वसवश्चामितौजसः।।
तथैव च महात्मानावश्विनौ भिषजां वरौ।
तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः।।
यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः।
`शङ्खपद्मनिधिभ्यां च लक्ष्म्या परमया सह।'
उपासन्त महात्मानमुशना च महाकविः।।
सनत्कुमारप्रमुखास्तथैव च महर्षयः।
अङ्गिरः प्रमुखाश्चैव तथा देवर्षयोऽपरे।।
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ।
अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः।।
ववौ सुखः शिवो वायुर्नानागन्धवहः शुचिः।
सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमास्तथा।।
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः।
महादेवं पशुपतिं पर्युपासन्त भारत।।
भूतानि च महाराज नानारूपधराण्यथ।
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः।।
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः।
देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः।।
नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः।
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा।।
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा।
पर्युपासत तं देव रूपिणी कुरुनन्दन।।
स एवं भगवांस्तत्र पूज्यमानः सुरर्षिभिः।
देवैश्च सुमहातेजा महादेवो व्यतिष्ठत।।
कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः।
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत।।
ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः।
गमनाय समागम्य बुद्धिमापेदिरे तदा।।
ते विमानैर्महात्मानो ज्वलनार्कसमप्रभैः।
देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः।।
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा।
उवाच वचनं साध्वी देवं पशुपतिं पतिम्।।
भगवन्क्वनु यान्त्येते देवाः शक्रपुरोगमाः।
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम्।।
महेश्वर उवाच।
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः।
हयमेधेन जयते तत्र यान्ति दिवौकसः।।
उमोवाच।
यज्ञमेतं महादेव किमर्थं नाधिगच्छति।
केन वा प्रतिषेधेन गमनं ते न विद्यते।।
महेश्वर उवाच।
सुरैरेव महाभागे पूर्वमेतदनुष्ठितम्।
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः।।
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः।।
उमोवाच।
भगवन्सर्वभूतेषु प्रभावाभ्यधिको गुणैः।
अजय्यश्चाप्यधृष्यश्च तेजसा यशसा श्रिया।।
अनेन ते महाभाग प्रतिषेधेन भागतः।
अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ।।
भीष्म उवाच।
एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम्।
तुष्णींभूताऽभवद्राजन्दह्यमानेन चेतसा।।
अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम्।
स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम्।।
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः।
तं यज्ञं स महातेजा भीमैरनुचरैस्तदा।।
सहसा घातयामास देवदेवः पिनाकधृत्।
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे।।
रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन्।
केचिद्यूपान्समुत्पाट्य व्याक्षिपन्विकृताननाः।।
आस्यैरन्ये चाग्रसन्त तथैव परिचारकान्।
ततः स यज्ञो नृपतेर्वध्यमानः समन्ततः।।
आस्थाय मृगरूपं वै स्वमेवाभ्यगमत्तदा।
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः।।
धनुरादाय बाणेन तदान्वसरत प्रभुः।
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः।।
ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह।
तस्मिन्यतितमात्रे च स्वेदबिन्दौ तदा भुवि।।
प्रादुर्बभूव सुमहानग्निः कालानलोपमः।
तत्र चाजायत तदा पुरुषः पुरुषर्षभ।।
ह्रस्वोऽतिमात्रं रक्ताक्षो हरिश्मश्रुर्विभीषणः।
ऊर्ध्वकेशोऽतिरोमाङ्गः श्येनोलूकस्तथैव च।।
करालकृष्णवर्णश्च रक्तवासास्तथैव च।
तं यज्ञं सुमहासत्वोऽदहत्कक्षमिवानलः।।
व्यचरत्सर्वतो देवान्प्राद्रवत्स ऋषींस्तथा।
देवाश्चाप्याद्रवन्सर्वे ततो भीता दिशो दश।।
तेन तस्मिन्विचरता पुरुषेण विशांपते।
पृथिवी ह्यचलद्राजन्नतीव भरतर्षभ।।
हाहाभूतं जगत्सर्वमुपलक्ष्य तदा प्रभुः।
पितामहो महादेवं दर्शयन्प्रत्यभाषत।।
ब्रह्मोवाच।
भवतोपि सुराः सर्वे भागं दास्यन्ति वै प्रभो।
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया।।
इमा हि देवताः सर्वा ऋषयश्च परंतप।
तव क्रोधान्महादेव न शान्तिमुपलेभिरे।।
यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम।
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति।।
एकीभूतस्य न त्वस्य धारणे तेजसः प्रभो।
समर्था सकला पृथ्वी बहुधा सृज्यतामयम्।।
इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते।
भगवन्तं तथेत्याह ब्रह्माणममितौजसम्।।
परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृत्।
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः।।
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा।
शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक।।
शीर्षाभितापो नागानां पर्वतानां शिलाजतु।
अपां तु नीलिकां विद्धि निर्मोकं भुजगेषु च।।
खोरकः सौरभेयाणामूषरं पृथिवीतले।
पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम्।।
रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम्।
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना।।
अवीनां पित्तभेदश्च सर्वेषामिति नः श्रुतम्।
शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः।।
शार्दूलष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते।
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः।।
मरणे जन्मनि तथा मध्ये चाविशते नरम्।
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः।।
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः।
अनेन हि समाविष्टो वृत्रो धर्मभूतां वरः।।
व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत्।
प्रविश्य बज्रं वृत्रं च दारयामासं भारत।।
दारितश्च स वज्रेण महायोगी महासुरः।
जगाम परमं स्थानं विष्णोरमिततेजसः।।
विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा।
तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान्।।
इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया।
विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते।।
इमां ज्वरोत्पत्तिमदीनमानसः
पठेत्सदा यः सुसमाहितो नरः।
विमुक्तरोगः स सुखी मुदा युतो
लभेत कामान्स यथा मनीषितान्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकोननवत्यधिकद्विशततमोऽध्यायः।। 289।।