शांतिपर्व
अध्यायः २५४
व्यास उवाच।
मनः प्रसृजते भावं बुद्धिरध्यवसायिनी।
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मवेदना।।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः।।
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनो गतिः।
यदा विकुरुते भाव तदा भवति सा मनः।।
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियतेऽसकृत्।
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते।।
पश्यती भवते दृष्टी रसती रसनं भवेत्।
जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक्।।
इन्द्रियाणीति तान्याहुस्तेष्वदृश्योऽधितिष्ठति।
तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते।।
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति।
न सुखेन न दुःखेन कदाचिदिह युज्यते।।
सेयं भावात्मिका भावांस्त्रीनेताननुवर्तते।
सरितां सागरो भर्ता महावेलामिवोर्मिमान्।।
यदा प्रार्थयते किंचित्तदा भवति सा मनः।
अधिष्ठानानि वै बुद्ध्यां पृथगेतानि संस्मरेत।
इन्द्रियाण्येवमेतानि विजेतव्यानि कृत्स्नशः।।
सर्वाण्येवानुपूर्व्येण यद्यदाऽनुविधीयते।
अविभागगता बुद्धिर्भावे मनसि वर्तते।
` प्रवर्तमानं तु रजः सत्वमप्यनुवर्तते।।'
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु।
अन्वर्थाः संप्रवर्तन्ते रथनेमिमरा इव।।
प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः।
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया।।
एवं स्वभावमेवेदमिति विद्वान्न मुह्यति।
अशोचन्नप्रहृष्यन्हि नित्यं विगतमत्सरः।।
न चात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः।
प्रवर्तमानैरनयैर्दुर्धर्षैरकृतात्मभिः।।
तेषां तु मनसा रश्मीन्यदा सम्यङ्क्तियच्छति।
तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाऽऽकृतिः।।
सर्वेषामेव भूतानां मनस्युपरते यथा।
प्रकाशं भवते सर्वं तथेदमुपधार्यताम्।।
यथा वारिचरः पक्षी न लिप्यति जले चरन्।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते।।
एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन्।
असज्जमानः सर्वेषु कथंचन न लिप्यते।।
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदाऽऽत्मनि।
सर्वभूतात्मभूतस्य गुणवर्गेष्वसज्जतः।।
सत्वमात्मा प्रसरति गुणान्वाऽपि कदाचन।
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा।।
परिद्रष्टा गुणानां च परिस्रष्टा यथातथम्।
क्षेतक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः।।
सृजतेऽत्र गुणानेक एको न सृजते गुणान्।
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा।।
यथा मत्स्योऽद्भिरन्यः स्यात्संप्रयुक्तौ तथैव तौ।
मशकोदुम्बरौ वाऽपि संप्रयुक्तौ यथा सह।।
इषीका वा यथा मुञ्जे पृथक्च सह चैव च।
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुःपञ्चाशदधिकद्विशततमोऽध्यायः।। 254।।