शांतिपर्व

अध्यायः २५३

Santi Parva (Sanskrit) · Adhyaya 253
अक्षर का आकार

शुक उवाच।

अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे।
यदध्यात्मं यथा वेद भगवन्नृषिसत्तम।।

व्यास उवाच।

अध्यात्मं यदिदं तात पुरुषस्येह विद्यते।
तत्तेऽहं वर्तयिष्यामि तस्य व्याख्यामिमां शृणु।।

भूमिरापस्तथा ज्योतिर्वायुराकाश एव च।
महाभूतानि भूतानां सागरस्योर्मयो यथा।।

प्रसार्येह यथाऽङ्गानि कूर्मः संहरते पुनः।
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते।।

इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्।
सर्गे च प्रलये चैव तस्मिन्निर्दिश्यते तथा।।

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्।
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति।।

शुक उवाच।

अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत्।
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत्।।

व्यास उवाच।

एतत्ते वर्तयिष्यामि यथावदनुपूर्वकः।
शृणु तत्त्वमिहैकाग्रो यथा तत्त्वं यथा च तत्।।

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम्।
प्राणश्रेष्टा तथा स्पर्श एते वायुगुणास्त्रयः।।

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते।
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः।।

घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः।
`श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी।।

एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः।
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रुपमुच्यते।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः।।

मनो बुद्धिः स्वभावश्च त्रय एते मनोमयाः।
न गुणानतिवर्तन्ते गुणेभ्यः परमागताः।।

यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति।
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति।।

यदूर्ध्वं पादतलयोरवाङ्भूर्ध्नश्च पश्यति।
एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिरुत्तमा।।

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि।
मनः षष्ठानि सर्वाणि बुद्ध्य भावे कृतो गुणाः।।

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्।।

चक्षुरालोचनायैव संशयं कुरुते मनः।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते।।

रजस्तमश्च सत्वं च त्रय एते स्वयोनिजाः।
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत्।।

तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्।
प्रशान्तमिव संशुद्धं सत्वं तदुपधारयेत्।।

यत्तु संतापसंयुक्तं काये मनसि वा भवेत्।
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत्।।

यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम्।।

प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता।
अकस्माद्यदि वा कस्माद्वर्तन्ते सात्विका गुणाः।।

अभिमानो मृषावादो लोभो मोहस्तथाऽक्षमा।
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः।।

तथा मोहः प्रमादश्च निद्रा तन्द्रा प्रबोधिता।
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
त्रिपञ्चशदधिकद्विशततमोऽध्यायः।। 253।।