शांतिपर्व
अध्यायः २२५
युधिष्ठिर उवाच।
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुयात्।
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत।।
भीष्म उवाच।
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः।
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः।।
नादान्तस्य क्रियासिद्धिर्यथावदुपपद्यते।
क्रिया तपश्च देवाश्च दमे सर्वं प्रतिष्ठितम्।।
दमस्तेजो वर्धयति पवित्रं दम उच्यते।
विपाष्मा निर्भयो दान्तः पुरुषो विन्दते महत्।।
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते।
सुखं लोके विपर्येति मनश्चास्य प्रसीदति।।
तेजो दमन ध्रियते तत्र तीक्ष्णोऽधिगच्छति।
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति।।
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम्।
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा।।
आश्रमेषु च सर्वेषु दम एव विशिष्यते।
धर्मः संरक्ष्यते तैस्तु यतस्ते धर्मसेतवः।'
यच्च तेषु फलं धर्म्यं भूयो दान्ते तदुच्यते।।
तेषां लिङ्गानि वक्ष्यानि येषां समुदयो दमः।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता।।
अक्रोध आर्जवं नित्यं नातिवादोऽभिमानिता।
गुरुपूजाऽनसूया च दया भूतेष्वपैशुनम्।।
जनवादमृषावादस्तुतिनिन्दाविवर्जनम्।
साधुकामांश्च स्पृहयेन्नायतिं प्रत्ययेषु च।।
अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः।
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽऽत्मवाञ्शुचिः।।
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति।
दुर्गमं सर्वभूतानां प्रापयन्मोदते सुखी।।
सर्वभूतहिते युक्तो न स्म यो द्विषते जनम्।
महाह्रद इवाक्षोभ्यः प्राज्ञस्तृप्तः प्रसीदति।।
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः।
नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान्।।
न हृष्यति महत्यर्थे व्यसने च न शोचति।
सदाऽपरिमितप्रज्ञः स दान्तो द्विज उच्यते।।
कर्मभिः श्रुतसंपन्नः सद्भिराचारेतः शुचिः।
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महाफलम्।।
अनसूयाऽक्षमा शान्तिः संतोषः प्रियवादिता।
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम्।।
कामक्रोधौ च लोभश्च परस्येर्ष्या विकत्थना।
`अतुष्टिरनृतं मोह एष मार्गो दुरात्मनाम्।।'
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः।
विक्रम्य घोरे तमसि ब्राह्मणः संशितव्रतः।
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चविंशत्यधिकद्विशततमोऽध्यायः।। 225।।