शांतिपर्व
अध्यायः २२४
`युधिष्ठिर उवाच।
अस्ति कश्चिद्यदि विभो सदारो नियतो गृहे।
अतीतसर्वसंसारः सर्वद्वन्द्वविवर्जितः।
तं मे ब्रूहि महाप्राज्ञ दुर्लभः पुरुषो महान्।।
भीष्म उवाच।
शृणु राजन्यथावृत्तं यन्मां त्वं पृष्टवानसि।
इतिहासमिमं शुद्धं संसारभयभेषजम्।।
देवलो नाम विप्रर्षिः सर्वशास्त्रार्थकोविदः।
क्रियावान्धार्मिको नित्यं देवब्राह्मणपूजकः।।
सुता सुवर्चला नाम तस्य कल्याणलक्षणा।
नातिह्रस्वा नातिकृशा नातिदीर्घा यशस्विनी।
प्रदानसमयं प्राप्ता पिता तस्य ह्यचिन्तयत्।।
अस्याः पतिः कुतो वेति ब्राह्मणः श्रोत्रियः परः।
विद्वान्विप्रो ह्यकुटुम्बः प्रियवादी महातपाः।।
इत्येवं चिन्तयानं तं रहस्याह सुवर्चला।।
अन्धाय मां महाप्राज्ञ देह्यनन्धाय वै पितः।
एवं स्मर सदा विद्वन्ममेदं प्रार्थितं मुने।।
पितोवाच।
न शक्यं प्रार्थितं वत्से त्वयाऽद्य प्रतिभाति मे।
अन्धतानन्धता चेति विकारो मम जायते।।
उन्मत्तेवाशुभं वाक्यं भाषसे शुभलोचने।।
सुवर्चलोवाच।
नाहमुन्मत्तभूताऽद्य बुद्धिपूर्वं ब्रवीमि ते।
विद्यते चेत्पतिस्तादृक्स मां भरति वेदवित्।।
येभ्यस्त्वं मन्यसे दातुं मामिहानय तान्द्विजान्।
तादृशं तं पतिं तेषु वरयिष्ये यथातथम्।।
भीष्म उवाच।
तथेति चोक्त्वा तां कन्यामृषिः शिष्यानुवाच ह।
ब्राह्मणान्वेदसंपन्नान्योनिगोत्रविशोधितान्।।
मातृतः पितृतः शुद्धाञ्शुद्धानाचारतः शुभान्।
अरोगान्बुद्धिसंपन्नाञ्शीलसत्वगुणान्वितान्।।
असंकीर्णांश्च गोत्रेषु वेदव्रतसमन्वितान्।
ब्राह्मणान्स्नातकाञ्शीघ्रं मातापितृसमन्वितान्।
निवेष्टुकामान्कन्यां मे दृष्ट्वाऽऽनयत शिष्यकाः।।
तच्छ्रुत्वा त्वरिताः शिष्या ह्याश्रमेषु ततस्ततः।
ग्रामेषु च ततो गत्वा ब्राह्मणेभ्यो न्यवेदयन्।।
ऋषेः प्रभावं मत्वा ते कन्यायाश्च द्विजोत्तमाः।
अनेकमुनयो राजन्संप्राप्ता देवलाश्रमम्।।
अनुमान्य यथान्यायं मुनीन्मुनिकुमारकान्।
अभ्यर्च्य विधिवत्तत्र कन्यामाह पिता महान्।।
एतेऽपि मुनयो वत्से स्वपुत्रैकमता इह।
वेदवेदाङ्गसंपन्नाः कुलीनाः शीलसंमताः।।
येऽमी तेषु वरं भद्रे त्वमिच्छसि महाव्रतम्।
तं कुमारं वृणीष्वाद्य तस्मै दास्याम्यहं शुभे।।
तथेति चोक्त्वा कल्याणी तप्तहेमनिभा तदा।
सर्वलक्षणसंपन्ना वाक्यमाह यशस्विनी।।
विप्राणां समितीर्दृष्ट्वा प्रणिपत्य तपोधनान्।
यद्यस्ति समितौ विप्रो ह्यन्धोऽनन्धः स मे वरः।।
तच्छ्रुत्वा मुनयस्तत्र वीक्षमाणाः परस्परम्।
नोचुर्विप्रा महाभागाः कन्यां मत्वा ह्यवेदिकां।।
कुत्सयित्वा मुनिं तत्र मनसा मुनिसत्तमाः।
यथागतं ययुः क्रुद्धा नानादेशनिवासिनः।।
कन्या च संस्थिता तत्र पितृवेश्मनि भामिनी।।
ततः कदाचिद्ब्रह्मण्यो विद्वान्न्यायविशारदः।
ऊहापोहविधानज्ञो ब्रह्मचर्यसमन्वितः।।
वेदविद्वेदतत्वज्ञः क्रियाकल्पविशारदः।
आत्मतत्वविभागज्ञः पितृमान्गुणसागरः।।
श्वेतकेतुरिति ख्यातः श्रुत्वा वृत्तान्तमादरात्।
कन्यार्थं देवलं चापि शीघ्रं तत्रागतोऽभवत्।।
उद्दालकसुतं दृष्ट्वा श्वेतकेतुं महाव्रतम्।
यथान्यायं च संपूज्य देवलः प्रत्यभाषत।।
कन्ये एष महाभागे प्राप्तो ऋषिकुमारकः।
वरयैनं महाप्राज्ञं वेदवेदाङ्गपारगम्।।
तच्छ्रुत्वा कुपिता कन्या ऋषिपुत्रमुदैक्षत।
तां कन्यामाह विप्रर्षिः सोऽहं भद्रे समागतः।।
अन्धोऽहमत्र तत्वं हि तथा मन्ये च सर्वदा।
विशालनयनं विद्धि तथा मां हीनसंशयम्।
वृणीष्व मां वरारोहे भजे च त्वामनिन्दिते।।
येनेदं वीक्षते नित्यं वृणोति स्पृशतेऽथवा।
घ्रायते वक्ति सततं येनेदं सार्यते पुनः।।
येनेदं मन्यते तत्वं येन बुध्यति वा पुनः।
न चक्षुर्विद्यते ह्येतत्स वै भूतान्ध उच्यते।।
यस्मिन्प्रवर्तते चेदं पश्यञ्छृण्वन्स्पृशन्नपि।
जिघ्रंश्च रसयंस्तद्वद्वर्तते येन चक्षुषा।।
तन्मे नास्ति ततो ह्यन्धो वृणु भद्रेऽद्य मामतः।
लोकदृष्ट्या करोमीह नित्यनैमित्तिकादिकम्।।
आत्मदृष्ट्या च तत्सर्वं विलिप्यासि च नित्यशः।
स्थितोऽहं निर्भरः शान्तः कार्यकारणभावनः।।
अविद्यया तरन्मृत्युं विद्यया तं तथाऽमृतम्।
यथाप्राप्तं तु संदृश्य वसामीह विमत्सरः।
क्रीते व्यवसितं भद्रे भर्ताऽहं ते वृणीष्व माम्।।
भीष्म उवाच।
ततः सुवर्चला दृष्ट्वा प्राह तं द्विजसत्तमम्।
मनसाऽसि वृतो विद्वञ्शेषकर्ता पिता मम।
वृणीष्व पितरं मह्यमेष वेदविधिक्रमः।।
तद्विज्ञाय पिता तस्या देवलो मुनिसत्तमः।
श्वेतकेतुं च संपूज्य तथैवोद्दालकेन तम्।।
मुनीनामग्रतः कन्यां प्रददौ जलपूर्वकम्।
उदाहरन्ति वै तत्र श्वेतकेतुं निरीक्ष्य तम्।।
हृत्पुण्डरीकनिलयः सर्वभूतात्मको हरिः।
श्वेतकेतुस्वरूपेण स्थितोऽसौ मधुसूदनः।।
प्रीयतां माधवो देवः पत्नी चेयं सुता मम।
प्रतिपादयामि ते कन्यां सहधर्मचरीं शुभाम्।
इत्युक्त्वा प्रददौ तस्मै देवलो मुनिपुङ्गवः।।
प्रतिगृह्य च तां कन्यां श्वेतकेतुर्महायशाः।
उपयम्य यथान्यायमत्र कृत्वा यथाविधि।।
समाप्य तन्त्रं मुनिभिर्वैवाहिकमनुत्तमम्।
स गार्हस्थ्ये वसन्धीमान्भार्यां तामिदमब्रवीत्।।
यानि चोक्तानि वेदेषु तत्सर्वं कुरु शोभने।
मया सह यथान्यायं सहधर्मचरी मम्।।
अहमित्येव भावेन स्थितोऽहं त्वं तथैव च।
तस्मात्कर्माणि कुर्वीथाः कुर्यां ते च ततः परम्।।
न ममेति च भावेन ज्ञानाग्निनिलयेन च।
अनन्तरं तथा कुर्यास्तानि कर्माणि भस्मसात्।।
एवं त्वया च कर्तव्यं सर्वदा दुर्भगा मया।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
तस्माल्लोकस्य सिद्ध्यर्थं कर्तव्यं चात्मसिद्धये।।
उक्त्वैवं स महाप्राज्ञः सर्वज्ञानैकभाजनः।
पुत्रानुत्पाद्य तस्यां च यज्ञैः संतर्प्य देवताः।।
आत्मयोगपरो नित्यं निर्द्वन्द्वो निष्परिग्रहः।
भार्यां तां सदृशीं प्राप्य बुद्धिं क्षेत्रज्ञयोरिव।।
लोकमन्यमनुप्राप्तौ भार्या भर्ता तथैव च।
साक्षिभूतौ जगत्यस्मिंश्चरमाणौ मुदाऽन्वितौ।।
ततः कदाचिद्भर्तारं श्वेतकेतुं सुवर्चला।
पप्रच्छ को भवानत्र ब्रूहि मे तद्द्विजोत्तम।।
तामाह भगवान्वाग्मी तया ज्ञातो न संशयः।
द्विजोत्तमेति मामुक्त्वा पुनः कमनुपृच्छसि।।
सा तमाह महात्मानं पृच्छामि हृदि शायिनम्।
तच्छ्रुत्वा प्रत्युवाचैनां स न वक्ष्यति भामिनि।।
नामगोत्रसमायुक्तमात्मानं मन्यसे यदि।
तन्मिथ्यागोत्रसद्भावे वर्तते देहबन्धनम्।।
अहमित्येष भावोऽत्र त्वयि चापि समाहितः।
त्वमप्यहमहं सर्वमहमित्येव वर्तते।
नात्र तत्परमार्थं वै किमर्थमनुपृच्छसि।।
ततः प्रहस्य सा हृष्टा भर्तारं धर्मचारिणी।
उवाच वचनं काले स्मयमाना तदा नृप।।
किमनेकप्रकारेण विरोधेन प्रयोजनम्।
क्रियाकलापैर्ब्रह्मर्षे ज्ञाननष्टोऽसि सर्वदा।
तन्मे ब्रूहि महाप्राज्ञ यथाऽहं त्वामनुव्रता।।
श्वेतकेतुरुवाच।
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
वर्तते तेन लोकोऽयं संकीर्णश्च भविष्यति।।
संकीर्णे च तथा धर्मे वर्णः संकरमेति च।
संकरे च प्रवृत्ते तु मात्स्यो न्यायः प्रवर्तते।।
तदनिष्टं हरेर्भद्रे धातुरस्य महात्मनः।
परमेश्वरसंक्रीडा लोकसृष्टिरियं शुभे।।
यावत्पासव उद्दिष्टास्तावत्योऽस्य विभूतयः।
तावत्यश्चैव मायास्तु तावत्योऽस्याश्च शक्तयः।।
एवं सुगह्वरे युक्तो यत्र मे तद्भवाभवम्।
छित्त्वा ज्ञानासिना गच्छेत्स विद्वान्स च मे प्रियः।
सोऽहमेव न सन्देहः प्रतिज्ञा इति तस्य वै।।
ये मूढास्ते दुरात्मानो धर्मसंकरकारकाः।
मर्यादाभेदका नीचा नरके यान्ति जन्तवः।।
आसुरीं योनिमापन्ना इति देवानुशासनम्।।
भगवत्या तथा लोके रक्षितव्यं न संशयः।
मर्यादालोकरक्षार्थमेवमस्ति तथा स्थितः।।
सुवर्चलोवाच।
शब्दः कोत्र इति ख्यातस्तथाऽर्थं च महामुने।
आकृत्या पतयो ब्रूहि लक्षणेन पृथक्पृथक्।।
श्वेतकेतुरुवाच।
व्यत्ययेन च वर्णानां परिवादकृतो हि यः।
स शब्द इति विज्ञेयस्तन्निपातोऽर्थ उच्यते।।
सुवर्चलोवाच।
शब्दार्थयोर्हि संबन्धस्त्वनयोरस्ति वा न वा।
तन्मे ब्रूहि यथातत्वं शब्दस्यानेऽर्थ एव चेत्।।
श्वेतकेतुरुवाच।
शब्दार्थयोर्न चैवास्ति संबन्धोऽत्यन्त एव हि।
पुष्करे च यथा तोयं तथाऽस्मीति च वेत्थ तत्।।
सुवर्चलोवाच।
अर्थे स्थितिर्हि शब्दस्य नान्यथा च स्थितिर्भवेत्।
विद्यते चेन्महाप्राज्ञ विनाऽर्थं ब्रूहि सत्तम।।
श्वेतकेतुरुवाच।
ससंसर्गोऽतिमात्रस्तु वाचकत्वेन वर्तते।
अस्ति चेद्वर्तते नित्यं विकारोच्चारणेन वै।।
सुवर्चलोवाच।
शब्दस्थानोत्र इत्युक्तस्तथाऽर्थ इति मे कृतः।
अर्थः स्थितो न तिष्ठेच्च विरूढमिह भाषितम्।।
श्वेतकेतुरुवाच।
न विकूलोऽत्र कथितो नाकाशं हि विना जगत्।
संबन्धस्तत्र नास्त्येव तद्वदित्येष मन्यताम्।।
सुवर्चलोवाच।
सदाऽहंकारशब्दोऽयं व्यक्तमात्मनि संश्रितः।
न वाचस्तत्र वर्तन्ते इति मिथ्या भविष्यति।।
श्वेतकेतुरुवाच।
अहंशब्दो ह्यहंभावो नात्मभावे शुभव्रते।
न वर्तन्ते परेऽचिन्त्ये वाचः सगुणलक्षणाः।।
सुवर्चलोवाच।
अहं गात्रैकतः श्यामा भावनपि तथैव च।
तन्मे ब्रूहि यथान्यायमेवं चेन्मुनिसत्तम।।
श्वेतकेतुरुवाच।
मृण्मये हि घटे भावस्तादृग्भाव इहेष्यते।
अयं भावः परेऽचिन्त्ये ह्यात्मभावो यथाच तत्।।
अहं त्वमेतदित्येव परे संकल्पना मया।
तस्माद्वाचो न वर्तन्त इति नैव विरुध्यते।।
तस्माद्वामेन वर्तन्ते मनसा भीरु सर्वशः।
यथाऽऽकाशगतं विश्वं संसक्तमिव लक्ष्यते।।
संसर्गे सति संबन्धात्तद्विकारं भविष्यति।
अनाकाशगतं सर्वं विकारे च सदा गतम्।।
तद्ब्रह्म परमं शुद्धमनौषम्यं न शक्यते।
न दृश्यते तथा तच्च दृश्यते च मतिर्मम।।
सुवर्चलोवाच।
निर्विकारं ह्यमूर्ति च निरयं सर्वगं तथा।
दृश्यते च वियन्नित्यं दृगात्मा तेन दृश्यते।।
श्वेतकेतुरुवाच।
त्वचा स्पृशति वै वायुमाकाशस्थं पुनः पुनः।
तत्स्थं गन्धं तथाघ्राति ज्योतिः पश्यति चक्षुषा।।
तमोरश्मिगणश्चैव मेघजालं तथैव च।
वर्षं तारागणं चैव नाकाशं दृश्यते पुनः।।
आकाशस्याप्यथाकाशं सद्रूपमिति निश्चितम्।
तदर्थे कल्पिता ह्येते तत्सत्यो विष्णुरेव च।
यानि नामानि गौणानि ह्युपचारात्परात्मनि।।
न चक्षुषा न मनसा न चान्येन परो विभुः।
चिन्त्यते सूक्ष्मया बुद्ध्या वाचा वक्तुं न शक्यते।।
एतत्प्रपञ्चमखिलं तस्मिन्सर्वं प्रतिष्ठितम्।
महाघटोऽल्पकश्चैव यथा मह्यां प्रतिष्ठितौ।।
न च स्त्री न पुमांश्चैव यथैव न नपुंसकः।
केवलज्ञानमात्रं तत्तस्मिन्सर्वं प्रतिष्ठितम्।।
भूमिसंस्थानयोगेन वस्तुसंस्थानयोगतः।
रसभेदा यथा तोये प्रकृत्यामात्मनस्तथा।।
तद्वाक्यस्मरणान्नित्यं तृप्तिं वारि पिबन्निव।
प्राप्नोति ज्ञानमखिलं तेन तत्सुखमेधते।।
सुवर्चलोवाच।
अनेन साध्यं किं स्याद्वै शब्देनेति मतिर्मम।
वेदगम्यः परोऽचिन्त्य इति पौराणिका विदुः।।
निरर्थको यथा लोके तद्वत्स्यादिति मे मतिः।
निरीक्ष्यैवं यथान्यायं वक्तुमर्हसि मेऽनघ।।
श्वेतकेतुरुवाच।
वेदगम्यं परं शुद्धमिति सत्या परा श्रुतिः।
व्याहत्या नैतदित्याह व्युपलिङ्गे च वर्तते।।
निरर्थको न चैवास्ति शब्दो लौकिक उत्तमे।
अनन्वयास्तथा शब्दा निरर्था इति लौकिकैः।।
गृह्यन्ते तद्वदित्येव न वर्तन्ते परात्मनि।
अगोचरत्वं वचसां युक्तमेवं तथा शुभे।।
साधनस्योपदेशाच्च ह्युपायस्य च सूचनात्।
उपलक्षणयोगेन व्यावृत्त्या च प्रदर्शनात्।
वेदगम्यः परः शुद्ध इति मे धीयते मतिः।।
अध्यात्मध्यानसंभूतमभूतं----- वत्स्फुटम्।
ज्ञानं विद्धि शुभाचारे तेन यान्ति परां गतिम्।।
यदि मे व्याहृतं गुह्यं श्रुतं न तु त्वया शुभे।
तथ्यमित्येव वा शुद्धे ज्ञानं ज्ञानविलोचने।।
नानारूपवदस्यैवमैश्वर्यं दृश्यते शुभे।
न वायुस्तं न सूर्यस्तं नाग्निस्तत्तत्परं पदम्।।
अनेन पूर्णमेतद्धि हृदि भूतमिहेष्यते।
एतावदात्मविज्ञानमेतावद्यदहं स्मृतम्।
आवयोर्न च सत्वे वै तस्मादज्ञानबन्धनम्।।
भीष्म उवाच।
एवं सुवर्चला हृष्टा प्रोक्ता भर्त्रा यथार्थवत्।
परिचर्यमाणा ह्यनिशं तत्वबुद्धिसमन्विता।।
भर्ता च तामनुप्रेक्ष्य नित्यनैमित्तिकान्वितः।
परमात्मनि गोविन्दे वासुदेवे महात्मनि।।
समाधाय च कर्माणि तन्मयत्वेन भावितः।
कालेन महता राजन्प्राप्नोति परमां गतिम्।।
एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि।
गार्हस्थ्यं च समास्थाय गतौ जायापती परम्'
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
चतुर्विंशत्यधिकद्विशततमोऽध्यायः।। 224।।