शांतिपर्व

अध्यायः २२२

Santi Parva (Sanskrit) · Adhyaya 222
अक्षर का आकार

भीष्म उवाच।

जनको नरदेवस्तु ज्ञापितः परमर्षिणा।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ।।

जनक उवाच।

भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित्।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति।।

सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति।।

असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु।
कस्मै क्रियेत तत्वेन निश्चयः कोऽत्र तत्त्वतः।।

भीष्म उवाच।

तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्।
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत्।।

उच्छेदनिष्ठा नेहास्ति भा निष्ठा न विद्यते।
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम्।
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु।।

धावतः पञ्च तेषां तु खं वायुर्ज्योतिरम्बु भूः।
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः।।

आकाशो वायुरूष्मा च स्नेहो यश्चापि पार्थिवः।
एष पञ्चसमाहारः शरीरमपि नैकधा।।

`अहं वाच्यं द्विजानां यद्विशिष्टं बुद्धिरूपवत्।
वाचामगोचरं नित्यं ज्ञेयमेवं भविष्यति।।

ज्ञानं ज्ञेयं तथा ज्ञानं त्रिविधं ज्ञानमुच्यते।'
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः।।

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः।
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः।।

`प्राणादयस्तथा स्पर्शा न संबाधगतास्तथा।
पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान्।।

श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च।
इन्द्रियाणीति पञ्चैते चित्तपूर्वगमा गुणाः।।

तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा।
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च।।

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्तयः।
एते ह्यामरणात्पञ्च षङ्गुणा ज्ञानसिद्धये।।

तेषु कर्मविसर्गश्च सर्वतत्वार्थनिश्चयः।
तमाहुः परमं शुक्रं `पारे च रजसः प्रभुम्।।

विरागाद्वर्तते तस्मिन्मतो रजसि नित्यगम्।
तस्मिन्प्रसन्ने संपश्ये' द्वुद्धिरित्यव्ययं महत्।।

इमं गुणसमाहारमात्मभावेन पश्यतः।
असम्यद्गर्शिनो दुःखमनन्तं नोपशाम्यति।।

`तस्मादेतेषु मेधावी न प्रसज्येत बुद्धिमान्।'
अनात्मेति च यद्दृष्टं तन्नाहं न ममेत्यपि।
वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः।।

यत्र सम्यङ्भनो नाम त्यागमात्रमनुत्तमम्।
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति।।

त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम्।
नित्यदुःखविनीतानां श्लेषो दुःखवहो हतः।।

द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि।
सुखत्यागे तपोयोगं सर्वत्यागे समापना।।

तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः।
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत्।।

`शेते जरामृत्युभयैर्विमुक्तः
क्षीणे पुण्ये विगते च पापे।
तपोनिमित्ते विगते च निष्ठे
फले यथाऽऽकाशमलिङ्ग एव।।'

पञ्चज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि।
मनःषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु।।

हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम्।
प्रजनानन्दयोः शेफो निसर्गे पायुरिन्द्रियम्।।

वाक्च शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः।
एवमेकादशैतानि बुद्ध्या तूपहतं मनः।।

कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे।
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः।।

एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये।
येनायं त्रिविधो भावः पर्यायात्समुंपस्थितः।।

सात्विको राजसश्चापि तामसश्चापि ते त्रयः।
त्रिविधा वेदना येषु प्रसूताः सर्वसाधनाः।।

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता।
अकुतश्चित्कुतश्चिद्वा चिन्तितः सात्विको गुणः।।

अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः।।

अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता।
कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः।।

तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्।
वर्तते सात्विको भाव इत्यपेक्षेत तत्तथा।।

यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः।
प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत्।।

अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्।।

श्रोत्रं व्योमाश्रितं भूतं शब्दः श्रोत्रं समाश्रितः।
नोभयं शब्दविज्ञाने विज्ञानस्तेतरस्य वा।।

एवं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी।
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत्।।

स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति।
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत्।।

तेषामयुगपद्भाव उच्छेदो नास्ति तामसः।
आस्थितो युगपद्भावे व्यवहारः स लौकिकः।।

इन्द्रियाण्युपसृत्यापि दृष्ट्वा पूर्वं श्रुतागमात्।
चिन्तयन्ननुपर्येति त्रिभिरेवान्वितो गुणैः।।

यत्तमोपहतं चित्तमाशुसंचारमध्रुवम्।
करोत्युपरमं काये तदाहुस्तामसं सुखम्।।

यद्यदागमसंयुक्तं न कृच्छ्रादुपशाम्यति।
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम्।।

एवमेव प्रसङ्ख्यातः स्वकर्मप्रत्ययो गुणः।
कथंचिद्वर्तते सम्यक्केषांचिद्वा निवर्तते।।

`अहमित्येष वै भावो नान्यत्र प्रतितिष्ठति।
यस्य भावो दृढो नित्यं स वै विद्वांस्तथेतरः।।

देहधर्मस्तथा नित्यं सर्वभूतेषु वै दृढः।
एतेनैवानुमानेन त्याज्यो धर्मस्तथा ह्यसौ।।

ज्ञानेन मुच्यते जन्तुर्धर्मात्मा ज्ञानवान्भवेत्।
धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम्।।

सर्वार्थजनकश्चैव धर्मः सर्वस्य कारणम्।
सर्वो हि दृश्यते लोके न सर्वार्थः कथंचन।।

सर्वत्यागे कृते तस्मात्परमात्मा प्रसीदति।
व्यक्तादव्यक्तमतुलं लोकेषु परिवर्तते।।'

एतदाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः।
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते।।

एवं सति क उच्छेदः शाश्वतो वा कथं भवेत्।
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुषु।।

यथार्णवगता नद्यो व्यक्तीर्जहति नाम च।
नतु स्वतां नियच्छन्ति तादृशः सत्वसंक्षयः।।

एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत्।
प्रतिसंमिश्रिते जीवे गृह्यमाणे च सर्वतः।।

इमां च यो वेद विमोक्षबुद्धि
मात्मानमन्विच्छति चाप्रमत्तः।
न लिप्यते कर्मफलैरनिष्टैः
पत्रं बिसस्येव जलेन सिक्तम्।।

दृढैर्हि पाशैर्बहुभिर्विमुक्तः
प्रजानिमित्तैरपि दैवतैश्च।
यदा ह्यसौ सुखदुःखे जहाति
मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः।।

मास्थाय पश्यन्ति महत्यसक्ताः।।

यथोर्णनाभिः परिवर्तमान
स्तन्तुक्षये तिष्ठति पात्यमानः।
तथा विमुक्तः प्रजहाति दुःखं
बिध्वंसते लोष्ठ इवाद्रिमृच्छन्।।

यथा रुरुः शृङ्गमथो पुराणं
हित्वा त्वचं वाऽप्युरगो यथा च।
विहाय गच्छत्यनवेक्षमाण
स्तथा विमुक्तो विजहाति दुःखम्।।

द्रुमं यथावाऽप्युदकै पतन्त
मुत्सृज्य पक्षी निपतत्यसक्तः।
तथा ह्यसौ सुखदुःखे विहाय
मुक्तः पराद्धर्यां गतिमेत्यलिङ्गः।।

ह्यहं तदन्तर्ह्यहमेव भोक्ता।।'

अपिच भवति मैथिलेन गीतं
नगरमुपाहितमग्निनाऽभिवीक्ष्य।
न खलु मम तुषोऽपि दह्यतेऽत्र
स्वयमिदमाह किल स्म भूमिपालः।।

भीष्म उवाच।

इदममृतपदं विदेहराजा
स्वयमिह पञ्चशिखेन भाष्यमाणम्।
निखिलमभिसमीक्ष्य निश्चितार्थः
परमसुखी विजहार वीतशोकः।।

इमं हि यः पठति विमोक्षनिश्चयं
महीपते सततमवेक्षते तथा।
उपद्रवान्नानुभवत्यदुःखितः
प्रमुच्यते कपिलमिवैत्य मैथिलः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोश्रधर्मपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः।। 222।।