शांतिपर्व
अध्यायः २२१
`*भीष्म उवाच।
जनको नरदेवस्तु ज्ञापितः परमर्षिणा।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ।।
भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित्।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति।।
विवादादेव सिद्धोऽसौ कारणस्येव वेदना।
चेतनो विद्यते ह्यत्र हैतुकं च मनोगतम्।।
आगमादेव सिद्धोऽसौ स्वताः सिद्धा इति श्रुतिः।
वर्तते पृथगन्योन्यं न ह्यपःश्रित्य कर्मसु।।
चेतनो ह्यंशवस्तत्र स्वमूर्तं धारयन्त्यतः।
स्वभावं पौरुषं कर्म ह्यात्मानं तमुपाश्रितम्।
तमाश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः।।
गुणज्ञानमभिज्ञानं तस्य लिङ्गानुशब्दयत्।
पृथिव्यादिषु भूतेषु तत्तदाहुर्निदर्शनम्।।
आत्माऽसौ वर्तते भिन्नस्तत्रतत्र समन्वितः।
परमात्मा तथीवैको देवेऽस्मिन्निति वै श्रुतिः।।
आकाशं वायुरूष्भा च स्नेहो यच्चापि पार्थिवम्।
यथा त्रिधा प्रवर्तन्ते तथाऽसौ पुरुषः स्मृतः।।
पपस्यन्तर्हितं यद्वत्तद्वद्व्याप्तं महात्मकम्।
पूर्वं नैश्चर्ययोगेन तस्मादेतन्न शेपवान्।।
शब्दाः कालः क्रिया देहो ममैकस्वैव कल्पना।
स्वभावं तन्मयं त्वेदं मायारूपं तु भेदवत्।।
नानाख्यं परं शुद्धं निर्विकल्पं परात्मकम्।
लिङ्गादि देवमध्यास्ते ज्ञानं देवस्य तत्तथा।।
चिन्मयोऽयं हि नादाख्यः शब्दश्चासौ मनो महान्।
गतिमानुत संधत्ते वर्णमत्तत्पदान्वितम्।।
कायो नास्ति च तेषां वै अवकाशस्तथा परम्।
एतेनोढा इति चाख्याताः सर्वे ते धर्मदूषकाः।।
अवन्धनमविज्ञानाज्ज्ञानं तद्भुवमव्ययम्।
नानाभेदविकल्पने येषामात्मा स्मृतः सदा।।
प्रकृतेरपरस्तेषां बहवोऽप्यात्मवादिनः।
विरोधो ह्यात्मसन्मायां न तेषां सिद्ध एव हि।
अन्यदा च गृहीतै-----वेदबाह्यास्ततः स्मृताः।।
एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत्।
तस्माद्वेदस्य हृदयमद्वैध्यमिति विद्धि तत्।।
वेदादृष्टेरयं लोकः सर्वार्थेषु प्रवर्तते।
तस्माच्च स्मृतयो जाताः सेतिहासाः पृथग्विधाः।।
न यन्न साध्यं तद्ब्रह्म नादिमध्यं न चान्तवत्।
इन्द्रियाणि च भूरीणि परा च प्रकृतिर्मनः।।
आत्मा च परमः शुद्धः प्रोक्तोऽसौ परमः पुमान्।।
उत्पत्तिलक्षणं चेदं विपरीतमथोभयोः।
यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस्तु ताम्।
प्रदहत्येष कर्माख्यं दावोद्भूत इवानलः।।
चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते।।
आकाशकल्पं विमलं नानाशक्तिसमन्वितम्।
तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम्।
दुःखमस्ति न निर्दुःखं तद्विद्वान्न च लिप्यति।।
असावश्नाति यद्वत्तद्वमरोऽश्नाति यन्मधु।
एवमेव महानात्मा नात्मानमवबुध्यते।।
एवंभूतस्त्वमित्यत्र स्वाधितो बुद्ध्यते परम।
बुधस्य बोधनं तत्र क्रियते सद्भिरित्युत।
न बुधस्येति वै कश्चिन्न तथावच्छृणुष्व मे।।
शोकमस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः।
लोकं निध्नन्ति संभिन्ना ज्ञातिनोत्र वदन्त्युत।।
एवं तस्य विभोः कृत्यं धातुरस्य महात्मनः।
क्षमन्ति ते महात्मानः सर्वद्वन्द्वविवर्जिताः।।
अतोऽन्यथा महात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा।।
तस्य संयोगयोगेन शुचिरप्यशुचिर्भवेत्।
अशुचिश्च शुचिश्चापि ज्ञानाद्देहादयो यथा।।
दृश्यं न चैव दृष्टं स्याद्दृष्टं दृश्यं तु नैव च।।
अतीतत्रितयाः सिद्धा ज्ञानरूपेण सर्वदा।
एवं न प्रतिपद्यन्ते रागमोहमदान्विताः।।
वेदबाह्या दुरात्मानः संसारे दुःखभागिनः।
आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते।।
बुद्ध्या भवति बुद्ध्या त्वं यद्बुद्धं चात्मरूपवत्।
तमस्यन्धे न संदेहात्परं यान्ति न संशयः।।
नित्यनैमित्तिकान्कृत्वा पापहानिमवाप्य च।
शुद्धसत्वा महात्मानो ज्ञाननिर्धूतकल्मषाः।।
असक्ताः परिवर्तन्ते संसरन्त्यथ वायुवत्।
न युज्यन्तेऽथवा क्लेशैरहंभावोद्भवैः सह।।
इतस्ततः समाहृत्य ज्ञानं निर्वर्णयन्त्युत।
ज्ञानान्वितस्तमो हन्यादर्कवत्स महामतिः।।
एवमात्मानमन्वीक्ष्य नानादुःखसमन्वितम्।
देहं पङ्कमले मग्नं निर्मलं परमार्थतः।।
तमेवं सर्वदुःखात्तु मोचयेत्परमात्मवान्।
ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः।
लघ्वाहारो विशुद्धात्मा परं निर्वाणमृच्छति।।
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च।
आनुपूर्व्याद्विनश्यन्ति स्वं धातुमुपयान्ति च।।
कारणानुगतं कार्यं यदि तच्च विनश्यति।
अलिङ्गस्य कथं लिङ्गं युज्यते तन्मृषा दृढम्।।
न त्वेव हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः।
अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते।।
लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम्।
कृतानुस्मरणात्सिद्धो वेदगम्यः परः पुमान्।।
प्रत्यक्षानुगतो वेदो नामहेतुभिरिष्यते।।
यथा शाखा हि वै शाखा तरोः संबध्यते तदा।
श्रुत्या तथापरोप्यात्मा दृश्यते सोऽप्यलिङ्गवान्।
अलिङ्गसाध्यं तद्ब्रह्म बहवः सन्ति हेतवः।।
लोकयात्राविधानं च दानधर्मफलागमः।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः।।
इति सम्यङ्भनस्येते बहवः सन्ति हेतवः।
एतदस्तीदमस्तीति न किंचित्प्रतिदृश्यते।।
तेषां विमृशतामेवं तत्तत्समभिधावताम्।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत्।।
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः।
आगमैरपकृष्यन्ति हस्तिनो हस्तिपैर्यथा।।
न जातु कामः कामामामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिर्वधते।।
अर्थांस्तथाऽत्यन्तदुःखाबहांश्च
लिप्सन्त एके बहवो विशुष्काः।
महत्तरं दुःखमभिप्रपन्ना
हित्वा सुखं मृत्युवशं प्रयान्ति।।
विनाशिनो ह्यध्रुवजीवितस्य
किं बन्धुभिर्मन्त्रपरिग्रहैश्च।
विहाय यो गच्छति सर्वमेव
क्षणेन गत्वा न निवर्तते च।।
स्वं भूमितोयानलवायवो हि
सदा शरीरं प्रतिपालयन्ति।
इतीदमालक्ष्य कुतो रतिर्भवे
द्विनाशिनो ह्यस्य न कर्म विद्यते।।
इदमनुपधिवाक्यमच्छलं
परमनिरामयमात्मसाक्षिकम्।
नरपतिरनुवीक्ष्य विस्मितः
पुनरनुयोक्तुमिदं प्रचक्रमे।।'
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
एकविंशत्यधिकद्विशततमोऽध्यायः।। 221।।