शांतिपर्व
अध्यायः २०७
युधिष्ठिर उवाच।
के पूर्वमासन्पतयः प्रजानां भरतर्षभ।
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्थिताः।।
भीष्म उवाच।
श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि।
प्रजानां पतयो ये च दिक्षु ये चर्षयः स्मृताः।।
एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः।
ब्रह्मणः सप्त वै पुत्रा महात्मानः स्वयंभुवः।।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
वसिष्ठश्च महाभागः सदृशो वै स्वयंभुवा।।
सप्त ब्रह्मण इत्येते पुराणे निश्चयं गताः।
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन्।।
अत्रिवंशतमुत्पन्नो ब्रह्मयोनिः सनातनः।
प्राचनवर्हिर्भगवांस्तस्मात्प्राचेतसो दश।।
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः।
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते।।
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते।
अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः।।
अत्रेश्चैवौरसः श्रीमान्राजा सोमश्च वीर्यवान्।
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता।।
अर्यमा चैव भगवान्ये चास्य तनया विभो।
एते प्रदेशाः कथिता भुवनानां प्रभावनाः।।
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत।
एकैकस्यां सहस्रं तु तनयानामभूत्तदा।।
एवं शतसहस्राणि दश तस्य महात्मनः।
पुत्राणां च न ते संचिदिच्छन्त्यन्यं प्रजापतिम्।।
प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम्।
स वृष्णिवंशप्रभवो महावंशः प्रजापतेः।।
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः।।
शशबिन्दुस्तु राजर्षिर्महायोगी महामनाः।
अध्यात्मवित्सहस्राणां भार्याणां दशमध्यगः।।
स योगी योगमापन्नस्ततः सायुज्यतां गतः।'
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान्।।
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा।
सविता चैव घाता च विवस्वांश्च महाबलः।।
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
इत्येते द्वादशादित्याः कश्यपस्यात्मसंभवाः।।
नासत्यश्चैव दस्रश्च स्मृतो द्वावश्विनावपि।
मार्तण्डस्यात्मजावेतावात्मस्य प्रजापतेः।।
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः।।
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः।।
सावित्रश्च जयन्तश्च पिनाकी चापराजितः।
`एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः।।'
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः।
एत एवविधा देवा मनोरेव प्रजापतेः।
ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः।।
शीलयौवनयोस्त्वन्यस्तथाऽन्ये सिद्धसाध्ययोः।
ऋभवो मरुतश्चैव देवानां चोदितो गणः।।
एवमेते समाम्नाता विश्वेदेवास्तथाऽश्विनौ।
आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा।।
अश्विनौ तु स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ।
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः।
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्।।
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत्।
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते।।
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू।
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः स्मृतः।।
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा।
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा।।
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान्।
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः।।
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्।
एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम्।।
उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान्।
एकतश्च द्वितश्चैव त्रितश्चैवं महर्षयः।।
अत्रेः पुत्रश्च दुर्वासास्तथा सारस्वतः प्रभुः।
एते चैव महात्मानः पश्चिमामाश्रिता दिशम्।।
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानुषिः।
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः।।
तथैव पुत्रो भगवानृचीकस्य महात्मनः।
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम्।।
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः।
साक्षिभूता महात्मानो भुवनानां प्रभावनाः।।
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम्।
एतेषां कीर्तनं कृत्वा सर्वपापात्प्रमुच्यते।।
यस्यांयस्यां दिशि ह्येते तां दिशं शरणं गतः।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च तथा भवेत्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि सप्ताधिकद्विशततमोऽध्यायः।। 207।।