शांतिपर्व
अध्यायः २०६
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्।
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम्।।
नारायणं हृषीकेशं गोविन्दमपराजितम्।
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम्।।
भीष्म उवाच।
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च।।
असितो देवलस्तात वाल्मीकिश्च महातपाः।
मार्कण्डेयश्च गोविन्दे कथयन्त्यद्भुतं महत्।।
`केशवस्य मया राजन्न शक्या वर्णितुं गुणाः।
ईदृशोऽसौ हृषीकेशो वासुदेवः परात्परः।।'
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः।
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः।।
किंतु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनि।
महात्मनि महाबाहो शृणु तानि युधिष्ठिर।।
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः।
श्रुत्वा सर्वाणि गोविन्दो कीर्तयिष्यामि तान्यहम्।।
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः।
वायुर्ज्योतिस्तथा चापः खं च गां चान्वकल्पयत्।।
स सृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः।
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः।।
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे।
सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत्।।
आश्रयं सर्वभूतानां मनसेतीह शुश्रुम्।
स धारयति भूतानि उभे भूतभविष्यती।।
`प्रद्युम्नमसृजत्तस्मात्सर्वतेजः प्रकाशकम्।
अनिरुद्धस्ततो जज्ञे सर्वशक्तिर्महाद्युतिः।।
अप्सु व्योमगतः श्रीमान्योगनिद्रामुपेयिवान्।
तस्मात्संजज्ञिरे देवा ब्रह्मविष्णुमहेश्वराः।
लयस्थित्यन्तकर्माणस्रयस्ते सुमहौजसः।।'
ततस्तस्मिन्महाबाहौ प्रादुर्भूते महात्मनि।
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत।।
स तत्र भगवान्देवः पुष्करे भ्राजयन्दिशः।
ब्रह्मा समभवत्तात सर्वभूतपितामहः।।
तस्मिन्नपि महाबाहौ प्रादुर्भूते महात्मनि।
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः।।
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्।
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः।।
तस्य तात वधात्सर्वे देवदानवमानवाः।
मधुसूदनमित्याहुर्ऋषभं सर्वसात्वताम्।।
ब्रह्माऽनुससृजे पुत्रान्मानसान्दक्षसप्तमान्।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्।।
मरीचिः कश्यपं तात पुत्रमग्रजमग्रजः।
मानसं जनयामास तैजसं ब्रह्मवित्तमम्।।
अङ्गुष्ठात्ससृजे ब्रह्मा मरीचेरपि पूर्वजम्।
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः।।
तस्य पूर्वमजायन्त दश तिस्रश्च भारत।।
प्रजापतेर्दुहितरस्तासां ज्येष्ठाऽभवद्दितिः।।
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः।
मारीचः कश्यपस्तात सर्वासामभवत्पतिः।।
उत्पाद्य तु महाभागस्तासामवरजा दश।
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः।।
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः।
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत।।
अपराश्च यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः।
सोमस्तासां महाभागः सर्वासामभवत्पतिः।।
इतरास्तु व्यजायन्त गन्धवोस्तुरगान्द्विजान्।
गाश्च किंपुरुषान्मत्स्यानुद्भिज्जांश्च वनस्पतीन्।।
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान्।
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः।।
तस्य विक्रमणाच्चापि देवानां श्रीर्व्यवर्धत।
दानवाश्च पराभूता दैतेयाश्चासुरी प्रजा।।
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः।
दितिस्तु सर्वानसुरान्महासत्वानजीजनत्।।
`ततः ससर्ज भगवान्मृत्युं लोकभयंकरम्।
हर्तारं सर्व भूतानां ससर्ज च जनार्दनः।।
अहोरात्रं च कालं च यथर्तु मधुसूदनः।
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत्।।
लब्ध्वापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्।
पृथिवीं सोऽसृजद्विश्वां सहीतां भूरितेजसा।।
ततः कृष्णो महाभागः पुनरेव युधिष्ठिर।
ब्राह्मणानां शतं श्रेष्ठं मुखादेवासृजत्प्रभुः।।
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम्।
पद्भ्यां शूत्रशतं चैव कशेवो भरतर्षभ।।
स एवं चतुरो वर्णान्समुत्पाद्य महातपाः।
अध्यक्षं सर्व भूतानां धातारमकरोत्स्वयम्।।
वेदविद्याविधातारं ब्रह्माणमतितद्युतिम्।
भूतमातृगणाध्यक्षं विरूपाक्षं च सोऽसृजत्।।
शासितारं च पापानां पितृणां समवर्तिनम्।
असृजत्सर्वभूतात्मा निधिपं च धनेश्वरम्।।
यादसामसृजन्नाथं वरुणं च जलेश्वरम्।
वासवं सर्वदेवानामध्यक्षमकरोत्प्रभुः।।
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्।
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम्।।
न चैषां मैथुनो धर्मो बभूव भरतर्षभ।
संकल्पादेव चैतेषां गर्भः समुपपद्यते।।
ततस्रेतायुगे काले संस्पर्शाज्जायते प्रजा।
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप।।
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप।
तथा कलियुगे राजन्द्वन्द्वमापेदिरे जनाः।।
एष भूतपतिस्तात स्वध्यक्षश्च तथोच्यते।
निरपेक्षांश्च कौन्तेय कीर्तयिष्यामि तच्छृणु।।
दक्षिणापथजन्मानः सर्वे करभृतस्तव।
आन्ध्राः पुलिन्दाः शवराश्चूचुपा मद्रकैः सह।।
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि।
ये तु काम्भोजगान्धाराः किराता बर्वरैः सह।।
एते पापकृतस्तात चरन्ति पृथिवीमिमाम्।
बकश्वपाकगृध्राणां सधर्माणो नराधिप।।
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्।
त्रेताप्रभुति वर्धन्ते ते जना भरतर्षभ।।
ततस्तस्मिन्महाघोरे संन्ध्याकाले युगान्तिके।
राजानः समसज्जन्त समासाद्येतरेतम्।।
`ऐन्द्रं रूपं समास्थाय ह्यसुरेभ्यो चरन्महीम्।
स एव भगवान्देवो वेदित्वं च गता मही।।
एवंभूते सृष्टिर्नारसिंहादयः क्रमात्।
प्रादुर्भावाः स्मृता विष्णोर्जगतीरक्षणाय वै।।
एष कृष्णो महायोगी तत्तत्कार्यानुरूपणम्।
हिरण्यकशिपुं दैत्यं हिरण्याक्षं तथैव च।।
रावणं च महादैत्यं हत्वासौ पुरुषोत्तमः।
भूमेर्दुःखोपनाशार्थं ब्रह्मशक्रादिभिः स्तुतः।।
आत्मनोऽङ्गान्महातेजा उद्वबर्ह जनार्दनः।
सितकृष्णौ महाराज केशौ हरिरुदारधीः।।
वसुदेवस्य देवक्यामेष जात इहोत्तमः।
देहवानिह विश्वात्मा संबन्धी ते जनार्दनः।।
आविर्वभूव योगीन्द्रो मनोतीतो जगत्पतिः।
अचिन्त्यः पुरुषव्याघ्र नैव केवलमानुषः।।
अव्यक्तादिविशेषान्तं परिमाणार्थसंयुतम्।
क्रीडा हरेरिदं सर्वं क्षरमित्येव धार्यताम्।।
अक्षरं तत्परं नित्यं वैरूप्यं जगतो हरेः।
तद्विद्धि रूपमतुलममृतत्वं भवज्जितम्।।
तदेव कृष्णो दाशार्हः श्रीमाञ्श्रीवत्सलक्षणः।
न भूतसृष्टिसंस्थानं देहोऽस्य परमात्मनः।।
देहवानिह यो विष्णुरसौ मायामयो हरिः।
आत्मनो लोकरक्षार्थं ध्याहि नित्यं सनातनम्।।
अङ्गानि चतुरे वेदा मीमांसा न्यायविस्तरः।
इतिहासपुराणानि धर्माः स्वायंभुवादयः।।
य एनं प्रतिवर्तन्ते वेदान्तानि च सर्वशः।
भक्तिहीना न तैर्यान्ति नित्यमेनं कथंचन।।
सर्वभूतेषु भूतात्मा तत्तद्बुद्धिं समास्थितः।
तस्माद्बुद्धस्त्वमेवैनं ध्याहि नित्यमतन्द्रितः।।'
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः।
एवं देवर्षिराचष्ट नारदः सर्वलोकदृक्।।
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप।
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ।।
एवमेव महाबाहुः केशवः सत्यविक्रमः।
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः।।
`एवंविधोऽसौ पुरुषः को वैनं वेत्ति सर्वदा।
एतत्ते कथितं राजन्भूयः श्रोतुं किमिच्छसि'।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि षडधिकद्विशततमोऽध्यायः।। 206।।