शांतिपर्व
अध्यायः १९
युधिष्ठिर उवाच।
वेदाहं तात शास्त्राणि अपराणि पराणि च।
उभयं वेदवचनं कुरु कर्म त्यजेति च।।
आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च।
निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि।।
त्वं तु केवलशास्त्रज्ञो वीरव्रतसमन्वितः।
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन।।
शास्त्रार्थतत्त्वदर्शी यो धर्मनिश्चयकोविदः।
तेनाप्येवं न वाच्योऽयं यदि धर्मं प्रपश्यसि।।
भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया।
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन।।
`महेश्वरसमं सत्वं ब्रह्मणा चैव यत्समम्।
वासुदेवसमं चैव न भूतं न भविष्यति।।
तथा त्वं योधमुख्येषु सत्वं परममिष्यते।।
बलमिन्द्रे च वायौ च बलं यच्च जनार्दने।
तद्वलं भीमसेने च त्वयि चार्जुना विद्यते।।
त्वत्समश्चित्रयोधी च दूरपाती च पाण्डव।
दिव्यास्त्रबलसंपन्नः को वाऽन्यस्त्वत्समो नरः।।
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च।
न त्वया सदृशः कश्चिन्त्रिषु लोकेषु विद्यते।।
धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया।
धर्मसूक्ष्मं तु यद्वाच्यं तत्र दुष्प्रतरं त्वया।
धनञ्जय न मे बुद्धिमतिशङ्कितुमर्हसि।।
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया।
समासविस्तरविदां न तेषां वेत्सि निश्चयम्।।
तपस्त्यागो विधिरिति निश्चयस्तात धीमताम्।
परस्परं ज्याय एषामिति नः श्रेयसी मतिः।।
यत्त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति।
तत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः।।
तपः स्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः।
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः।।
अजातश्मश्रवो धीरास्तथाऽन्ये वनवासिनः।
अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः।।
उत्तरेण तु पन्थानमार्या विषयनिग्रहात्।
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः।।
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते।
एते क्रियावतां लोका ये श्मशानानि भेजिरे।।
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः।
तस्मात्त्यागः प्रधानेष्टः स तु दुःखं प्रवेदितुम्।।
अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः।
अपीह स्यादपीह स्यात्सारासारदिदृक्षया।।
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च।
विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते।।
अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके।
इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः।।
अग्राह्यं चक्षुषा सत्वमनिर्देश्यं च तद्गिरा।
कर्महेतुपुरस्कारं भूतेषु पस्विर्तते।।
कल्याणगोचरं कृत्वा मानं तृष्णां निगृह्य च।
कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी।।
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते।
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि।।
पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत।
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि।।
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः।
दृढपूर्वे स्मृता मूढा नैतदस्तीति वादिनः।।
अनृतस्यावमन्तारो वक्तारो जनसंसदि।
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः।।
पार्थ यन्न विजानीमः कस्ताञ्ज्ञातुमिहार्हति।
एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः।।
तपसा महदाप्नोति बुद्ध्या वै विन्दते महत्।
त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित्।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि एकोनविंशोऽध्यायः।। 19।।