शांतिपर्व

अध्यायः १८

Santi Parva (Sanskrit) · Adhyaya 18
अक्षर का आकार

वैशंपायन उवाच।

तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत्।
संतप्तः शोकदुःखाभ्यां राजवाक्शल्यपीडितः।।

अर्जुन उवाच।

कथयन्ति पुरावृत्तमितिहासमिमं जनाः।
विदेहराज्ञः संवादं भार्यया सह भारत।।

उत्सृज्य राज्यं भिक्षार्थं कृतबुद्धिं नरेश्वरम्।
विदेहराजमहीषी दुःखिता प्रत्यभाषत।।

धनान्यपत्यं मित्राणि रत्नानि विविधानि च।
पन्थानं पावनं हित्वा जनको मौढ्यमास्थितः।।

तं ददर्श प्रिया भार्या भैक्षवृत्तिमकिंचनम्।
धानामुष्टिमुपासीनं निरीहं गतमत्सरम्।।

तमुवाच समामत्य भर्तारमकुतोभयम्।
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः।।

कथमुत्सृज्य राज्यं स्वं धनधान्यसमन्वितम्।
कापालीं वृत्तिमास्थाय धान्यमुष्टिमुपाससे।।

प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव।
यद्राज्यं महदुत्सृज्य स्वल्पे लुभ्यसि पार्थिव।।

नैतेनातिथयो राजन्देवर्षिपितरस्तथा।
अद्य शक्यास्त्वया भर्तुं मोघस्तेऽयं परिश्रमः।।

देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव।
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः।।

यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः।
भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भूतिमिच्छसि।।

श्रियं हित्वा प्रदीप्तां त्वं श्ववत्संप्रति वीक्ष्यसे।
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया।।

आश्रिता धर्मकामास्त्वां क्षत्रियाः पर्युपासते।
त्वदाशामभिकाङ्क्षन्तः कृपणाः फलहेतुकाः।।

तांश्च त्वं विफलान्कृत्वा कं नु लोकं गमिष्यसि।
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु।।

नैव तेऽस्ति परो लोको नापरः पापकर्मणः।
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम्।।

स्रजो गन्धानलंकारान्वासांसि विविधानि च।
किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः।।

निपानं सर्वभूतानां भूत्वा त्वं पावनं महत।
आढ्यो वनस्पतिर्भूत्वा सोन्यांस्त्वं पर्युपाससे।।

खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत।
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम्।।

य इमां कुण्डिकां भिन्द्यान्त्रिविष्टब्धं च यो हरेत्।
वासश्चापि हरेत्तस्मिन्कथं ते मानसं भवेत्।।

यस्त्वं सर्वं समुत्सृज्य धानामुष्टिमनुग्रहः।
यदनेन कृतं सर्वं किमिदं मम दीयते।।

धानामुष्टेरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति।
का वाऽहं तव को मे त्वं कश्च ते मय्यनुग्रहः।।

प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत्।
प्रासादे शयनं यानं वासांस्याभरणानि च।।

श्रियां निराशैरधनेस्त्यक्तमित्रैरकिंचनैः।
सौखिकैः संभृतो योऽर्थः स संत्यजति किंनु तं।।

योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि।
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते।।

सदैव याचमानेषु तथा दम्भान्वितेषु च।
एतेषु दक्षिणा दत्ता दावाग्राविव दुर्हुतम्।।

जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति।
सदैव याचमानो वै तथा शाम्यति न द्विजः।।

सतां वै ददतोऽन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा।
न चेद्राजा भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः।।

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च।
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत्।।

गृहस्थेभ्योऽपि निर्मुक्ता गृहस्थानेव संश्रिताः।
प्रभवं च प्रतिष्ठां च दान्ता विन्दन्त आसते।।

त्यागान्न भिक्षुकं विन्द्यान्न मौढ्यान्न च याचनात्।
ऋजुस्तु योऽर्थं त्यजति तं मुक्तं विद्धि भिक्षुकम्।।

असक्तः शक्तवद्गच्छन्निः सङ्गो मुक्तबन्धनः।
समः शत्रौ च मित्रे च स वै मुक्तो महीपते।।

परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः।
सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम्।।

त्रयीं च नामवार्तां च त्यक्त्वा पुत्रान्व्रजन्ति ये।
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः।।

अनिष्कषाये काषायमीहार्थमिति विद्धि तम्‌।
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः।।

काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान्।
बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः।।

अग्न्याधेयानि गुर्वर्थं क्रतूनपि सुदक्षिणान्।
ददात्यहरहः पूर्वं को नु धर्मरतस्ततः।।

अर्जुन उवाच।

तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते।
सोऽप्यासीन्मोहसंपन्नो मा मोहवशमन्वगाः।।

एवं धर्ममनुक्रान्ता सदा दानतपः पराः।
आनृशंस्यगुणोपेताः कामक्रोधविवर्जिताः।।

प्रजानां पालने युक्ता दममुत्तममास्थिताः।
इष्ट्वा लोकानवाप्स्यामो गुरुवृद्धोपचायिनः।।

देवतातिथिभूतानां निर्वपन्तो यथाविधि।
स्थानमिष्टमवाप्स्यामो ब्रह्मण्याः सत्यवादिनः।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि अष्टादशोऽध्यायः।। 18।।