शांतिपर्व

अध्यायः १८५

Santi Parva (Sanskrit) · Adhyaya 185
अक्षर का आकार

भृगुरुवाच।

न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च।
याति देहान्तरं प्राणी शरीरं तु विशीर्यते।।

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति।
यथा समित्सु दग्धासु न प्रणश्यति पावकः।।

भरद्वाज उवाच।

अग्नेर्यथा समिद्धस्य यदि नाशो न विद्यते।
इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते।।

नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्।
मतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते।।

भृगुरुवाच।

`जीवस्य चेन्धनाग्नेश्च सदा नाशो न विद्यते।'
समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते।
आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः।।

तथा शरीरसंत्यागे जीवो ह्याकाशमाश्रितः।
न गृह्यते तु सूक्ष्मत्वाद्यथा ज्योतिरनिन्धनम्।।

प्राणान्धारयते योऽग्निः स जीव उपधार्यताम्।
वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्।।

तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम्।
पतितं याति भूमित्वमयनं तस्य हि क्षितिः।।

जङ्गमानां हि सर्वेषां स्थावराणां तथैव च।
आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति।
तेषां त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम्।।

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः।
अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः।।

भरद्वाज उवाच।

यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु।
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ।।

पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते।
शरीरे प्राणिनां जीवं वेत्तुमिच्छामि यादृशम्।।

मांसशोणितसंघाते मेदः स्नाय्वस्थिसंचये।
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते।।

यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम्।
शारीरे मानसे दुःखे कस्तां वेदयते रुजम्।।

शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्।
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः।।

सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा।
मनसि व्याकुले तस्मिन्पश्यन्नपि न पश्यति।।

न पश्यति न चाघ्राति न शृणोति न भाषते।
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः।।

हृष्यति क्रुध्यते कोऽत्र शोचत्युद्विजते च कः।
इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः।।

भृगुरुवाच।

न पञ्चसाधारणमत्र किंचि
च्छरीरमेकी वहतेऽन्तरात्मा।
स वेत्ति गन्धांश्च रसाञ्श्रुतीश्च
स्पर्शं च रूपं च गुणाश्च येऽन्ये।।

पञ्चात्मके पञ्चगुणप्रदर्शी
स सर्वगात्रानुगतोऽन्तरात्मा।
स वेत्ति दुःखानि सुखानि चात्र
तद्विप्रयोगात्तु न वेत्ति देही।।

यदा न रूपं न स्पर्शो नोष्मभावश्च पञ्चके।
तदा शान्ते शरीराग्नौ देहं त्यक्त्वा न नश्यति।।

अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम्।
तत्रात्मा मानसो ब्रह्मा सर्व भूतेषु लोककृत्।।

[आत्मा क्षेत्रज्ञ इत्युक्तः संयुक्तः प्राकृतैर्गुणैः।
तैरेव तु विनिर्मुक्तः परमात्मेत्युदाहृतः।।]

आत्मानं तं विजानीहि सर्वलोकविपाचकम्।
स तस्मिन्संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे।।

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्।
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्।।

सचेतनं जीवगुणं वदन्ति
स चेष्टते चेष्टयते च सर्वम्।
ततः परं क्षेत्रविदो वदन्ति
प्रावर्तयद्यो भुवनानि सप्त।।

न जीवनाशोऽस्ति हि देहभेदे
मिथ्यैतदाहुर्मुत इत्यबुद्धाः।
जीवस्तु देहान्तरितः प्रयाति
दशार्धतैवास्य शरीरभेदः।।

एवं सर्वेषु भूतेषु गूढश्चरति संवृतः।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः।।

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः।
लध्वाहारो विशुद्धात्मा पश्यत्यात्मानंमात्मनि।।

चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्।
प्रसन्नात्माऽत्मनि स्थित्वा सुखमव्ययमश्नुते।।

मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते।
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चया।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः।। 185।।