शांतिपर्व
अध्यायः १८४
भरद्वाज उवाच।
यदि प्राणयते वायुर्वायुरेव विचेष्टते।
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः।।
यदूष्मभाव आग्नेयो वह्निना पच्यते यदि।
अग्निर्जरयते चैतत्तस्माज्जीवो निरर्थकः।।
जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते।
वायुरेव जहात्येनमूष्मभावश्च नश्यति।।
यदि वायुमयो जीवः संश्लेषो यदि वायुना।
वायुमण्डलवद्दृश्येद्गच्छन्सह मरुद्गणैः।।
श्लेष्मं वा यदि वा जीवः सह तेन प्रणश्यति।
महार्णववियुक्तत्वादन्यत्सलिलभाजनम्।।
यत्क्षिपेत्सलिलं कूपे प्रदीपं वा हुताशने।
तन्नश्यत्युभयं तद्वज्जीवो वातानलात्मकः।।
पञ्च साधारणो ह्यस्मिञ्शरीरे जीवितं कुतः।
तेषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः।।
नश्यन्त्यापो ह्यनाधाराद्वायुरुच्छ्वासनिग्रहात्।
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात्।।
व्याधिप्राणपरिक्लेशैर्मेदिनी चैव शीर्यते।
पीडितेऽन्यतमे ह्येषां संघातो याति पञ्चताम्।।
तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति।
किं वेदयति वा जीवः किं शृणोति ब्रवीति च।।
एषा गौः परलोकस्थं तारयिष्यति मामिति।
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति।।
गौश्च प्रतिग्रहीता च दाता चैव समं यदा।
इहैव विलयं यान्ति कुतस्तेषां समागमः।।
विहगैरुपभुक्तस्य शैलाग्नात्पतितस्य च।
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः।।
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति।
बीजान्यस्य प्ररोहन्ति मृतः क्व पुनरेष्यति।।
बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते।
मृतामृताः प्रणश्यन्ति बीजाद्वीजं प्रवर्तते।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि चतुरशीत्यधिकशततमोऽध्यायः।। 184।।