शांतिपर्व
अध्यायः १३९
युधिष्ठिर उवाच।
उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु।
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत्।।
विश्वासाद्धि परं राजन्राज्ञामुत्पद्यते भयम्।
कथं हि नाश्वसन्राजा शत्रूञ्जयति पार्थिवः।।
एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति।
अविश्वासे कथामेतामुपाश्रित्य पितामह।।
भीष्म उवाच।
शृणुष्व राजन्यो वृत्तो ब्रह्मदत्तनिवेशने।
पूजन्या सह संवादो ब्रह्मदत्तस्य भूपतेः।।
काम्पिल्ये ब्रह्मदत्तस्य त्वन्तः पुरनिवासिनी।
पूजी नाम शकुनिर्दीर्घकालं सहोपिता।
रुदज्ञा सर्वभूतानां यथा वै जीवजीवकः।
सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गताऽपि स।।
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्।
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत।।
तयोरर्थे कृतज्ञा तु खेचरी पूजनी सदा।
समद्रतीरं सा गत्वा आजहार फलद्वयम्।।
अष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह।
लमेकं सुतायादाद्राजपुत्राय चापरम्।।
---मृतास्यादसदृशं बलतेजोभिवर्धनम्।
[आदायादाय सैवाशु तयोः प्रादात्पुनः पुनः।।]
ततोऽगच्छत्परां वृद्धिं राजपुत्रः फलाशनात्।
ततः स धात्र्या कक्षेण उह्यमानो नृपात्मजः।।
ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः।
ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा।।
शून्ये च तमुपादाय पक्षिणं समजातकम्।
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः।।
अथ सा पूजनी राजन्नागमत्फलहारिणी।
अपश्यन्निहतं पुत्रं तेन बालेन भूतले।।
बाष्पपूर्णमुखी दीना दृष्ट्वा तं पतितं सुतम्।
पूजनी दुःखसंतप्ता रुदन्ती वाक्यमब्रवीत्।।
क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम्।
कारणे सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च।।
क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु।
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्।।
इयमस्य करोम्यद्य सदृशीं वैरयातनाम्।
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः।।
सहसंजातवृद्धस्य तथैव सहभोजिनः।
शरण्यस्य वधश्चैव त्रिविधं तस्य किल्विषम्।।
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा।
हृत्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत्।।
इच्छयेह कृतं पापं सद्य एवोपसर्पति।
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम्।।
पापं कर्म कृतं किंचिद्यदि तस्मिन्न दृश्यते।
निपात्यतेऽस्य पुत्रेषु पौत्रेष्वपि च नप्नृषु।।
ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्या हृतलोचनम्।
कृतप्रतिकृतं मत्वा पूजनीमिदमब्रवीत्।।
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया।
उभयं तत्समीभूतं वस पूजनि मा गमः।।
पूजन्युवाच।
सकृत्कृतापराधस्य तत्रैव परिलम्बतः।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्।।
सान्त्वे प्रयुक्ते विवृते वैरे चैव न विश्वसेत्।
क्षिप्रं स हन्यते मूढो न हि वैरं प्रशाम्यति।।
अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति।
पुत्रपौत्रविनाशे च परलोकं नियच्छति।।
सर्वेषां कृतवैराणामविश्वासः सुखावहः।
एकान्ततो न विश्वासः कार्यो विश्वासघातके।।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति।
कामं विश्वासयेदन्यान्परेषां च न विश्वसेत्।।
माता पिता बान्धवानां वरिष्ठौ
भार्या क्षेत्रं बीजमात्रं तु पुत्रः।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य
आत्मा ह्येकः सुखदुःखस्य भोक्ता।।
अन्योन्यकृतवैराणां न संधिरुपपद्यते।
स च हेतुरतिक्रान्तो यदर्थमहमावसम्।।
पूजितस्यार्थमानाभ्यां सान्त्वं पूर्वापकारिणः।
हृदयं भवत्यविश्वस्तं कर्म त्रासयते बलात्।।
पूर्वं संमानना यत्र पश्चाच्चैव विमानना।
जह्यात्स सत्ववान्वासं संमानितविमानितः।।
उषिताऽस्मि तवागारे दीर्घकालमहिंसिता।
तदिदं वैरमुत्पन्नं सुखमास्ख व्रजाम्यहम्।।
ब्रह्मदत्त उवाच।
यः कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात्।
अनृणस्तेन भवति वस पूजनि मागमः।।
पूजन्युवाच।
न कृतस्य तु कर्तुश्च सख्यं संधीयते पुनः।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च।।
ब्रह्मदत्त उवाच।
कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः।
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः।।
पूजन्युवाच।
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्।
विश्वासाद्बध्यते लोकस्तस्माच्छ्रेयोप्यदर्शनम्।।
तरसा ये न शक्यन्ते शस्त्रैः सुनिसितैरपि।
साम्ना तेऽपि निगृह्यते गजा इव करेणुभिः।।
ब्रह्मदत्त उवाच।
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि।
अन्योन्यस्य हि विश्वासः श्वानश्वपचयोरिव।।
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम्।
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम्।।
पूजन्युवाच।
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः।
स्त्रीकृतं वास्तुजं वाग्जं स्वसपत्नापराधजम्।।
तत्र दाता न हन्तव्यः क्षत्रियेण विशेषतः।
प्रकाशं वाऽप्रकाशं वा बुद्ध्वा दोषबलाबलम्।।
कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि।
प्रच्छन्नं तिष्ठते वैरं गूढोऽग्निरिव दारुषु।।
न वित्तेन न पारुष्यैर्न च सान्त्वेन च श्रुतैः।
वैराग्निः शाम्यते राजन्निमग्नोऽग्निरिवार्णवे।।
न हि वैराग्निरुद्धूतः कर्म चाप्यपराधजम्।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात्।।
सत्कृतस्यार्थामनाभ्यां तत्र पूर्वापकारिणः।
नैव शान्तिर्न विश्वासः कर्मणा जायते बलात्।।
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान्।
उषितावाऽपि चक्रितं नेदानीं विश्वसाम्यहम्।।
ब्रह्मदत्त उवाच।
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः
कालेनैव प्रवर्तन्ते कः कस्येत्यपराध्यति।।
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव हि।
कार्यते चैव कालेन तन्निमित्तं न जीवति।।
बध्यन्ते युगपत्केचिदेकैकं चापरे तथा।
कालो दहति भूतानि संप्राप्तोऽग्निरिवेन्धनम्।।
नाहं प्रमाणं नैव त्वभन्योन्यं कारणं शुभे।
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम्।।
एवं वसेह सन्नेहा यथाकाममहिंसिता।
यत्कृतं तत्तु मे क्षान्तं त्वं च वै क्षम पूजनि।।
पूजन्युवाच।
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत्।
कस्मादपचितिं यान्ति बान्धवा बान्धवे हते।।
कस्माद्देवासुराः सर्वे अन्योन्यमभिजघ्निरे।
यदि कालेन निर्याणं सुखदुःखे भवाभवौ।।
भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम्।।
प्रलापः सुमहान्कस्मात्क्रियते शोकमूर्च्छितैः।
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु।।
तव पुत्रो ममापत्यं हतवान्हिंसितो मया।
अनन्तरं त्वयाहं च बाधितव्या महीपते।।
अहं हि पुत्रशोकेन कृतपापा तवात्मजे।
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु।।
भक्षार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः।
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः।।
वधबन्धभयादेके मोक्षतन्त्रमुपाश्रिताः।
जनीमरणजं दुःखं प्राहुर्वेदविदो जनाः।।
सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः।
दुःखादुद्विजते सर्वं सर्वस्य सुखमीप्सितम्।।
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः।
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम्।।
वैरबन्धकृतं दुःखं स्त्रीकृतं सह तथा।
दुःखं दुःखेन सततं विवर्धति---- धिप।।
न दुःखं परदुःखे वै केचिदाहुर----यः।
यो दुःखं नाभिजानाति स जल्पति माहाजने।।
यस्तु शोचति दुःखार्ताः स कथं वक्तमुत्सहेत।
रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे।।
`भिन्ना श्लिष्टा न सज्यन्ते शस्त्रैः सुनिशितैरपि।'
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः।।
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम्।
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम्।।
आवयोः कृतमन्योन्यं तस्य संधिर्न विद्यते।
स्मृत्वास्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति।।
वैरमन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति।
मृण्मयस्येव भग्नस्य तस्य संधिर्न विद्यते।।
निश्चयः स्वार्थशास्त्रेषु न विश्वासः सुखोदयः।
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत्पुरा।।
ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा।
वध्यन्ते श्रद्दधाना हि मधु शुष्कतृणैरिव।।
न हि वैराणि शाम्यन्ति कुलेष्वादशमाद्युगात्।
आख्यातारश्च विद्यन्ते कुले चेज्जायते पुमान्।।
उपगृह्य तु वैराणि सान्त्वयन्ति नराधिपाः।
अथैनं प्रतिहिंसन्ति पूर्णं घटमिवाश्मनि।।
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित्।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते।।
ब्रह्मदत्त उवाच।
नाविश्वासाच्चिनोत्यर्थमीहते चापि किंचन।
भयात्त्वेकतरं मित्रं कृतकृत्या भवत्विह।।
पूजन्युवाच।
यस्येह व्रणिनौ पादौ पभ्द्यां च परिधावतः।
क्षिण्येते तस्य तौ पादौ सुगुप्तमपि धावतः।।
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते।
तस्य वायुरुजाऽत्यर्थं नेत्रयोर्भवति ध्रुवम्।।
दुष्टं पन्थानमासाद्य यो मोहादभिपद्यते।
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम्।।
यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः।
हीनः पुरुषकारेण तस्य वै नाप्नुते फलम्।।
यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम्।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते।।
पथ्यं मुक्त्वा तु यो मोहाद्दुष्टमश्नाति भोजनम्।
परिणाममविज्ञाय तदन्तं तस्य जीवितम्।।
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्।
उदात्तं कर्म वै तत्र दैवं क्लीबा उपासते।।
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु।
ग्रस्यतेऽकर्मशीलस्तु सदाऽनर्थैरकिंचनः।।
तस्मात्संशयितव्येऽर्थे कार्य एव पराक्रमः।
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः।।
विद्या शौचं च दाक्ष्यं च बलं शौर्यं च पञ्चमम्।
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः।।
निवेशनं च कुप्यं च क्षेत्रं भार्यां सुहृज्जनम्।
एतान्युपचितान्याहुः सर्वत्र लभते पुमान्।।
सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते।
न विभीषयते किंचिद्भीषितो न बिभेति च।।
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते।
दाक्ष्येण कुर्वतां कर्मं संयमात्प्रतितिष्ठति।।
गृहस्नेहावबद्धानां नराणामल्पमेधसाम्।
कुस्त्री खादति मांसानि माघमां सेगवा इव।।
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये।।
उत्पथाच्च विमानाच्च देशाद्दुर्भिक्षपीडितात्।
अन्यत्र वसतिं गच्छेद्वसेद्वा नित्यमानितः।।
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे।
कृतमेतदनाहार्यं तव पुत्रे च पार्थिव।।
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्।
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत्।।
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः।
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका।।
कुपुत्रे सौहृदं नास्ति नित्यमस्थिरसौहृदम्।
अवमानः कुंसबन्धे भवत्यर्थविपर्यये।।
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीवति।।
यत्र नास्ति बलात्कारः स राजा तीव्रशासनः।
स च यौनाभिसंबन्धो यः सतोऽपि बुभूषति।।
भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः।
एते सर्वे गुणवति धर्मनेत्रे महीपतौ।।
अधर्मज्ञस्य विषये प्रजा नश्यन्ति निग्रहात्।
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन्।।
बलिषङ्भागमुद्धृत्य फलं समुपयोजयेत्।
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः।।
दत्वाऽभयं यः स्वयमेव राजा
न तत्प्रमाणं कुरुतेऽर्थलोभात्।
स सर्वलोकादुपलभ्य पाप
मधर्मबुद्धिर्निरयं प्रयाति।।
दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि।
स सर्वं सुखमाप्नोति प्रजा धर्मेण पालयन्।।
पिता भ्राता गुरुः शास्ता वह्निर्वैश्रवणो यमः।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः।।
पिता हि राजा लोकस्य प्रजानां योऽनुकम्पिता।
तस्मिन्मिथ्यापनीते हि तिर्यग्भवति मानवः।।
संभावयति मातेव दीनमप्युपपद्यते।
दहत्यग्निरिवानिष्टान्यमयत्यहितांस्तदा।।
इष्टेषु विसृजन्नर्थान्कुबेर इव कामदः।
गुरुर्धर्मोपदे--- गोप्ता च परिपालनात्।।
यस्तु रञ्जयते ---- पौरजानपदान्गुणैः।
न तस्य भ्रश्यते---ज्यं गुणधर्मानुपालनात्।।
यः सम्यक्प्रति---ह्णाति पौरजानपदार्चनम्।
स सुखं प्रेक्षते राजा इह लोके परत्र च।।
नित्योद्विग्नाः प्रजा यस्य करुभारप्रपीडिताः।
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम्।।
प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्।
स राजा सर्वसुखदः स्वर्गलोके महीयते।।
बलिना विग्रहो राजन्न कदाचित्प्रशस्यते।
बलिना विग्रही तस्य कुतो राज्यं कुतः सुखम्।।
भीष्म उवाच।
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम्।
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम्।।
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्।
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः।। 139।।