शांतिपर्व

अध्यायः १३८

Santi Parva (Sanskrit) · Adhyaya 138
अक्षर का आकार

युधिष्ठिर उवाच।

सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ।
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी।।

तदिच्छामि परां बुद्धिं श्रोतुं ते भरतर्षभ।
यथा राजा न मुह्येत शत्रुभिः परिपीडितः।।

------याज्ञं सर्वशास्त्रविशारदम्।
पृच्छ------- तन्मे व्याख्यातुमर्हसि।।

शत्रुभिबहु------था मुच्येत पार्थिवः।
एतदिच्छाम्य------र्वमेव यथाविधि।।

विषमस्थं हि राजा----त्रवः परिपन्थिनः।
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः।।

सर्वतः प्रार्थ्यमानेन दर्बलेन महाबलैः।
एकेनैवासहायेन शक्यं स्थातुं भवेत्कथम्।।

कथं मित्रमरिं चापि विन्देत भरतर्षभ।
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे।।

अजातलक्षणे राजन्नमित्रे मित्रतां गते।
कथं नु पुरुषः कुर्यात्कृत्वा किं वा सुखी भवेत्।।

विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत्।
कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि।।

एतद्धै सर्वकृत्यानां परं कृत्यं नराधिप।
नैतस्य कश्चिद्वक्ताऽस्ति श्रोता वाऽपि सुदुर्लभः।।

ऋते पितामहाद्भीष्मात्सत्यसंधाज्जितेन्द्रियात्।
तदन्वीक्ष्य महाभाग सर्वमेतद्ब्रवीहि मे।।

भीष्म उवाच।

त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः।
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत।।

अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति।
सामर्थ्ययोगात्कार्याणामनित्या हि सदा गतिः।।

तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत्।
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये।।

संधातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः।
अमित्रैरपि संधेयं प्राणा रक्ष्या हि भारत।।

यो ह्यमित्रैर्नरैर्नित्यं न संदध्यादपण्डितः।
न सोर्थं प्राप्नुयात्किंचित्फलान्यपि च भारत।।

यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते।
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम्।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च।।

वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत्।
लताजालपरिच्छन्नो नानाद्विजगणायुतः।।

स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः।
अरण्यमभितो जातस्तरुर्व्यालमृगायुतः।।

तस्य मूलमुपाश्रित्य कृत्वा शतमुखं बिलम्।
वसति स्म महाप्राज्ञः पलितो नाम मूषिकः।।

शाखां तस्य समाश्रित्य वसति स्म सुखं तदा।
लोमशो नाम मार्जारः सर्वसत्वावसादकः।।

तत्र त्वागत्य चण्डालो ह्यरण्यकृतकेतनः।
युयोज यन्त्रमुन्माथं नित्यमस्तंगते रवौ।।

तत्र स्नायुमयान्पाशान्यथावत्संविधाय सः।
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम्।।

तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः।
कदाचिदत्र मार्जारः संप्रवृत्तो व्यबध्यत।।

तस्मिन्बद्धे महाप्राणे शत्रौ नित्याततायिनि।
तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः।।

तेनानुचरता तस्मिन्वते विश्वस्तचारिणा।
भक्ष्यं मृगयमाणे नचिराद्दृष्टमामिषम्।।

स तमुन्माथमारुह्य तदामिषमभक्षयत्।
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन्।।

आमिषे तु प्रसक्तः स कदाचितवलोकयन्।
अपश्यदपरं घोरमात्मनो रिपुमागतम्।।

शरप्रसूनसंकाशं महीविवरशायिनम्।
सकुलं हरिकं नाम चपलं ताम्रलोचनम्।।

तन मूषिकगन्धेन त्वरमाण उपागतम्।
सक्ष्यार्थं लेलिहन्वक्रं भूमावूर्ध्वमुखः स्थितः।।

--ाखागतमरिं चान्यमपश्यत्कोटरालयम्।
सूलकं चन्द्रकं नाम वक्रतुण्डं दुरासदम्।।

पतस्य विषयं तस्य नकुलोलूकयोस्तथा।
यथास्यासीदियं चिन्ता तत्प्राप्तस्य महद्भयम्।।

पपद्यस्यां सुकष्टायां मरणे समुपस्थिते।
मन्ताद्भय उत्पन्ने कथं कार्यं मनीषिणा।।

तथा सर्वतो रुद्धः सर्वत्र भयकर्शितः।
भवद्भयसंत्रस्तश्चक्रे च परमां मतिम्।।

आपद्विनाशभूयिष्ठं शङ्कनीयं हि जीवितम्।
मन्तात्संशयः सोऽयं तस्मादापदुपस्थिता।।

गतं हि सहसा भूमिं नकुलो मामवाप्नुयात्।
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात्।।

न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति।
रिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहात्।।

न हि बुद्ध्याऽन्वितः प्राज्ञो नीतिशास्त्रविशारदः।
निमज्जत्यापदं प्राप्य महतोऽर्थानवाप्य ह।।

न त्वन्यामिह मार्जाराद्गतिं पश्यामि सांप्रतम्।
विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया।।

जीवितार्थी कथं त्वद्य शत्रुभिः प्रार्थितस्त्रिभिः।
प्राणहेतोरिमं मित्रं मार्जारं संश्रयामि वै।।

नीतिशास्त्रं समाश्रित्य हितमस्योपवर्णये।
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये।।

अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः।
मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते।।

कदाजिद्व्यसनं प्राप्य संधिं कुर्यान्मया सह।।

बलिना सन्निकृष्टस्य शत्रोरपि परिग्रहः।
कार्य इत्याहुराचार्या विषमे जीवितार्थिना।।

श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः।
अमित्रे खलु मार्जारे जीवितं संप्रतिष्ठितम्।।

ततोऽस्मै संप्रवक्ष्यामि हेतुमात्माभिरक्षणे।
अपीजानीमयं शत्रुः संगत्या पण्डितो भवेत्।।

एवं विचिन्तयामास मूषिकः शत्रुचेष्टितम्।।

ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित्।
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत्।।

सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसे।
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ।।

न ते सौम्य भयं कार्यं जीविष्यसि यथा पुरा।
अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते।।

अस्ति कश्चिदुपायोऽत्र पुष्कल प्रतिभाति मे।
येन शक्यस्त्वया मोक्षः प्राप्नुं श्रेयस्तथा मया।।

मयाऽप्युपायो दृष्टोऽयं विचार्य मतिमात्मनः।
आत्मार्थं च त्वदर्थं च श्रेयः साधारणां हि नौ।।

इदं हि नकुलोलूकं पापबुद्ध्या हि संस्थितम्।
न धर्षयति मार्जार तेन ते स्वस्ति सांप्रतम्।।

कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते।
नगशाखाग्रगः पापस्तस्याहं भृशमुद्विजे।।

सतां साप्तपदं मैत्रं स सखा मेऽसि पण्डितः।
साहाय्यकं करिष्यामि नास्ति ते प्राणतो भयम्।।

न हि शक्तोऽसि मार्जार पाशं छेत्तुं मया विना।
अहं छेत्स्यामि पाशांस्ते यदि मां त्वं न हिंससि।।

त्वमाश्रितो द्रुमस्याग्रं मूलं त्वहमुपाश्रितः।
चिरोषितावुभावावां वृक्षेऽस्मिन्विदितं च ते।।

यस्मिन्नाश्वासते कश्चिद्यश्च नाश्वसिति क्वचित्।
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्रमानसौ।।

तस्माद्विवर्धतां प्रीतिर्नित्यं संगतमस्तु नौ।
कालातीतमिहार्थं हि न प्रशंसन्ति पण्डिताः।।

अर्थयुक्तिमिमां तत्र यथाभूतां निशामय।
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम्।।

कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम्।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते।।

ईदृशो नौ क्रियायोगो भविष्यति सुविस्तरः।
अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि।।

एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम्।
हेतुमद्ग्रहणीयं च कालापेक्षी व्यतिष्ठत।।

अथ सुव्याहृतं श्रुत्वा तस्य शत्रोर्विचक्षणः।
हेतुमद्‌ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत्।।

बुद्धिमान्वाक्यसंपन्नस्तद्वाक्यमनुवर्तयन्।
स्वामवस्थां प्रतीक्ष्यैनं साम्नैव प्रत्यपूजयत्।।

ततस्तीक्ष्णाग्रदशनो मणिवैदूर्यलोचनः।
मूषिकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रबीत्।।

नन्दामि सौम्य भद्रं ते यो मां जीवितुमिच्छसि।
श्रेयश्च यदि जानीषे क्रियतां मा विचारय।।

अहं हि भृशमापन्नस्त्वमापन्नतरो मया।
द्वयोरापन्नयोः सन्धिः क्रियतां मा चिराय च।।

विधत्स्व प्राप्तकालं यत्कार्थं सिध्यतु चावयोः।
मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम्।।

न्यस्तमानोस्मि भक्तोस्मि शिष्यस्त्वद्धितकृत्तथा।
तथा निदेशवर्ती च भवन्तं शरणं गतः।।

इत्येवमुक्तः पलितो मार्जारं वशमागतम्।
वाक्यं हितमुवाचेदमभिजातार्थमर्थवित्।।

उदारं यद्भवानाह नैतच्चित्रं भवद्विधे।
विहितो यस्तु मार्गो मे हितार्थं शृणु तं मम।।

अहं त्वाऽनुप्रवेक्ष्यामि नकुलान्मे महद्भयम्।
त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव रक्षणे।।

उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम्।
अहं छेत्स्यामि ते पाशान्सखे सत्येने ते शपे।।

तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत्।
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत्।।

तं संपूज्याथ पलितं मार्जारः सौहृदे स्थितम्।
स विचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव च।।

क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा।
तव प्राज्ञप्रसादाद्धि प्रियं प्राप्स्यामि जीवितम्।।

यद्यदेवंगतेनाद्य शक्यं कर्तुं मया तव।
तदाज्ञापस्य कर्तास्मि सिद्धिरेवास्तु नौ सखे।।

अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः।
सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च।।

मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते।
प्रीतिमुत्पादयेयं न प्रतिकर्तुं च शक्नुयाम्।।

प्रत्युपकुर्वन्बह्वपि न भाति पूर्वोपकारिणा तुल्यः।
एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः।।

भीष्म उवाच।

एवमाश्वासितो बिद्वान्मार्जारेण स मूषिकः।
प्रविवेश सुविस्रब्धः सम्यगङ्गीचकार ह।।

ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा।
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत्।।

निलीनं तस्य गात्रेषु मार्जारस्याथ मूषिकम्।
दृष्ट्वा तौ नकुलोलूकौ निराशौ प्रत्यपद्यताम्।।

तथैव तौ सुसंत्रस्तौ दृढमागततन्द्रितौ।
दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ।।

बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ।
अशक्तौ तु नयात्तस्मात्संप्रधर्षयितुं बलात्।।

कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ।
उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम्।।

लीनः स तस्य गात्रेषु पलितो देशकालवित्।
चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः।।

अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम्।
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः।।

तमत्वरन्तं पलितं पाशानां छेदने तदा।
संचोदयितुमारेभे मार्जारो मूषिकं ततः।।

किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे।
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः।।

इत्युक्तस्त्वरताऽनेन मतिमान्पलितोऽब्रवीत्।
मार्जारमकृतप्रज्ञं तथ्यमात्महितं वचः।।

तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः।
वयमेवात्र कालज्ञा न कालः परिहास्यते।।

अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते।
तदेव काल आरब्धं महतेऽर्थाय कल्पते।।

अकाले विप्रमुक्तान्मे त्वत्त एव भयं भवेत्।
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे।।

यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम्।
ततश्छेत्स्यामि ते पाशान्प्राप्ते साधारणे भये।।

तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे।
न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति।।

तस्मिन्कालेऽपि च तता दिवाकीर्तिभयार्दितः।
मम न ग्रहणे शक्तः पलायनपरायणः।।'

ततो भवत्यपक्रान्ते त्रस्ते भीते च लुब्धकात्।
अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति।।

एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम्।
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः।।

अथात्मकृत्ये त्वरितः सम्यक्प्रार्थितमाचरन्।
उवाच लोमशो वाक्यं मूषिकं चिरकारिणाम्।।

नह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः।।

यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया।
तथा हि त्वरमाणेन त्वया कार्यमिदं मम।
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत्।।

अथवा पूर्ववैरं त्वं स्मरन्कालं जिहीर्षसि।
पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुःक्षयो मम।।

यदि किंचिन्मयाऽज्ञानात्पुरस्ताद्दुष्कृतं कृतम्।
न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे।।

तमेवंवादिनं प्राज्ञं शास्त्रविद्बुद्धिसत्तमः।
उवाचेदं वचः श्रेष्ठं मार्जारं मूषिकस्तदा।।

श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः।
ममापि त्वं विजानासि स्वमर्थं परिगृह्णतः।।

यन्मित्रं भीतवत्साध्यं यस्मिन्मित्रे भयं हितम्।
आरक्षितं ततः कार्यं पाणिः सर्पमुखादिव।।

कृत्वा बलवता संधिमात्मानं यो न रक्षति।
अपथ्यमिव तद्भुक्तं तस्यार्थाय कल्पते।।

कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः।
अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा।।

अर्थैरर्था निबध्यन्ते गजैरिव महागजाः।
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्।।

तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयार्दितः।
मम न ग्रहणे शक्तः पलायपरायणः।।

छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः।
छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश।।

तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः।
क्षयं जगाम सा रात्रिर्लोमशं त्वागमद्भयम्।।

ततः प्रभातसमये विकटः कृष्णपिङ्गलः।
स्थूलस्फिग्विकृतो रूक्षः श्वयूथपरिवारितः।।

शङ्कुकर्णो महावक्रः खनित्री घोरदर्शनः।
परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत।।

तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः।
उवाच पलितं भीतः किमिदानीं करिष्यसि।।

तथैव च सुसंत्रस्तौ तं दृष्ट्वा घोरसंकुलम्।
क्षणेन नकुलोलूकौ नैराश्यमुपजग्मतुः।।

बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ।
अशक्तौ सुनयात्तस्मात्संप्रधर्षयितुं बलात्।।

कार्यार्थे कृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ।
उलूकनकुलौ तूर्णं जग्मतुः स्वंस्वमालयम्।।

ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषिकः।
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्दुमम्।।

स तस्मात्संभ्रमान्मुक्तो मुक्तो घोरेण सत्रुणा।
बिलं विवेश पलितः शाखां लेभे स लोमशः।।

उन्माथमप्युपादाय चण्डालो वीक्ष्य सर्वशः।
विहताशः क्षणेनैव तस्माद्देशादपाक्रमत्।
जगाम स स्वभवनं चण्डालो भरतर्षभ।।

ततस्तस्माद्भान्मुक्तो दुर्लभं प्राप्य जीवितम्।
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत्।।

अकृत्वा संविदं कांचित्सहसा त्वमपस्रुतः।
कृतज्ञः कृतकल्याणः कच्चिन्मां नाभिशङ्कसे।।

गत्वा च मम विश्वासं दत्त्वा च मम जीवितम्।
मित्रोपभोगसमये किं हि मां नोपसर्पसि।।

कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति।
न स मित्राणि लभते कृच्छ्रात्स्वापत्सु दुर्मतिः।।

सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मानः सखे।
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि।।

यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः।
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम्।।

अहं च पूजयिष्ये त्वां समित्रगणबान्धवम्।
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत्।।

ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च।
अर्थानां चैव सर्वेषामनुशास्ता च मे भव।।

अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम्।
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे।।

बुद्ध्या त्वमुशना साक्षाद्बलेनाधिकृता वयम्।
त्वं मन्त्रबलयुक्तो हि दद्या विजयमेव मे।।

एवमुक्तः परं सान्त्वं मार्जारेण स मूषिकः।
उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः।।

यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम्।
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति मे।।

वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः।
एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतैः।।

शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः।
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः।।

येषां सौम्यानि मित्राणि क्रोधनाश्चैव शत्रवः।
सान्त्वितास्ते न बुध्यन्ते रागलोभवशंगताः।।

नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा।।

यो यस्मिञ्जीवति स्वार्थे पश्येत्पीडां न जीवति।
स तस्य मित्रं तावत्स्यःद्यावन्न स्याद्विपर्ययः।।

नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम्।
अर्थयुक्त्याऽनुजायन्ते मित्राणि रिपवस्तथा।।

मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये।
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः।।

यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु।
अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम्।।

मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नमपि मूलानि कृन्तति।।

अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा।
मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः।।

पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम्।
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम्।।

सामान्या निष्कृतिः प्राज्ञ यो मोक्षात्समन्तरम्।
कृत्यं मृगयते कर्तुं सुखोपायमसंशयम्।।

अस्मिन्निलय एवं त्वं न्यग्रोधादवतारितः।
पूर्वं निविष्टमुन्माथं चपलन्वान्न बुद्धवान्।।

आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति।
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम्।।

ब्रवीषि मधुरं यच्च प्रियो मेऽद्य भवानिति।
तन्मिथ्याकारणं सर्वं विस्तरेणापि मे शृणु।।

कारणात्प्रियतामेति द्वेष्यो भवति कारणात्।
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः।।

सख्यं सोदर्ययोर्भ्रात्रोदर्पंत्योर्वा परस्परम्।
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह।।

यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे।
स्वभावतस्ते प्रीयन्ते नेतरः प्राकृतो जनः।।

प्रियो भवति दानेन प्रियवादेन चापरः।
मन्त्रहोमजपैरन्यः कार्यार्थे प्रीयते जनः।।

उत्पन्ना कारणात्प्रीतिरासीन्नौ कारणान्तरे।
प्रध्वस्ते कारणस्थाने सा प्रीतिर्नाभिवर्तते।।

किंनु तत्कारणं मन्ये येनाहं भवतः प्रियः।
अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम्।।

कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते।
स्वार्धं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते।
न त्वीदृशं त्वया वाच्यं विद्यते स्वार्थपण्डितः।।

न कालो हि समर्थस्य स्नेहहेतुरयं तव।
तस्मान्नाहं चले स्वार्थात्सुस्थितः संधिविग्रहे।।

अभ्राणामिव रुपाणि विकुर्वन्ति पदेपदे।
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव मे सुहृत्।
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम्।।

आसीन्मैत्री तु तावन्नौ यावद्धेतुरभूत्पुरा।
सागता सह तेनैव कालयुक्तेन हेतुना।।

त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः।
तत्कृत्यमभिनिर्वर्त्य प्रकृतिः शत्रुतां गता।।

सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः।
प्राविशेयं कथं पाशं त्वत्कृते तद्ब्रवीहि मे।।

त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान्।
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः।।

त्वं हि सौम्य कृतार्थोऽद्य निवृत्तार्थास्तथा वयम्।
न तेऽस्त्यद्य मया कृत्यं किंचिदन्यत्र भक्षणात्।।

अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली।
नावयोर्विद्यते संधिर्वियुक्ते विषमे बले।।

स मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम्।
भक्ष्यं मृगयते नूनं सुखोपायमसंशयम्।।

--र्थी ह्येव सुव्यक्तो विमुक्तः प्रसृतः क्षुधा।
शास्त्रजां मतिमास्थाय प्रातराशमिहेच्छसि।।

जानामि क्षुधितं च त्वामाहारसमयश्च ते।
स त्वं मामभिसंधाय भक्ष्यं मृगयसे पुनः।।

किंचात्र पुत्रदारार्थं यद्वाणीं सृजसे मयि।
शुश्रूषां यतसे कर्तुं सखे मम तत्क्षमम्।।

त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये।
कस्मात्ते मां न खादेयुः स्पृष्टवा प्रणयिनि त्वयि।।

नाहं त्वया समेष्यामि वृत्ते हेतुसमागमे।
शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मरसे यदि।।

शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च।
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत्।।

स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे।
[विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत्।।]

नाहं त्वया समेष्यामि निवृत्तो भव लोमश।
बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते।।

यदि त्वं सुकृतं वेत्सि तत्सख्यमनुसारय।
प्रशान्तादपि हि प्राज्ञाद्भेतव्यं बलिनः सदा।।

यदि त्वर्थेन ते कार्यं ब्रूहि किं करवाणि ते।
कामं सर्वं प्रदास्यामि न त्वात्मानं कथंचन।।

आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनानि च।
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मवान्।।

ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि वर्तताम्।
दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम्।।

न त्वात्मनः संप्रदानं धनरत्नवदिष्यते।
आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि।।

आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम्।
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः।।

शत्रुं सम्यगविज्ञातो विप्रियो ह्यबलीयसा।
`शङ्कनीयः स सर्वत्र प्रियमप्याचरन्सदा।।

कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम्।'
न तेषां चाल्यते बुद्धिः शास्त्रार्थकृतिश्चया।।

इत्यभिव्यक्तमेवासौ पलितेनापहासितः।
मार्जारो व्रीडितो भूत्वा मूषिकं वाक्यमब्रवीत्।।

सत्यं शपे त्वयाऽहं वै मित्रद्रोहो विगर्हितः।
संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः।।

उक्तवानर्थतत्त्वेन मया संभिन्नदर्शनः।
न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि।।

प्राणप्रदानजं त्वत्तो मयि सौहृदमागतम्।
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोस्मि विशेषतः।।

मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः।
त्वं मामेवंगते साधो न वाचयितुमर्हसि।।

त्वया हि वाच्यमानोऽहं जह्यां प्राणान्सबान्धवः।
धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु।
पतनं धर्मतत्त्वज्ञ न मे शङ्कितुमर्हसि।।

इति संस्तूयमानोऽपि मार्जारेण स मूषिकः।
मनसा भावगम्भीरं मार्जारमिदमब्रवीत्।।

साधुर्भवान्कृतार्थोऽस्मि प्रिये च न च विश्वसे।
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया।।

न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे।
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते।।

शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा।
समाहितश्चरेद्बुद्ध्या कृतार्थश्च न विश्वसेत्।।

न विश्वसेदवश्वस्ते विश्वस्ते नातिविश्चसेत्।
नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत्।।

तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः।
द्रव्याणि संततिश्चैव सर्वं भवति जीवताम्।।

संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः।
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः।।

वध्यन्ते न ह्यविश्वस्ताः शत्रुर्भिर्दुर्बला अपि।
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि शत्रुभिः।।

त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा।
रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात्।।

स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः।
कथां हित्वा जवेनाशु मार्जारः प्रययौ ततः।।

ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः।
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह।।

एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः।
एकेन बहवोऽमित्राः पलितेनाभिसंधिताः।।

अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः।
मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात्।।

इत्येवं क्षत्रधर्मस्य मया मार्गो निदर्शितः।
विस्तरेण महाराज संक्षेपमपि मे शृणु।।

अन्योन्यं कृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम्।
अन्योन्यमभिसंधातुं संबभूव तयोर्मतिः।।

तत्र प्राज्ञोऽभिसंधत्ते सम्यग्बुद्धिबलाश्रयात्।
अभिसंधीयते प्राज्ञः प्रमादादपि वा बुधैः।।

तस्मादभीतवद्भीतो विश्वस्तवदविश्वसेत्।
न ह्यप्रमत्तश्चलति चलितोऽवा न नश्यति।।

काले हि रिपुणा संधिः काले मित्रेण विग्रहः।
कार्य इत्येव तत्वज्ञाः प्राहुर्नित्यं नराधिप।।

एतज्ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च।
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत्।।

भीतवत्संहितः कार्यः प्रतिसंधिस्तथैव च।
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा।।

न भयं जायते राजन्भीतस्यानागते भये।
अभीतस्य च विस्रम्भात्सुमहज्जायते भयम्।।

न भीरुरिति चात्यन्तं मन्त्रो देयः कथंचन।
अविज्ञानाद्धि विज्ञाने गच्छेदास्पददर्शनाम्।।

तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन्।
कार्याणां गुरुतां ज्ञात्वा नादृतं किंचिदाचरेत्।।

एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर।
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुदाचर।।

उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा।
संधिविग्रहकालौ च मोक्षोपायं तथाऽऽपदि।।

शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा।
समागतश्चरेद्बुद्ध्या कृतार्थो न च विश्वसेत्।।

अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते।
अभ्युत्तिष्ठ श्रुतात्तस्माद्भूयः संरञ्जयन्प्रजाः।।

ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव।
ब्राह्मणाद्धि परं श्रेयो दिवि चेह च भारत।।

एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो।
पूजिताः शुभकर्तारः पूजयैनाञ्जाधिप।।

राज्यं श्रेयः परं राजन्यशश्च महदाप्स्यसे।
कुलस्य संततिं चैव यथान्यायं यथाक्रमम्।।

श्रुतं च ते भारत संधिविग्रहं
विभावितं बुद्धिविशेषकारितम्।
तथा त्ववेक्ष्य क्षितिपेन सर्वदा
निषेवितव्यं नृप शत्रुमण्डलम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः।। 138।।