शांतिपर्व
अध्यायः १३६
भीष्म उवाच।
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः।
येन मार्गेण राजानः कोशं संजनयन्त्युत।।
न धनं यज्ञशीलानां हार्यं देवस्वमेव च।
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति।।
इमाः प्रजाः क्षत्रियाणां रक्ष्या हन्याश्च भारत।
थनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते।।
तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा।
अभोज्याश्चौषधीश्छित्त्वा भोज्या एव पचन्त्युत।।
यो वै न देवान्न पितृन्न मर्त्यान्हविषाऽर्चति।
अनर्थकं धनं तत्र प्राहुर्धमेविदो जनाः।।
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीतिः।
न हि न प्रीणयेल्लोकान्न लोके गर्हते नृपम्।।
असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति।
आत्मानं संक्रमं कृत्वा मन्ये धर्मविदेव सः।।
[तथातथा जयेल्लोकाञ्शक्त्या चैव यथायथा।]
औद्भिदा जन्तवो यद्वच्छ्रुत्वा वाजो यथातथा।।
अनिमित्तात्संभवन्ति तथा यज्ञः प्रजायते।
यथैव दंशमशकं यथा कीटपिपीलिकम्।।
सैव वृत्तिर्हि यज्ञेषु यथा धर्मो विधीयते।।
यथा ह्यकस्माद्भवति भूमौ पांसुस्तृणोलपम्।
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरः स्मृतः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः।। 136।।