शांतिपर्व
अध्यायः १३५
भीष्म उवाच।
अत्राप्युदाहन्तीममितिहासं पुरातनम्।
यथा दस्युः समर्यादो दस्युत्वात्सिद्धिमाप्तवान्।।
प्रहर्ता मतिमाञ्शूरः श्रुतवान्सुनृशंसवान्।
अक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः।।
अनिषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः।
कापच्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान्।।
अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता।
वेधिज्ञो मृगजातीनां नैषादानां च कोविदः।।
सर्वकाननदेशज्ञः पारियात्रचरः सदा।
धर्मज्ञः सर्ववर्णानाममोघेषुर्दृढायुधः।।
अप्यनेकशतां सेनामेक एव जिगाय सः।
स वृद्धावम्बपितरौ महारण्येऽभ्यपूजयत्।।
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि।
सत्कृत्य भोजयामास सम्यक्परिचचार ह।।
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन्।
अपि तेभ्यो मृगान्हत्वा निनाय सततं वने।।
येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया।
तेषामासज्य गेहेषु कल्य एव स गच्छति।।
तं बहूनि सहस्राणि ग्रामणीत्वेऽभिवव्रिरे।
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम्।।
दस्यव ऊचुः।
मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः।
ग्रामणीर्भव नो मुख्यः सर्वेपामेव संमतः।।
यथायथा वक्ष्यसि नः करिष्यामस्तथातथा।
पालयास्मान्यथान्यायं यथा माता यथा पिता।।
कापच्य उवाच।
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्।
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः।।
सर्वथा स्त्री न हन्तव्या सर्वसत्वेषु बुध्यत।
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः।।
सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः।
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयश्च ह।।
सर्वभूतेष्वपि वरो ब्राह्मणो मोक्षमर्हति।
कार्या चापचितिस्तेषां सर्वस्वेनापि भावयेत्।।
यस्य त्वेते संप्रदुष्टास्तस्य विद्यात्पराभवम्।
न तस्य त्रिषु लोकेषु त्राता भवति कस्चन।।
यो ब्राह्मणान्परिभवेद्विनाशं चापि रोचयेत्।
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः।।
इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः।
येये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि।।
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विधीयते।
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः।।
ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन।
तानेवानुम्रियेरंस्ते कुणपं कृमयो यथा।।
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः।
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः।
भीष्म उवाच।
ते सर्वमेवानुचक्रुः कापच्यस्यानुशासनम्।
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्।।
कापच्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्।
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन्।।
इदं कापच्यचरितं यो नित्यमनुचिन्तयेत्।
नारण्येभ्योऽपि भूतेभ्यो भयमृच्छेत्कथंचन।।
न भयं तस्य मर्त्येभ्यो नामर्त्येभ्यः कथंचन।
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः।।
।। इति श्रीमन्महाभारते शान्तिपर्वणि
आपद्धर्मपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः।। 135।।