शांतिपर्व

अध्यायः १२४

Santi Parva (Sanskrit) · Adhyaya 124
अक्षर का आकार

युधिष्ठिर उवाच।

इमे जना मनुष्येन्द्र प्रशंसन्ति सदा भुवि।
धर्मस्य शीलमेवादौ ततो मे संशयो महान्।।

यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभूतां वर।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते।।

कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत।
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर।।

भीष्म उवाच।

पुरा दुर्योधनेनेह धृतराष्ट्राय मानद।
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तवागताम्।।

इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह।
सभायां चापहसनं तत्सर्वं शृणु भारत।।

भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम्।
दुर्योधनस्तदा दीनः सर्वं पित्रे न्यवेदयत्।।

श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा।
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः।।

धृतराष्ट्र उवाच।

किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः।
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यति।।

यदा त्वां महदैश्वर्यं प्राप्तं परपुरंजय।
किंकरा भ्रातरः सर्वे मित्रसंबन्धिबान्धवाः।।

आच्छादयसि प्रावारानश्नासि पिशितौदनम्।
आजानेया वहन्ति त्वां कस्माच्छेचसि पुत्रक।।

दुर्योधन उवाच।

दश तात सहस्राणि स्नातकानां महात्मनाम्।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने।।

दृष्ट्वा च तां सभां दिव्यपुष्पफलान्विताम्।
अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च।।

दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम्।
अमित्राणां सुमहतीमनुशोचामि मानद।।

धृतराष्ट्र उवाच।

यदीच्छसि श्रियं तात यादृशी सा युधिष्ठिरे।
विशिष्टां वा नरश्रेष्ठ शीलवान्भव पुत्रक।।

शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः।
न हि किंचिदसाध्यंवै लोके शीलवतां सताम्।।

एकरात्रेण मान्धाता त्र्यहेण जनमेजयः।
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान्।।

एते हि पार्थिवाः सर्वे शीलवन्तो यशोन्विताः।
ततस्तेषां गुणक्रीता वसुधा स्वयमागता।।

दुर्योधन उवाच।

कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत।
येन शीलेन संप्राप्ताः क्षिप्रमेव वसुंधराम्।।

धृतराष्ट्र उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदेन पुरा वृत्तं शीलमाश्रित्य भारत।।

प्रा--देन हृतं राज्यं महेन्द्रस्य महात्मनः।
श---माश्रित्य दैत्येन त्रैलोक्यं च वशे कृतम्।।

त--बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः।
तमुवाच महाप्राज्ञः श्रेय इच्छामि वेदितुम्।।

ततो बृहस्पतिस्तस्मै ज्ञानं नैश्रेयसं परम्।
कथयामास भगवान्देवेन्द्राय कुरूद्वह।।

एतावच्छ्रेय इत्येव बृहस्पतिरभाषत।
इन्द्रस्तु भूयः पप्रच्छ को विशेषो भवेदिति।।

बृहस्पतिरुवाच।

विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः।
तत्रागमय भद्रं ते भूय एव सुरोत्तम।।

आत्मनस्तु ततः श्रेयो भार्गवः सुमहायशाः।
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः।।

तेनापि समनुज्ञातो भार्गवेण महात्मना।
श्रेयोऽस्तीति परं भूयः शुक्रमाह शतक्रतुः।।

भार्गवस्त्वाह सर्वज्ञः प्रह्लादस्य महात्मनः।
ज्ञानमस्ति विशेषेणेत्युक्तो हृष्टश्च सोऽभवत्।।

स तत्र ब्राह्मणो भूत्वा प्रह्लादं पाकशासनः।
स्तुत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्।।

प्रह्लादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजोत्तम।
त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते।।

ब्राह्मणस्त्वब्रवीद्राजन्यस्मिन्काले क्षणो भवेत्।
तदोपादेष्टुमिच्छामि यदि कार्यान्तरं भवेत्।।

ततः प्रीतोऽभवद्राजा प्रह्वादो ब्रह्मवादिनः।
तथेत्युक्त्वा ददौ काले ज्ञानतत्त्वं द्विजे तदा।।

ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम्।
चकार सर्वभावेन यद्यच्च मनसेच्छति।।

पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम्।
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे।
[प्रह्लादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत्।।]

प्रह्लाद उवाच।

नासूयामि द्विजान्विप्र राजास्मीति कथंचन।
काम्यानि वदतां तेषां संयच्छामि वहामि च।।

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा।
तेषां कार्यपथे युक्तं शुश्रूषुमनहंकृतम्।।

धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम्।
समासिञ्चन्ति शास्त्रज्ञाः क्षौद्रं मध्विव मक्षिकाः।।

सोऽहं वागग्रविद्यानां रसानामवलेहिता।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः।।

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्।
यद्ब्राह्मणमुखे हव्यमेतच्छ्रुत्वा प्रवर्तते।।

एतावच्छेय इत्याह प्रह्लादो ब्रह्मवादिनम्।
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत्।।

यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम।
वरं वृणीष्व भद्रं ते प्रदाताऽस्मि न संशयः।।

कृतमित्येव दैत्येन्द्रमुवाच द्विजसत्तमः।
प्रह्लादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत।।

ब्राह्मण उवाच।

यदि राजन्प्रसन्नस्त्वं मम चेदिच्छसि प्रियम्।
भवतः शीलमिच्छामि प्राप्नुमेष वरो मम।।

ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत्।
वरे प्रदिष्टे विप्रेण नाल्पचेतायमित्युत।।

एवमस्त्विति स प्राह प्रह्लादो विस्मितस्तदा।
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत्।।

दत्ते वरे गते विप्रे चिन्ताऽसीन्महती तदा।
प्रह्लादस्य महाराज निश्चयं न च जग्मिवान्।।

तस्य चिन्तयतस्तावच्छायाभूतं महाद्युतेः।
तेजोविग्रहवत्तात शरीरमजहात्तदा।।

तमपृच्छन्महाराजः प्रह्लादः को भवानिति।
प्रत्याह तं तु शीलोस्मि त्यक्तो गच्छाम्यहं त्वया।।

तस्मिन्द्विजोत्तमे राजन्वत्स्याम्यहमरिंदम।
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः।
इत्युक्त्वाऽन्तर्हितं तद्वै शक्रं चान्वाविशत्प्रभो।।

तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोपरः।
शरीरान्निः सृतस्तस्य को भवानिति सोब्रवीत्।।

धर्मं प्रह्लाद मां विद्धि यत्रासौ द्विजसत्तमः।
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम्।।

ततोऽपरो महाराज प्रज्वलन्निव तेजसा।
शरीरान्निः सृतस्तस्य प्रह्लादस्य महात्मनः।।

को भवानिति पृष्टश्च तमाह स महाद्युतिः।
सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम्।।

तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः।
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महातपाः।।

वृत्तं प्रह्लाद मां विद्धि यतः सत्यं ततो ह्यहम्।
तस्मिन्गते महाश्वेता शरीरात्तस्य निर्ययौ।।

पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः।
इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप।।

ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ।
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येनमब्रवीत्।।

उषिताऽस्मि सुखं नित्यं त्वयि सत्यपराक्रम।
त्वया युक्ता गमिष्यामि बलं ह्यनुगता ह्यहम्।।

ततो भयं प्रादुरासीत्प्रह्लादस्य महात्मनः।
अपृच्छत च तां भूयः क्व यासि कमलालये।।

त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी।
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम्।।

श्रीरुवाच।

स शक्तो ब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः।
त्रैलोक्ये ते यदश्वर्यं तत्तेनापहृतं प्रभो।।

शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः।
तद्विज्ञाय सुरेन्द्रेण तव शीलं हृतं प्रभो।।

धर्मः सत्यं तथा वृत्तं बलं चैव तथाऽप्यहम्।
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः।।

भीष्म उवाच।

एवमुक्त्वा गता श्रीस्तु ते च सर्वे युधिष्ठिर।
दुर्योधनस्तु पितरं भूय एवाब्रवीत्तदा।।

शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन।
प्राप्यते च यथा शीलं तं चोपायं ब्रवीहि मे।।

धृतराष्ट्र उवाच।

सोपायं पूर्वमुद्दिष्टं प्रह्लादेन महात्मना।
संक्षेपतस्तु शीलस्य शृणु प्राप्तिं नरेश्वर।।

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते।।

यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्।
अपत्रपेत वा येन न तत्कुर्यात्कथंचन।।

तत्तु कर्म तथा कुर्याद्येन श्लाध्येत संसदि।
शीलं समासेनैतत्ते कथितं कुरुसत्तम।।

यद्यप्यशीला नृपते प्राप्नुवन्ति श्रियं क्वचित्।
न भुञ्जते चिरं तात समूलाश्च पतन्ति ते।।

धृतराष्ट्र उवाच।

एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक।
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्।
`अधिकां चापि राजेन्द्र ततस्त्वं शीलवान्भवा।।'

भीष्म उवाच।

एतत्कथितवान्पुत्रे धृतराष्ट्रो महीपतिः।
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम्।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि चतुर्विशत्यधिकशततमोऽध्यायः।। 124।।