शांतिपर्व

अध्यायः १२३

Santi Parva (Sanskrit) · Adhyaya 123
अक्षर का आकार

युधिष्ठिर उवाच।

तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम्।
लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता।।

धर्मार्थकामाः किंमूलाः प्रभवः प्रलयश्च कः।
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक्।।

भीष्म उवाच।

य एते स्युः सुमनसो लोकसंस्थार्थनिश्चये।
कामप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा।।

धर्ममूलोऽर्थ इत्युक्तः कामोऽर्थफलमुच्यते।
संकल्पमूलास्ते सर्वे संकल्पो विषयात्मकः।।

विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये।
मूलमेतन्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते।।

धर्मः शरीरसंगुप्तिर्धर्मार्थश्चार्थ इष्यते।
कामो रतिफलश्चात्र सर्वे रतिफलाः स्मृताः।।

सन्निकृष्टांश्चरेदेतान्न चैतान्मनसा त्यजेत्।
विमुक्तस्तपसा सर्वान्धर्मादीन्कामनैष्ठिकान्।।

श्रेष्ठबुद्धिस्त्रिवर्गस्य उदयं प्राप्नुयात्क्षणात्।
[कर्मणा बुद्धिपूर्वेण भवत्यर्थो न वा पुनः।।]

अर्थार्थमन्यद्भवति विपरीतमथापरम्।
अनर्थार्थमवाप्यार्थमन्यत्राद्योपकारकम्।]
बुद्ध्या बुद्ध इहार्थेन तदह्ना तु निकृष्टया।।

अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम्।
संप्रमोहमलः कामो भूयस्तद्गुणवर्धितः।।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अरिष्टस्य च संवादं कामन्दस्य च भारत।।

कामन्दमृषिमासीनमभिवाद्य नराधिपः।
आङ्गोरिष्ठोऽथ पप्रच्छ कृत्वा समयमव्ययम्।।

यः पापं कुरुते राजा काममोहबलात्कृतः।
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम्।।

अधर्मं धर्म इति च यो मोहादाचरेन्नरः।
तं चापि प्रथितं लोके कथं राजा निवर्तयेत्।।

कामन्द उवाच।

यो धर्मार्थौ परित्यज्य काममेवानुवर्तते।
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्च्छति।।

प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः।
तस्मान्नास्तिकता चैव दुराचारश्च जायते।।

दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव।।

तं प्रजा नानुरज्यन्ते न विप्रा न च साधवः।
ततः संक्षयमाप्नोति तथा वध्यत्वमेव च।।

अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम्।
जीवते यदपध्वस्तः शुद्धं मरणमेव तत्।।

अत्रैतदाहुराचार्याः पापस्य परिवर्तनम्।
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च।।

महामना भवेद्धर्मे विवहेच्च महाकुले।
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः।।

जपेदुदकशीलः स्यात्सुमुखो न च नास्तिकः।
धर्मान्वितान्संप्रविशेद्बहिः प्लुत्यैव दुष्कृतम्।।

प्रसादयेन्मधुरया वाचा वाऽप्यथ कर्मणा।
इत्यस्तीति वदेन्नित्यं परेषां कीर्तयन्गुणान्।।

अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्।
पापान्यपि हि कृच्छ्राणि शमयेन्नात्र संशयः।।

गुरवो हि परं धर्मं यं ब्रूयुस्तं तथा कुरु।
गुरूणां हि प्रसादाद्वै श्रेयः परमवाप्स्यसि।।

।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः।। 123।।