शल्यपर्व

अध्यायः ५७

Salya Parva (Sanskrit) · Adhyaya 57
अक्षर का आकार

वैशम्पायन उवाच।

ततो वाग्युद्धमभवत्तुमुलं जनमेजय।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्।।

धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी।
एकादशचमूभर्ता यत्र पुत्रो ममानघ।।

आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम्।
गदामादाय चैकाकी पदातिः प्रस्थितो रणम्।।

भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः।
गदामुद्यम्य यो याति किमन्यद्भागधेयतः।।

अहो दुःखं महत्प्राप्तं पुत्रेण मम स़ञ्जय।
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः।।

सञ्जय उवाच।

स मेघनिनदो हर्षान्निनदन्निव गोवृषः।
आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान्।।

भीममाह्वयमाने तु कुरुराजे महात्मनि।
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत।।

ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च।
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः।।

महास्वनाः सुनिर्वातास्तुमुला रोमहर्षणाः।
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात्।।

राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते।
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा।।

रूक्षाश्च वाताः प्रववुर्नीचैः शर्करकर्षिणः।
गिरीणां शिखराण्येव न्यपतन्त महीतले।।

मृगा बहुविधाकाराः सम्पतन्ति दीशो दश।
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः।।

निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः।
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः।।

उदपानगताश्चापो व्यवर्धन्त समन्ततः।
अशरीरा महानादाः श्रूयन्ते स्म भयानकाः।।

एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः।
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम्।।

एष शक्यो मया जेतुं मन्दात्मा च सुयोधनः।।

अद्य क्रोधं विमोक्ष्यामि निगूढं हृदयेशयम्।
सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः।।

शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्।
निहत्य गदया पापमिमं कुरुकुलान्तकम्।।

अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि।
हत्वेमं पापकर्माणं गदया रणमूर्धनि।।

अद्योरुगदया राजन्भेत्ताऽस्मि समरेऽनया।
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम्।।

सर्पोत्सर्गस्य शयने विषदानस्य भोजने।
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि।।

सभायामवहासस्य सर्वस्वहरणस्य च।
वर्षमज्ञातवासस्य वनवासस्य चानघ।।

अद्यान्तमेषां दुःखानां गन्ताऽहं भरतर्षभ।
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः।।

अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः।
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम्।।

अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः।
समाप्तं च महाराज नारीणां दर्शनं पुनः।।

अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः।
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले।।

राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम्।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्।।

इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान्।
अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्।।

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्।
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह।।

राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः।
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते।।

द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला।
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च।।

वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत्।
विराटनगरे चैव योन्यन्तरगतैरिव।
तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते।।

त्वत्कृतेऽसौ हतः शेते शरतल्पे पितामहः।
गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना।।

हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान्।
वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः।।

प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः।
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः।।

एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः।
त्वामद्य निहनिष्यामि गदया नात्र संशयः।।

इत्येवमुच्चै राजानं भाषमाणं वृकोदरम्।
उवाच गतभी राजन्पुत्रस्ते सत्यविक्रमः।।

किं कत्थनेन बहुना युध्यस्वेह वृकोदर।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम।।

इति दुर्यार्धेनोऽक्षुद्रस्त्वया क्षुद्रबलेन वै।
शक्यस्रासयितुं वाचा न चान्यः प्राकृतो यथा।।

चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम।
त्वया सह गदायुद्धं त्रिदशैरुपपादितम्।।

किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते।
वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः।।

तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन्।
राजानः सोमकाश्चैव ये तत्रासन्समागताः।।

ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः।
भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः।।

तं मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः।
भूयः संहर्षयांचक्रुर्दुर्योधनममर्षणम्।।

तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः।
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः।।

बृंहन्ति कुञ्चरास्तत्र हया हेषन्ति चासकृत्।
शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणां

।। इति श्रीमन्महाभारते शल्यपर्वणि
गदायुद्धपर्वणि सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।।