शल्यपर्व
अध्यायः २२
सञ्जय उवाच।
वर्तमाने तदा युद्धे घोररूपे भयानके।
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः।।
तांस्तु सर्वानयन्तेन सन्निवार्य महारथाः।
पुत्रास्ते योधयामासुः पाण्डवानामनीकिनीम्।।
निवृत्ताः सहसा योधास्तव पुत्रजयैपिणः।
सन्निवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम्।
तावकानां परेषां च देवासुररणोपभम्।।
परेषां तावकानां च नासीत्कश्चित्पराङ्मुखः।।
अनुमानेन युध्यन्ते सञ्ज्ञाभिश्च परस्परम्।
तेषां क्षयो महानासीद्युध्यतामितरेतरम्।।
ततो युधिष्ठिरो राजा क्रोधेन महता युतः।
जिगीषमाणः सङ्ग्रामे धार्तराष्ट्रान्सराजकान्।।
त्रिभिः शारद्वतं विद्व्वा रुक्मपुङ्खैः शिलाशितैः।
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः।।
अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम्।
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्।।
ततो दुर्योधनो राजा रथान्सप्तशतान्रणे।
प्रैषयद्यत्र राजाऽसौ धर्मपुत्रो युधिष्ठिरः।।
ते रथा रथिभिर्युक्ता मनोमारुतरंहसः।
अभ्यद्रवन्त सङ्ग्रामे कौन्तेयस्य रथं प्रति।।
ते समन्तान्महाराज परिवार्य युधिष्ठिरम्।
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम्।।
तं दृष्ट्वा धर्मराजानं कौरवेयैस्तथावृतम्।
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः।।
रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतैः।
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्।।
ततः प्रववृते रौद्रः सङ्ग्रामः शोणितोदकः।
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः।।
रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम्।
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन्।।
तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः।
न च तत्तादृशं दृष्टं नैव चापि परिश्रुतम्।।
वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः।
वध्यमानेषु योधेषु तावकेष्वितरेषु च।।
विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः।
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम्।।
अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु।
धावमानेषु योधेषु जयगृद्धिषु मारिष।।
संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे।
वह्नीनामुत्तमस्त्रीणां सीमन्तोद्धरणे कृते।।
निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे।
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः।।
चचाल शब्दं कुर्वाणा सपर्वतवना मही।
सदण्डाः सोल्मुका राजन्कीर्यमाणाः समन्ततः।।
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम्।
विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः।।
अश्रूणि मुमुचुर्नागा वेपथुं चास्पृशन्भृशम्।
एतान्धोराननादृत्य समुत्पातान्सुदारुणान्।।
पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः।
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः।।
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्।
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान्।।
ततो नः सम्प्रायातानां मद्रयोधास्तरस्विनः।
हृष्टाः किलाकिलाशब्दमकुर्वत परे तथा।।
अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः।
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्।।
ततो हतं परैस्तत्र मद्रराजबलं तदा।
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम्।।
गान्धारराजस्तु पुनर्वाक्यमाह ततो बली।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः।।
अनीकं दशसाहस्रमश्वानां भरतर्षभ।
आसीद्गान्धारराजस्य विशालप्रासयोधिनाम्।।
बलेन तेन विक्रम्य वर्तमाने जनक्षये।
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः।।
तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः।
अभज्यत महाराज पाण्डूनां सुमहद्बलम्।।
ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात्।
अभ्यनोदयदव्यग्रः सहदेवं महाबलम्।।
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः।
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिः।।
गच्छ त्वं द्रौपदेयैश्च शकुनिं सौबलं जहि।
रथानीकमहं धक्ष्ये पाञ्चालसहितोऽनघ।।
गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया।
पादाताश्च त्रिसाहस्राः शकुनिं तैर्वृतो जहि।।
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः।
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्।।
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः।
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम्।।
ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्।
जघान पृष्ठतः सेनां जयगृद्वः प्रतापवान्।।
अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम्।
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान्।।
ते तत्र सादिनः शूराः सौबलस्य महद्बलम्।
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन्।।
तदुद्यतगदाप्रासमकापुरुषसेवितम्।
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव।।
उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन्।
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत।।
शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ।
ज्योतिषामिव सम्पातमपश्यन्कुरुपाण्डवाः।।
ऋष्टिभिर्विमलाभिश्च तत्रतत्र विशाम्पते।
सम्पतन्तीभिराकाशमावृतं बह्वशोभत।।
प्रासानां पततां राजन्रूपमासीत्समन्ततः।
शलभानामिवाकाशे तदा भरतसत्तम।।
रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः।
हयाः परिपतन्तिस्म शतशोऽथ सहस्रशः।।
अन्योन्यं परिपिष्टाश्च समासाद्य परस्परम्।
सुविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः।।
ततोऽभवत्तमो घोरं सैन्येन रजसा वृतम्।
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिन्दम।।
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति।
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु।।
केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः।
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः।।
मल्ला इव समासाद्य निजघ्नुरितरेतरम्।
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः।।
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः।
तत्रतत्र व्यदृश्यन्त पुरुषाः शूरमानिनः।।
रक्तोक्षितैश्छिन्नभुजैरवकृष्टशिरोरुहैः।
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः।।
दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित्।
साश्वारोहैर्हतैरश्वैरावृते वसुधातले।।
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः।
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः।
सुसन्निकृष्टे सङ्ग्रामे हतभूयिष्ठसैनिके।।
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते।
षट्साहस्रैर्हयैः शिष्टेरपायाच्छकुनिस्ततः।।
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्।
षट्साहस्रैर्हयैः शिष्टेरपायाच्छ्रान्तवाहनम्।।
अश्वारोहाश्च पाण्डूनामब्रुवन्रुधिरोक्षिताः।
सुसन्निकृष्टे सङ्ग्रामे भूयिष्ठे त्यक्तजीविताः।।
न हि शक्यं रथैर्योद्धुं कुत एव महागजैः।
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि।।
प्रतियातो हि शकुनिः स्वमनीकमवस्थितः।
न पुनः सौबलो राजा योद्धुमभ्यागमिष्यति।।
ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः।
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः।।
सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते।
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः।।
ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः।
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्।।
तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाऽभ्यवर्तत।
तावकानां परेषां च परस्परवधैषिणाम्।।
ते चान्योन्यमवैक्षन्त तस्मिन्वीरसमागमे।
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः।।
असिभिश्छिद्यमानानां शिरसां लोकसंक्षये।
प्रादुरासीन्महाञ्शब्दस्तालानां पततामिव।।
विमुक्तानां शरीराणां छिन्नानां पततां भुवि।
सायुधानां च बाहूनामूरूणां च विशाम्पते।
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः।।
निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि।
योधाः परिपतन्ति स्म यथाऽऽमिषकृते खगाः।।
अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम्।
अहम्पूर्वमहम्पूर्वमिति निघ्नन्सहस्रशः।।
संयातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः।
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः।।
स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रगामिनाम्।
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते।।
शक्त्यृष्टिप्रासशब्दश्च तुमुलः समपद्यत।
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव।।
श्रमाभिभूताः संरब्धा श्रान्तवाहाः पिपासवः।
विक्षताश्च शितैः शस्त्रैरभ्यवर्न्तत तावकाः।।
मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः।
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान्।।
बहवश्च गतप्राणाः क्षत्रिया जयगृद्विनः।
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः।।
वृकगृध्रशृगालानां तुमुले मोदनेऽहनि।
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः।।
नराश्वकायैः सञ्छन्ना भूमिरासीद्विशाम्पते।
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी।।
असिभिः पट्टसैः शूलैस्तक्षमाणाः पुनःपुनः।
तावकाः पाण्वेयाश्च न न्यवर्तन्त भारत।।
प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम्।
योधाः परिपतन्ति स्म वमन्तो रुधिरं मुखैः।।
शिरो गृहीत्वा केशेषु कबन्धः स प्रदृश्यते।
उद्यम्य च शितं खङ्गं रुधिरेण परिप्लुतम्।।
तथोत्थितेषु बहुषु कबन्धेषु नराधिप।
तथा रुधिरगन्धेन योधाः कश्मलमाविशन्।।
मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम्।
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः।।
ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्विनः।
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः।।
कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः।
शस्त्रैर्नानाविधैर्जघ्नुर्युद्वपारं तितीर्षवः।।
त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान्।
रथाश्वपत्तिद्विरदाः पाण्डवानभिदुद्रुवुः।।
केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम्।
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्।।
रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः।
विमानेभ्यो दिवो भ्रष्टाः सिद्वाः पुण्यक्षयादिव।।
एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे।
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथा परे।।
एवमासीदमर्यादं युद्वं भरतसत्तम।
प्रासासिबाणकलिलं वर्तमाने सुदारुणे।।
।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे द्वाविंशोऽध्यायः।। 22 ।।