शल्यपर्व

अध्यायः २०

Salya Parva (Sanskrit) · Adhyaya 20
अक्षर का आकार

सञ्जय उवाच।

तस्मिंस्तु निहते शूरे साल्वे समितिशोभने।
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः।।

तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः।
दधार समरे शूरः शत्रुसैन्यं महाबलः।।

सन्निवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे।
शैलोपमं स्थिरं राजन्कीर्यमाणं शरैर्युधि।।

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह।
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्।।

तत्राश्चर्यमभूद्युद्वं सात्वतस्य परैः सह।
यदेको वारयामास पाण्डुसेनां दुरासदाम्।।

तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे।
सिंहनादः प्रहृष्टानां दिविस्पृक्सुमहानभूत्।।

तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ।
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः।।

स समासाद्य राजानं क्षेमधूर्तिं महाबलम्।
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम्।।

तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान्।
जवेनाभ्यपतद्वीमान्हार्दिक्यः शिनिपुङ्गवम्।।

तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ।
अन्योन्यमभिधावन्तौ शस्त्रप्रवरधारिणौ।।

पाण्डवाः सहपाञ्चाला योधाश्चान्ये नृपोत्तमाः।
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः।।

नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ।
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्चरौ।।

चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुङ्गवौ।
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम्।।

चापवेगबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः।
आकाशे समपश्याम पतङ्गानिव शीघ्रगान्।।

तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः।
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान्।।

स दीर्घबाहुः सङ्क्रुद्धस्तोत्रार्दित इव द्विपः।
अष्टभिः कृतवर्माणमविध्यत्परमेषुभिः।।

ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः।
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे।।

निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुङ्गवः।
अन्यदादत्त वेगेन शैनेयः सशरं धनुः।।

तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्।
आरोप्य च धनुः शीघ्रं महावीर्यो महाबलः।।

अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा।
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात्।।

ततः सुनिशितैर्बाणैर्दशभिः शिनिपुङ्गवः।
जघान सूतं चाश्वांश्च ध्वजं च कृतवर्मणः।।

ततो राजन्महेष्वासः कृतवर्मा महारथः।
हताश्वसूतं सम्प्रेक्ष्य रथं हेमपरिष्कृतम्।।

रोषेण महताऽऽविष्टः शूलमुद्यम्य मारिष।
चिक्षेप भुजवेगेन जिघांसुः शिनि पुङ्गवम्।।

तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः।
चूर्णितं पातयामास मोहयन्निव माधवम्।
ततोऽपरेण भल्लेन हृद्येनं समताडयत्।।

सुयुद्वे युयुधानेन हताश्वो हतसारथिः।
कृतवर्मा कृतास्त्रेण धरमीमन्वपद्यत।।

तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते।
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम्।।

पुत्राणां तव चात्यर्थं विषादः समजायत।
हतसूते हताश्वे तु विरथे कृतवर्मणि।।

हताश्वं च समालक्ष्य हतसूतमरिन्दम।
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुङ्गवम्।।

तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्।
अपोवाह महाबाहुं तूर्णमायोधनादपि।।

शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्।।

तत्परे नान्वबुध्यन्त सैन्येन रजसा वृताः।
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम्।।

दुर्योधनस्तु सम्प्रेक्ष्य भग्नं स्वबलमन्तिकात्।
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत्।।

पाण्डूंश्च सर्वान्सङ्क्रुद्धो धृष्टद्युम्नं च पार्षतम्।
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः।।

केकयान्सोमकांश्चैव सृञ्जयांश्चैव मारिष।
असम्भ्रमं दुराधर्षः शितैर्बाणैरवाकिरत्।।

अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः।
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशते।
तथा दुर्योधनो राजा सङ्ग्रामे सर्वतोऽभवत्।।

तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे।
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत।।

।। इति श्रीमन्महाभारते
शल्यपर्वमि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे विंशोऽध्यायः।। 20 ।।