शल्यपर्व

अध्यायः १९

Salya Parva (Sanskrit) · Adhyaya 19
अक्षर का आकार

सञ्जरा उवाच।

सन्निवृत्तेषु सैन्येषु साल्वो म्लेच्छगणाधिपः।
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवानां महद्बलम्।।

आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम्।
सप्तमैरावतप्रख्यममित्रगणमर्दनम्।।

योऽसौ महान्भद्रकुलप्रसूतः
सुपूजितो धार्तराष्ट्रेण नित्यम्।
सुकल्पितः शास्त्रविनिश्चयज्ञैः
सदौपवाह्यः समरेषु राजन्।।

ऐरावतं दैत्यगणान्विमृद्र--
ञ्शक्रो यथा सञ्जनयन्भयानि।
तमास्थितो राजवरो बभूव
यथोदयस्थः सविता क्षपान्ते।।

स तेन नागप्रवरेण राज--
न्नभ्युद्ययौ पाण्डुसुतान्समेतान्।
शितैः पृषत्कैर्विददार वेगै--
र्महेन्द्रवज्रप्रतिमैः सुघोरैः।।

ततः शरान्वै सृजतो महारणे
योधांश्च राजन्नयतो यमालयम्।
नास्यानत्रं ददृशुः स्वे परे वा
यथा पुरा वज्रधरस्य दैत्याः।।

ते पाण्डवाः सोमकाः सृञ्जयाश्च
तमेकनागं ददृशुः समन्तात्।
सहस्रशो वै विचरन्तमेकं
यथा महेन्द्रस्य गजं समीपे।।

सन्द्राव्यमाणं तु बलं परेषां
परेतकल्पं विबभौ समन्ततः।
नैवावतस्थे समरे भृशं भया--
द्विमृद्यमानं तु परस्परं तदा।।

ततः प्रभग्ना सहसा महाचमूः
सा पाण्डवी तेन नराधिपेन।
दिशश्चतस्रः सहसा विधाविता
गजेन्द्रवेगं तमपारयन्ती।।

दृष्ट्वा च तां वेगवता प्रभग्नां
सर्वे त्वदीया युधि योधमुख्याः।
अपूजयंस्ते तु नराधिपं तं
दध्मुश्च शङ्खाञ्शशिसन्निकाशान्।।

श्रुत्वा निनादं त्वथ कौरवाणां
हर्षाद्विमुक्तं सह शङ्खशब्दैः।
सेनापतिः पाण्डवसृञ्जयानां
पाञ्चालपुत्रो ममृषे न कोपात्।।

ततस्तु तं वै द्विरदं महात्मा
प्रत्युद्ययौ त्वरमाणो जयाय।
जम्भो यथा शक्रसमागमे वै
नागेन्द्रमैरावणमिन्द्रवाह्यम्।।

तमापतन्तं सहसा तु दृष्ट्वा
पाञ्चालपुत्रं युधि राजसिंहः।
तं वै द्विपं प्रेषयामास तूर्णं
वधाय राजन्द्रुपदात्मजस्य।।

स तं द्विपेन्द्रं सहसापतन्त--
मविध्यदग्निप्रतिमैः पृषत्कैः।
कर्मारधौतैर्निशितैर्ज्वलद्भि--
र्नाराचमुख्यैस्त्रिभिरुग्रवेगैः।।

ततोऽपरान्पञ्चशतान्महात्मा
नाराचमुख्यान्विससर्ज कुम्भे।
स तैस्तु विद्धः परमद्विपो रणे
तदा परावृत्य भृशं प्रदुद्रुवे।।

तं नागराजं सहसा प्रणुन्नं
विद्राव्यमाणं विनिवर्त्य साल्वः।
तोत्राङ्कुशैः प्रेषयामास तूर्णं
पाञ्चालराजस्य सुतं प्रदिश्य।।

दृष्ट्वा पतन्तं सहसा तु नागं
धृष्टद्युम्नः स्वरथाच्छीघ्रमेव।
गदां प्रगृह्योग्रजवेन वीरो
भूमिं प्रपन्नो भयविह्वलाङ्गः।।

स तं रथं हेमविभूषिताङ्गं
साश्वं ससूतं सहसा विमृद्य।
उत्क्षिप्य हस्तेन नदन्महाद्विपो
विपोथयामास वसुन्धरातले।।

पाञ्चालराजस्य सुतं च दृष्ट्वा
तदार्दितं नागवरेण तेन।
तमभ्यधावत्सहसा जवेन
भीमः शिखण्डी च शिनेश्च नप्ता।।

शरैश्च वेगं सहसा निगृह्य
तस्याभितो व्यापततो गजस्य।
स सङ्गृहीतो रथिभिर्गजो वै
चचाल तैर्वार्यमाणश्च सङ्ख्ये।।

ततः पृषत्कान्प्रववर्ष राजा
सूर्यो यथा रश्मिजालं समन्तात्।
तैराशुगैर्वध्यमाना रथौघाः
प्रदुद्रुवुः सहितास्तत्रतत्र।।

तत्कर्म साल्वस्य समीक्ष्य सर्वे
पाञ्चालपुत्रा नृप सृञ्जयाश्च।
हाहाकारैर्नादयन्ति स्म युद्धे
द्विपं समन्ताद्रुरुधुर्नराग्र्याः।।

पाञ्चालपुत्रस्त्वरितस्तु शूरो
गदां प्रगृह्याचलशृङ्गकल्पाम्।
ससम्भ्रमं भारत शत्रुघाती
जवेन वीरोऽनुससार नागम्।।

ततस्तु नागं धरणीधराभं
मदं स्रवन्तं जलदप्रकाशम्।
गदां समातिध्य भृशं जघान
पाञ्चालराजस्य सुतस्तरस्वी।।

स भिन्नकुम्भः सहसा विनद्य
मुखात्प्रभूतं क्षतजं विमुञ्चन्।
पपात नागो धरमीधराभः
क्षितिप्रकम्पाच्चलितो यथाऽद्रिः।।

निपात्यमाने तु तदा गजेन्द्रे
हाहाकृते तव पुत्रस्य सैन्ये।
स साल्वराजस्य शिनिप्रवीरो
जहार भल्लेन शिरः शितेन।।

हृतोत्तमाङ्गो युधि सात्वतेन
पपात भूमौ सह नागराज्ञा।
यथाऽद्रिशृङ्गं सुमहत्प्रणुन्नं
वज्रेण देवाधिपचोदितेन।।

।। इति श्रीमन्महाभारते
शल्यवधपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे एकोनविंशोऽध्यायः।। 19 ।।