शल्यपर्व
अध्यायः २
वैशम्पायन उवाच।
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः।
विललाप महाराज दुःखाद्दुःखतरं गतः।।
सधूममिव निःश्वस्य करौ धुन्वन्पुनःपुनः।
बहु सञ्चिन्तयित्वा तु सञ्जयं वाक्यमब्रवीत्।।
धृतराष्ट्र उवाच।
अहो बत महद्दुःखं यदहं पाण्डवान्रणे।
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै।।
वज्रसारमयं नूनं हृदयं सुदृढं मम।
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा।।
चिन्तयित्वा वचस्तेषां बालक्रीडां च सञ्जय।
अद्य चैव हताञ्श्रुत्वा दीर्यते मे भृशं मनः।।
अन्धत्वाद्यदि पुत्राणां न मे रूपिनिदर्शनम्।
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता।।
बालभावमतिक्रम्य यौवनस्थांश्च तानहम्।
श्रियं प्राप्तांश्च ताञ्श्रुत्वा हृष्ट आसं तदाऽनघ।।
तानद्य निहताञ्श्रुत्वा हतैश्वर्यान्हतौजसः।
न लभेयं क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः।।
एह्येहि वत्स राजेन्द्र ममानाथस्य पुत्रक।
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम्।।
कथं त्वं पृथिवीपालांस्त्यक्त्वा तात समागतान्।
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा।।
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा।
अन्धं वृद्वं च मां वीर विहाय क्व नु यास्यसि।।
सा कृपा सा च ते प्रीतिः सा च राजसु मानिता।
कथं त्वं निहतः पार्थैः संयुगेष्वपराजितः।।
को नु मामुत्थितः काले ताततातेति वक्ष्यति।
महाराजेति सततं लोकनाथेति चासकृत्।।
परिष्वज्य च कं कण्ठे स्नेहेन क्लिन्नलोचनः।
अनुशास्ताऽस्मि कौरव्य तत्साधु वदमे वचः।।
ननु नामाहमश्रौषं वचनं तव पुत्रक।
भूयसी मम पृथ्वीयं तात पार्थस्य नो तथा।।
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः।
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः।।
अश्वत्थामा च भोजश्च मागधश्च महाबलः।
बृहद्बलश्च क्राथश्च शकुनिश्चापि सौबलः।।
म्लेच्छाश्च शतसाहस्राः शकाश्च यवनैः सह।
सुदक्षिणश्च काम्भोजस्त्रिगर्ताधिपतिस्तथा।।
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः।
श्रुतायुश्चाश्रुतायुश्च शतायुश्चापि वीर्यवान्।।
जलसन्धोऽथार्ष्यशृङ्गी राक्षसश्चाप्यलायुधः।
अलम्बुसो वीरबाहुः सुबाहुश्च महारथः।।
एते चान्ये च बहवो राजानो राजसत्तम।
मदर्थं प्रहरिष्यन्ति प्राणांस्त्यक्त्वा धनानि च।।
तेषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः।
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः।।
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे।
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्।।
एकोऽप्येषां महाराज समर्थः सन्निवारणे।
समरे पाण्डवेयानां सङ्क्रुद्धो ह्यभिधावताम्।।
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः।
अथवा सर्व एवैते पाण्डवस्यानुयायिभिः।।
योत्स्यन्ते सह राजेन्द्र हनिष्यन्ति च तान्मृधे।
कर्ण एको मया सार्धं निहनिष्यति पाण्डवान्।।
ते वै नृपतयो वीराः स्थास्यन्ति मम शासने।।
यश्च तेषां प्रणेता वै वासुदेवो महाबलः।
न स सन्नह्यते राजन्निति मामब्रवीद्वचः।।
एवं च वदतः सूत बहुशो मम सन्निधौ।
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्रणे।।
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः।
व्यायच्छमानाः समरे किमन्यद्भागधेयतः।।
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान्।
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्।।
द्रोणश्च ब्राह्मणो यत्र सर्वशस्त्रास्त्रपारगः।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः।।
कर्णश्च निहतः सङ्ख्ये दिव्यास्त्रज्ञो महाबलः।
भूरिश्रवा हतो पत्र सोमदत्तश्च संयुगे।
बाह्लिकश्च महाराज किमन्यद्भागधेयतः।।
भगदत्तो हतो यत्र गजयुद्धविशारदः।
जयद्रथश्च निहतः किमन्यद्भागधेयतः।।
सुदक्षिणो हतो यत्र जलसन्धश्च पौरवः।
श्रुतायुश्चाश्रुतायुश्च किमन्यद्भागधेयतः।।
महाबलस्तथा पाण्ड्यः सर्वशस्त्रभृतां वरः।
निहतः पाण्डवैः सङ्ख्ये किमन्यद्भागधेयतः।।
बृहद्बलो हतो यत्र मागधश्च महाबलः।
उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम्।।
आवन्त्यो निहतो यत्र त्रैगर्तश्च जनाधिपः।
संशप्तकाश्च निहताः किमन्यद्भागधेयतः।।
अलम्बुसस्तथा राजन्राक्षसश्चाप्यलायुधः।
आर्ष्यशृङ्गिश्च निहतः किमन्यद्भागधेयतः।।
नारायणा हता यत्र गोपाला युद्धदुर्मदाः।
म्लेच्छाश्च बहुसाहस्राः किमन्यद्भागधेयतः।।
शकुनिः सौबलो यत्र कैतव्यश्च महाबलः।
निहतः सबलो वीरः किमन्यद्भागधेयतः।।
एते चान्ये च बहवः कृतास्त्रा युद्धदुर्मदाः।
राजानो राजपुत्राश्च शूराः परिघबाहवः।
निहता बहवो यत्र किमन्यद्भागधेयतः।।
यत्र शूरा महेष्वासाः कृतास्त्रा युद्वदुर्मदाः।
बहवो निहताः सूत महेन्द्रसमविक्रमाः।।
नानादेशसमावृत्ताः क्षत्रिया यत्र सञ्जय।
निहताः समरे सर्वे किमन्यद्भागधेयतः।।
पुत्राश्च मे विनिहताः पौत्राश्चैव महाबलाः।
वयस्या भ्रातरश्चैव किमन्यद्भागधेयतः।।
भागधेयसमायुक्तो ध्रुवमुत्पद्यते नरः।
यस्तु भाग्यसमायुक्तः स शुभं प्राप्नुयान्नरः।।
अहं वियुक्तस्तैर्भाग्यैः पुत्रैश्चैवेह सञ्जय।
कथमद्य भविष्यामि वृद्धः शत्रुवशं गतः।।
नान्यदत्र परं मन्ये वनवासादृते प्रभो।
सोऽहं वनं गमिष्यामि निर्बन्धुर्ज्ञातिसंक्षये।।
न हि मेऽन्यद्भवेच्छ्रेयो वनाभ्युपगमादृते।
इमामवस्थां प्राप्तस्य लूनपक्षस्य सञ्जय।।
दुर्योधनो हतो यत्र शल्यश्च निहतो युधि।
दुःशासनो विविंशश्च विकर्णश्च महाबलः।।
कथं हि भीमसेनस्य श्रोष्येऽहं शब्दमुत्तमम्।
एकेन समरे येन हतं पुत्रशतं मम।।
असकृद्वदतस्तस्य दुर्योधनवधेन च।
दुःखशोकाभिसन्तप्तो न श्रोष्ये परुषा गिरः।।
वैशम्पायन उवाच।
एवं स शोकसन्तप्तः पार्थिवो हतबान्धवः।
मुहुर्मुहुर्मुह्यमानः पुत्राधिभिरभिप्लुतः।।
विलप्य सुचिरं कालं धृतराष्ट्रोऽम्बिकासुतः।
दीर्घमुष्णं स निःश्वस्य चिन्तयित्वा पराभवम्।।
दुःखेन महता राजन्सन्तप्तो भरतर्षभः।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्।।
धृतराष्ट्र उवाच।
भीष्मद्रोणौ हतौ श्रुत्वा सूतपुत्रं च पातितम्।
सेनापतिं प्रणेतारं कमकुर्वत मामकाः।।
यं यं सेनाप्रणेतारं युधि कुर्वन्ति मामकाः।
अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः।।
रणमूर्ध्नि हतो भीष्मः पश्यतां वः किरीटिना।
एवमेव हतो द्रोणः सर्वेषामेव पश्यताम्।।
एवमेव हतः कर्णः सूतपुत्रः प्रतापवान्।
सराजकानां सर्वेषां पश्यतां वः किरीटिना।।
पूर्वमेवाहमुक्तो वै विदुरेण महात्मना।
दुर्योधनापराधेन प्रजेयं विनशिष्यति।।
केचिन्न सम्यक्पश्यन्ति मूढाः सम्यगवेक्ष्य च।
तदिदं मम मूढस्य तथाभूतं वचः स्म तत्।।
यदब्रवीत्स धर्मात्मा विदुरो दीर्घदर्शिवान्।
तत्तथा समनुप्राप्तं वचनं सत्यवादिनाः।।
दैवोपहतचित्तेन यन्मयाऽनुष्ठितं पुरा।
अनयस्य फलं तस्य ब्रूहि गावल्गणे पुनः।।
को वा मुखमनीकानामासीत्कर्णो निपातिते।
अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी।।
केऽरक्षन्दक्षिणं चक्रं मद्रराजस्य संयुगे।
वामं च योद्वुकामस्य के वा वीरस्य पृष्ठतः।।
कथं च वः समेतानां मद्रराजो महारथः।
निहतः पाण्डवैः सङ्ख्ये पुत्रो वा मम सञ्जय।।
ब्रूहि सर्वं यथातत्त्वं भरतानां महाक्षयम्।
यथा च निहतः सङ्ख्ये पुत्रो दुर्योधनो मम।।
पाञ्चालाश्च यथा सर्वे निहताः सपदानुगाः।
धृष्टद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः।।
पाण्डवाश्च यथा मुक्तास्तथोभौ माधवौ युधि।
कृपश्च कृतवर्मा च भारद्वाजस्य चात्मजः।।
यद्यथा यादृशं चैव युद्धं वृत्तं च साम्प्रतम्।
अखिलं श्रोतुमिच्छामि कुशलो ह्यसि सञ्जय।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
शल्यवधपर्वणि द्वितीयोऽध्यायः* ।। 2 ।।*
[सञ्जय उवाच।
शृणु राजन्नवहितो यथावृत्तो महान्क्षयः।
कुरूणां पाण्डवानां च समासाद्य परस्परम्।।
निहते सूतपुत्रे तु पाण्डवेन महात्मना।
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्।।
घोरे मनुष्यदेहानामाजौ नरवरक्षये।
यत्तत्कर्णे हते पार्थः कसिंहनादमथाकरोत्।।
तदा तव सुतान्राजन्प्राविशत्सुमहद्भयम्।।
न सन्धातुमनीकानि न चैवाथ पराक्रमे।
आसीद्बुद्धिर्हते कर्णे तव योधस्य कस्यचित्।।
वणिजो नावि भिन्नायामगाधे विप्लुवा इव।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना।।
सूतपुत्रो हते राजन्वित्रस्ताः शरविक्षताः।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव।।
भग्नशृङ्गा इव वृषा शीर्णदंष्ट्रा इवोरगाः।
प्रत्युपायाम सायाह्ने निर्जिताः सव्यसाचिना।।
हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः।
सूतपुत्रे हते राजन्पुत्रास्ते प्राद्रवंस्ततः।।
विध्वस्तकवचनाः सर्वे कान्दिशीका विचेतसः।
अन्योन्यमभिनिघ्नन्तो वीक्षमाणा भयाद्दिशः।।
मामेव नूनं बीभत्सुर्मामेव च वृकोदरः।
अभियातीति मन्वानाः पेतुर्मम्लुश्च भारत।।
अश्वानन्ये गजानन्ये रथानन्ये महारथाः।
आरुह्य जवसम्पन्नाः पादातान्प्रजहुर्भयात्।।
कुञ्जरैः स्यन्दना भग्नाः सादिनश्च महारथैः।
पदातिसङ्घाश्चाश्वौघैः पलायद्भिर्भृशं हताः।।
व्यालतस्करसङ्कीर्णे सार्थहीना यथा वने।
तथा त्वदीया निहते सूतपुत्रे पदाऽभवन्।।
हतारोहास्तथा नागाश्छिन्नहस्तास्तथाऽपरे।
सर्वं पार्थमयं लोकमपश्यन्वै भयार्दिताः।।
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वैवमब्रवीत्।।
नातिक्रमिष्यते पार्थो धनुष्पाणिमवस्थितम्।
जघने युध्यमानं मां तूर्णमश्वान्प्रचोदय।।
समरे युध्यमानं हि कौन्तेयो मां धनञ्जयः।
नोत्सहेताप्यतिक्रान्तुं वेलामिव महार्णवः।।
अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम्।
निहत्य शिष्टाञ्शत्रूंश्च कर्णस्यानृण्यमाप्नुयाम्।।
तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः।
सूतो हेमपरिच्छन्नाञ्शनैरश्वानचोदयत्।।
गजाश्वरथहीनास्तु पादाताश्चैव मारिष।
पञ्चविंशतिसाहस्राः प्राद्रवञ्शनकैरिव।।
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः।
बलेन चतुरङ्गेण परिक्षिप्याहनच्छरैः।।
प्रत्ययुध्यंस्तु ते सर्वे भीमसेनं सपार्षतम्।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी।।
अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत।।
न तान्रथस्थो भूमिष्ठान्धर्मापेक्षी वृकोदरः।
योधयामास कौन्तेयो भुजवीर्यमुपाश्रितः।।
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम्।
न्यवधीत्तावकान्सर्वान्दण्डपाणिरिवान्तकः।।
पदातयो हि संरब्धास्त्यक्तजीवितबान्धवाः।
भीममभ्यद्रवन्सङ्ख्ये पतङ्गा इव पावकम्।।
आसाद्य भीमसेनं ते संरब्धा युद्धदुर्मदाः।
विनेदुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम्।।
श्येनवद्व्यचरद्भीमः खङ्गेन गदया तथा।
पञ्चविंशतिसाहस्रांस्तावकानां व्यपोथयत्।।
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः।
धृष्टद्युम्नं पुरस्कृत्य पुनस्तस्थौ महाबलः।।
धनञ्जयो रथानीकमन्वपद्यत वीर्यवान्।।
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महाबलः।
जवेनाभ्यपतन्हृष्टा घ्नन्तो दौर्योधनं बलम्।।
तस्याश्ववाहान्सुबहूंस्ते निहत्य शितैः शरैः।
तमन्वधावंस्त्वरितास्तत्र युद्धमवर्तत।।
ततो धनञ्जयो राजन्रथानीकमगाहत।
विश्रुतं त्रिषु लोकेषु गाण्डीवं व्याक्षिपन्धनुः।।
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम्।
अर्जुनं चापि योद्वारं त्वदीयाः प्राद्रावन्भयात्।।
विप्रहीनरथाश्वाश्च शरैश्च परिवारिताः।
पञ्चविंशतिसाहस्राः पार्थमार्च्छन्पदातयः।।
हत्वा तत्पुरुषानीकं पाञ्चालानां महारथः।
भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत।।
महाधनुर्धरः श्रीमानमित्रगणमर्दनः।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महायशाः।।
पारावतसवर्णाश्वं कोविदारवरध्वजम्।
धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन्भयात्।।
गान्धारराजं श्रीघ्रास्त्रमनुसृत्य यशस्विनौ।
अचिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी।।
चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष।
हत्वा त्वदीयं सुमहत्सैन्यं शङ्खानथाधमन्।।
ते सर्वे तावकान्प्रेक्ष्य द्रवतो वै पराङ्मुखान्।
अभ्यधावन्त निघ्नन्तो वृषाञ्चित्वा वृषा इव।।
सेनावशेषं तं दृष्ट्वा तव पुत्रस्य पाण्डवः।
अवस्थितं सव्यसाची चुक्रोध बलवन्नृप।।
तत एनं शरै राजन्सहसा समवाकिरत्।
रजसा चोद्गतेनाथ न स्म किञ्चन दृश्यते।।
अन्धकारीकृते लोके शरीभूते महीतले।
दिशः सर्वा महाराज तावकाः प्राद्रवन्भयात्।।
भज्यमानेषु सर्वेषु कुरुराजो विशाम्पते।
परेषामात्मनश्चैव सैन्ये ते समुपाद्रवत्।।
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान्।
युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः।।
त एनमभिगर्जन्तं सहिताः समुपाद्रवन्।
नानाशस्त्रसृजः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः।।
दुर्योधनोऽप्यसम्भ्रान्तस्तानरीन्व्यधमच्छरैः।।
तत्राद्भुतमपरश्याम तव पुत्रस्य पौरुषम्।
यदेनं पाण्डवाः सर्वे न शेकुरतिवर्तितुम्।।
नातिदूरापयातं च कृतबुद्धि पलायने।
दुर्योधनः स्वकं सैन्यमपश्यकद्भृशविक्षतम्।।
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः।
हर्षयन्निव तान्योधांस्ततो वचनमब्रवीत्।।
न तं देशं प्रपश्यामि पृथिव्यां पर्वतेषु च।
यत्र यातान्न वो हन्युः पाण्डवाः किं सृतेन वः।।
स्वल्पं चैव बलं तेषां कृष्णौ च भृशविक्षतौ।
यदि सर्वेऽपि तिष्ठामो ध्रुवं नो विजयो भवेत्।।
विप्लयातांस्तु वो भिन्नान्पाण्डवाः कृतकिल्पिषान्।
अनुसृत्य हनिष्यन्ति श्रेयोः न समरे वधः।।
सुखः साङ्ग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम्।
मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते।।
शृण्वन्तु क्षत्रियाः सर्वे यावन्तोऽत्र समागताः।
द्विषतो भीमसेनस्य वशमेष्यथ विद्रुताः।।
पितामहैराचरितं न धर्मं हातुमर्हथ।
नान्यत्कर्मास्ति पापीयः क्षत्रियस्य पलायनात्।।
न युद्वधर्माच्छ्रेयान्हि पन्थाः स्वर्गस्य कौरवाः।
सुचिरेणार्जिताँलोकान्सद्यो युद्धात्समश्नुते।।
तस्य तद्वचनं राज्ञः पूजयित्वा महारथाः।
पुनरेवाभ्यवर्तन्त क्षत्रियाः पाण्डवान्प्रति।
पराजयममृष्यन्त कृतचित्ताश्च विक्रमे।।
ततः प्रववृते युद्धं पुनरेव सुदारुणम्।
तावकानां परेषां च देवासुररणोपमम्।।
युधिष्ठिरपुरोगांश्च सर्वसैन्येन पाण्डवान्।
अन्वधावन्महाराज पुत्रो दुर्योधनस्तव।।]
।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि अध्यायः।।