शल्यपर्व
अध्यायः १
श्रीवेदव्यासाय नमः।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं (व्यासं) चैव ततो जयमुदीरयेत्।।
जनमेजय उवाच।
एवं निपातिते कर्णे समरे सव्यसाचिना।
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज।।
विदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः।
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः।।
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्।।
वैशम्पायन उवाच।
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः।
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत्।।
हाकर्ण हाकर्ण इति शोचमानो मुहुर्मुहुः।
कृच्छ्रात्स्वशिबिरं प्रायाद्वतशिष्टैर्नृपैः सह।।
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः।
राजन्विभूतिमिच्छद्भिः सूतपुत्रमनुस्मरन्।।
स दैवं बलवन्मत्वा प्रभाते विमले सति।
सङ्ग्रामे निश्चयं कृत्वा पुनर्युद्वाय निर्ययौ।।
शल्यं सेनापतिं कृत्वा विधिवद्राजसत्तमम्।
रणाय निर्ययौ राजा हतशिष्टैर्नृपैः सह।।
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः।
बभूव भरतश्रेष्ठ देवासुररणोपमम्।।
ततः शल्यो महाराज कृत्वा कदनमाहवे।
पाण्डुसैन्येऽथ मध्याह्ने धर्मराजेन पातितः।।
ततो दुर्योधनो राजा हतबन्धू रणाजिरात्।
अपसृत्य हदं घोरं विवेश रिपुजाद्भुयात्।।
अथापराह्णे तस्याह्नः परिवार्य महारथैः।
हदादाहूय युद्वाय भीमसेनेन पातितः।।
तस्मिंस्तु निहते वीरे महेष्वासास्त्रयो रणे।
कृतवर्मा कृपो द्रौणिर्जघ्नुः पाण्डवसैनिकान्।।
ततः पूर्वाह्णसमये शिबिरादेत्य सञ्जयः।
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः।।
स प्रविश्य पुरीं सूतो भूजावुच्छ्रित्य दुःखितः।
वेपमानस्ततो राज्ञः प्रविप्रेश निवेशनम्।।
धावतश्चाप्यपश्यxxx तत्रत्यान्पुरुषर्षभान्।
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशदुःखितान्।।
दृष्ट्वैव च नराञ्शीघ्रं व्याजहारातिदुःखितः।
अहो बत विपन्नोऽस्मि निधनेन महात्मनः।।
अहो सुबलवान्कालो गतिश्च परमा तथा।
शुक्रतुल्यबलाः सर्वे यत्राहन्यन्त पार्थिवाः।।
तं दृष्ट्वैव पुरे राजञ्जनः सर्वः स्म सञ्जयम्।
प्ररुरोद भयोद्विग्नो हा राजन्निति सुस्वरम्।।
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः।
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम्।।
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्।
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्।।
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम्।
स्नुषामिर्भरतश्रेष्ठ गान्धार्या विदुरेण च।
तथाऽन्यैश्च सुहृद्भिश्च ज्ञातिमिश्च हितैषिभिः।।
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति।
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय।।
नातिहृष्टमनाः सूतो बाष्पसन्दिग्धया गिरा।
सञ्जयोऽहं नरव्याघ्र नमस्ते भरतर्षभ।।
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा।
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः।।
संशप्तका हताः सर्वे काम्भोजाश्च शकैः सह।
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः।।
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः।
उदीच्याश्च हताः सर्वे प्रतीच्याश्च नरोत्तमाः।
राजानो राजपुत्राश्च सर्वे विनिहता नृप।।
कर्णपुत्रो हतः शूरः सत्यसेनो महाबलः।।
दुर्योधनो हतो राजा ययोक्तं पाण्डवेन ह।
xxxxxx महाराज शेते पांसुषु रूषितः।।
xxxxxx हतो xxx जञ्शिखण्डी चापराजितः।
उत्तमौज युधामन्युस्तथा सर्वे प्रभद्रकाः।।
पाञ्चालश्च नरव्याघ्र चेदयश्च निषूदिताः।
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत।।
नरा विनिहताः सर्वे गजाश्च विनिपातिताः।
रथिनत्र नरव्याघ्र हयाश्च निहता युधि।।
निxxxx शिबिरं रावंजावकानां कृतं प्रभो।
पाण्डवानां च शूराणां समासाद्य परस्परम्।।
xxxx स्रीशेषमभवज्जगत्कालेन मोहितम्।
सप्त पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयोरथाः।।
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः।
कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः।।
एते शेषा महाराज रथिनो नृपसत्तम।
अक्षौहिणीनामष्टानां दशानां च न संशयः।।
एते शेषा महाराज सर्वेऽन्ये निधनं गताः।
कालेन निहतं सर्वं जगद्वै भरतर्षभ।
दुर्योधनं वै पुरतः कृत्वा सर्वे नरा हताः।।
वैशम्पायन उवाच।
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः।
निपपात स राजेन्द्रो गतसत्वो महीतले।।
तस्मिन्निपतिते वीरे विदुरोऽपि महायशाः।
निपपात महाराज शोकव्यसनकर्शितः।।
गान्धारी च महाभागा सर्वाश्च कुरुयोषितः।
पतिताः सहसा भूमौ श्रुत्वा घोरतरं वचः।।
निःसंज्ञं पतितं भूमौ तदाऽऽसीद्राजमण्डलम्।
विलापमुक्तोपहतं चित्रं न्यस्तं पटे यथा।।
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः।
शनैरलभत प्राणान्पुत्रव्यसनकर्शितः।।
लब्ध्वा तु स नृपः प्राणान्वेपमानः सुदुःखितः।
निरीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत्।।
विद्धि क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ।
ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः।
एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह।।
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन।
शीतैस्ते सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि।।
स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः।
तूष्णीमासीन्महीपालः पुत्रव्यसनकर्शितः।।
निःश्वसञ्जिह्मग इव कुम्भक्षिप्तोऽभवन्नृपः।।
सञ्जयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम्।
तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी।।
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत्।
धृतराष्ट्रो नरश्रेष्ठ मुह्यमानो मुहुर्मुहुः।।
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी।
तथेमे सुहृदः सर्वे मुह्यते मे मनो भृशम्।।
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ।
विसर्जयामास शनैर्मुह्यमानः पुनःपुनः।।
निश्चक्रमुस्ततः सर्वाः स्त्रियो भरतसत्तम।
सुहृदश्च तथा सर्वे दृष्ट्वा राजानमातुरम्।।
ततो नरपतिस्तत्र लब्ध्वा संज्ञां परन्तपः।
गतिर्मे को भवेदद्य इति चिन्तासमाकुलः।
अपृच्छत्सञ्जयं तत्र रोदमानं भृशातुरम्।।
प्राञ्जलिं सञ्जयं दृष्ट्वा रोदमानं मुहुर्मुहुः।
ज्ञातीन्स्त्रियोऽथ निर्याप्य प्रविश्य विदुरःपुनः।।
राजानं शोचमानस्तु तं शोचन्तं मुहुर्मुहुः।
समाश्वासयत क्षत्ता वचसा मधुरेण च।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
शल्यवधपर्वणि प्रथमोऽध्यायः।। 1 ।।