शल्यपर्व
अध्यायः १७
सञ्जय उवाच।
शल्येऽथ निहते राजन्मद्रराजपदानुगाः।
रथाः सप्तशता वीरा दुद्रुवुर्महतो बलात्।।
दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम्।
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः।
न गन्तव्यं न गन्तव्यमिति मद्रानवारयत्।।
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः।
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम्।।
ते तु शूरा महाराज कृतचित्ताश्च योधने।
धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः।।
श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम्।
मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः।।
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः।
पूरयन्रथघोषेण दिशः सर्वा महारथः।।
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ।
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः।।
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः।
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन्।।
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभैः।
क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा।
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः।।
पुरोवातेन गङ्गेव--क्षोभ्यमाणा महानदी।
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः।।
प्रस्कन्द्य सेनां महतीं महात्मानो महारथाः।
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः।
भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन।।
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः।
पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः।।
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः।
अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान्।।
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः।
सम्प्रदृश्यन्त समरे तावका निहताः परैः।।
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः।
वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत।।
दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन्।
न चास्य शासनं केचित्तत्र चक्रुर्महारथाः।।
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्।
दुर्योधनं महाराज वचनं वचनक्षमम्।।
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम्।
न युक्तमेतत्समरे त्वयि तिष्ठति भारत।।
सहितैर्नाम योद्धव्यमित्येष समयः कृतः।
अथ कस्मात्स्मरन्नेव घ्नतो मर्षयसे नृप।।
दुर्योधन उवाच।
वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम।
एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम्।।
शकुनिरुवाच।
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः।
अलं क्रोद्वुमथैतेषां नायं काल उपेक्षितुम्।।
यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः।
परित्रातुं महेष्वासान्मद्रराजपदानुगान्।।
अन्योन्यं परिरक्षामो यत्नेन महता नृप।
एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः।।
सञ्जय उवाच।
एवमुक्तस्तदा राजा बलेन महता वृतः।
प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम्।।
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत।
इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत।।
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान्।
सहितानभ्यवर्तन्तं गुल्ममास्थाय मध्यमम्।।
ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते।
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः।।
ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः।
हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे।।
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः।
पपात महती चोल्का मध्येनादित्यमण्डलम्।।
रथैर्भग्नयुगाक्षैश्च निहतैश्च महारथैः।
अश्वैर्निपातितैश्चैव सञ्छन्नाऽभूद्वसुन्धरा।।
वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः।
अकृष्यन्त महाराज योधास्तत्र रणाजिरे।।
भग्नचक्रान्रथान्केचिदहरंस्तुरगा रणे।
रथार्धं केचिदादाय दिशो दश विबभ्रमुः।
तत्रतत्र व्यदृश्यन्त योक्त्रैः श्लिष्टाः स्म वाजिनः।।
रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः।
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये।।
निहतेषु च शूरेषु मद्रराजानुगेषु वै।
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः।।
अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः।
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिःस्वनैः।।
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः।
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः।।
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत्।
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम्।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्।।
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः।
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः।।
।। इति श्रीमन्महाभारते
शल्यवपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे सप्तदशोऽध्यायः।। 17 ।।