शल्यपर्व

अध्यायः १६

Salya Parva (Sanskrit) · Adhyaya 16
अक्षर का आकार

सञ्जय उवाच।

तं भीमसेनश्च शिनेश्च नप्ता
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
समागतं भीमबलेन राज्ञा
पर्यापुरन्योन्यमथाह्वयन्त।।

ततस्तु शूराः समरे नरेन्द्र
नरेश्वरं प्राप्य युधां वरिष्ठम्।
आवार्य चैनं समरे नृवीरा
जघ्नुः शितैः पत्रिभिरुग्रवेगैः।।

संरक्षितो भीमसेनेन राजा
माद्रीसुताभ्यामथ माधवेन।
मद्राधिपं पत्रिभिरुग्रवेगैः
स्तनान्तरे धर्मसुतो निजघ्ने।।

ततो रणे तावकानां रथौघाः
समीक्ष्य मद्राधिपतिं शरार्तम्।
पर्यावव्रुः प्रवराः सर्वयोधा
दुर्योधनस्यानुमते पुरस्तात्।।

ततो द्रुतं मद्रजनाधिपो रणे
युधिष्ठिरं सप्तभिरभ्यविद्व्यत्।
तं चापि पार्थौ नवभिः पृषत्कै--
र्विव्याध राजंस्तुमुले महात्मा।।

आकर्णपूर्णायतसम्प्रयुक्तैः
शरैस्तदा संयति तैलधौतैः।
अन्योन्यमाच्छादयतां महारथौ
मद्राधिपश्चापि युधिष्ठिरश्च।।

ततस्तु तूर्णं समरे महारथौ
परस्परस्यान्तरमीक्षमाणौ।
शरैर्भृशं विव्यधतुर्नृपोत्तमौ
महबलौ शत्रुभिरप्रधृष्यौ।।

तयोर्धनुर्ज्यातलनिःस्वनो महा--
न्महेन्द्रवज्राशनितुल्यनिः स्वनः।
परस्परं बाणगणैर्महात्मनोः
प्रवर्षतोर्मद्रपपाण्डुवीरयोः।।

तौ चेरतुर्व्याघ्रशिशुप्रकाशौ
महावनेष्वामिषगृद्विनाविव।
विषाणिनौ नागवराविवोभौ
ततक्षतुः संयति जातदर्पौ।।

ततस्तु मद्राधिपतिर्महात्मा
युधिष्ठिरं भीमबलं प्रसह्य।
विव्याध वीरं हृदयेऽतिवेगं
शरेण सूर्याग्निसमप्रभेण।।

ततोऽतिविद्धोऽथ युधिष्ठिरोऽपि
सुसम्प्रयुक्तेन शरेण राजन्।
जघान मद्राधिपतिं महात्मा
मुदं च लेभे वृषभः कुरूणाम्।।

ततो मुहूर्तादिव पार्थिवेन्द्रो
लब्ध्वा संज्ञां क्रोधसंरक्तनेत्रः।
शरेण पार्थं त्वरितो जघान
सहस्रनेत्रप्रतिमप्रभावः।।

त्वरंस्ततो धर्मसुतो महात्मा
शल्यस्य कोपान्नवभिः पृषत्कैः।
भित्त्वा ह्युरस्तपनीयं च वर्म
जघान षड्भिस्त्वपरैः पृषत्कैः।।

ततस्तु मद्राधिपतिः प्रकृष्टं
धनुर्विकृष्य व्यसृजत्पृषत्कान्।
द्वाभ्यां शराभ्यां च तथैव राज्ञ--
श्चिच्छेद चापं कुरुपुङ्गवस्य।।

नवं ततोऽन्यत्समरे प्रगृह्य
राजा धनुर्धोरतरं महात्मा।
शल्यं तु विव्याध शरैः समन्ता--
द्यथा महेन्द्रो नमुचिं शिताग्रैः।।

ततस्तु शल्यो नवभिः पृषत्कै--
र्भीमस्य राज्ञश्च युधिष्ठिरस्य।
निकृत्य रौक्मे पटुवर्मणी तयो--
र्विदास्यामास भुजौ महात्मा।।

ततोऽपरेण ज्वलनार्कतेजसा
क्षुरेण राज्ञो धनुरुन्ममाथ।
कृपश्च तस्यैव जघान सूतं
षड्भिः शरैः सोऽभिमुखः पपात।।

मद्राधिपश्चापि युधिष्ठिरस्य
शरैश्चतुर्भिर्निजघान वाहान्।
वाहांश्च हत्वा व्यकरोन्महात्मा
योधक्षयं धर्मसुतस्य राज्ञः।।

`यदद्भुतं कर्म न शक्यमन्यैः
सुदुःसहं तत्कृतवन्तमेकम्।
शल्यो नरेन्द्रः सविषण्णभावा--
द्विचिन्तयामास मृदङ्गकेतुः।।

किमेतदिन्द्रावरजस्य वाक्यं
मोघं भवत्यद्य विधेर्बलेन।
जहीति शल्यं ह्यवदत्तदाऽऽजौ
न लोकनाथस्य वचोऽन्यथा स्यात्।।'

तथा कृते राजनि भीमसेनो
मद्राधिपस्याथ ततो महात्मा।
छित्त्वा धनुर्वेगवता शरेण
द्वाभ्यामविध्यत्सुभृशं नरेन्द्रम्।।

तथापरेणास्य जहार यन्तुः
कायाच्छिरः संहननीयमध्यात्।
जघान चाश्वांश्चतुरः सुशीघ्रं
तथा भृशं कुपितो भीमसेनः।।

तमग्रणीः सर्वधनुर्धराणा--
मेकं चरन्तं समरेऽतिवेगम्।
भीमः शतेन व्यकिरच्छराणां
माद्रीपुत्रः सहदेवस्तथैव।।

तैः सायकैर्मोहितं वीक्ष्य शल्यं
भीमः शरैरस्य चकर्त वर्म।
स भीमसेनेन निकृत्तवर्मा
मद्राधिपश्चर्म सहस्रतारम्।।

प्रगृह्य खङ्गं च रथान्महात्मा
प्रस्कन्द्य कुन्तीसुतमभ्यधावत्।
छित्त्वा रथेषां नकुलस्य सोऽथ
युधिष्ठिरं भीमबलोऽभ्यधावत्।।

तं चापि राजानमथोत्पतन्तं
क्रुद्धं यथैवान्तकमापतन्तम्।
धृष्टद्युम्नो द्रौपदेयाः शिखण्डी
शिनेश्च नप्ता सहसा परीयुः।।

अथास्य चर्माप्रतिमं न्यकृन्त--
द्भीमो महात्मा नवभिः पृषत्कैः।
खङ्गं च भल्लैर्निचकर्त मुष्टौ
नदन्प्रहृष्टस्तव सैन्यमध्ये।।

तत्कर्म भीमस्य समीक्ष्य हृष्टा--
स्ते पाण्डवानां प्रवरा रथौघाः।
नादं च चक्रुर्भृशमुत्स्मयन्तः
शङ्खांश्च दध्मुः शशिसन्निकाशान्।।

तेनाथ शब्देन विभीषणेन
तथाऽभितप्तं बलमप्रधृष्यम्।
स्वेदाभिभूतं रुधिरोक्षिताङ्गं
विसञ्ज्ञकल्पं च तदा विषण्णम्।।

स मद्रराजः सहसा विकीर्णो
भीमाग्रगैः पाण्डवयोधमुख्यैः।
युधिष्ठिरस्याभिमुखं जवेन
सिंहो यथा मृगहेतोः प्रयातः।।

स धर्मराजो निहताश्वसूतः
क्रोधेन दीप्तो ज्वलनप्रकाशः।
दृष्ट्वा च मद्राधिपतिं स्म तूर्णं
समभ्यधावत्तमरिं बलेन।।

गोविन्दवाक्यं त्वरितं विचिन्त्य
दध्रे मतिं शल्यविनाशनाय।
स धर्मराजो निहताश्वसूतो
रथे तिष्ठञ्शक्तिमथान्वकर्षत्।।

तच्चxx शल्यस्य निशाम्य कर्म
तमात्मनो भागमथावशिष्टम्।
कृत्वा मनः शल्यवधे महात्मा
यथोक्तमिन्द्रावरजस्य चक्रे।।

स धर्मराजो मणिहेमदण्डां
जग्राह शक्तिं कनकप्रकाशाम्।
नेत्रे च दीप्ते सहसा विवृत्य
मद्राधिपं क्रुद्धमना निरैक्षत्।।

निरीक्षितो धर्मसुतेन राज्ञा
षूतात्मना निर्हृतकल्मषेण।
आसीन्न यद्भस्मसान्मद्रराज--
स्तदद्भुतं मे प्रतिभाति राजन्।।

ततस्तु शक्तिं रचिरोग्रदण्डां
मणिप्रवेकोज्ज्वलितां प्रदीप्ताम्।
चिक्षेप वेगात्सुभृशं महात्मा
मद्राधिपाय प्रवरः कुरूणाम्।।

दीप्तामथैनां प्रहितां बलेन
सविस्फुलिङ्गां सहसापतन्तीम्।
प्रैक्षन्त सर्वे कुरवः समेता
दिवो युगान्ते महतीमिवोल्काम्।।

तां कालरात्रीमिव पाशहस्तां
यमस्य धात्रीमिव चोग्ररूपाम्।
स ब्रह्मदण्डप्रतिमाममोधां
ससर्ज यत्तो युधि धर्मराजः।।

गन्धस्रगग्र्यासनपानभोजनै--
रभ्यर्चितां पाण्डुसुतैः प्रयत्नात्।
सांवर्तकाग्निप्रतिमां ज्वलन्तीं
कृत्यामथर्वाङ्गिरसीमिवोग्राम्।।

ईशानहेतोः प्रतिनिर्मितां तां
त्वष्ट्रा रिपूणामसुदेहभक्ष्याम्।
भूम्यन्तरिक्षद्युजलाश्रयाणि
प्रसह्य भूतानि निहन्तुमीशाम्।।

घण्‍टापताकां मणिवज्रभूषां
वैदूर्यचित्रां तपनीयदण्डाम्।
त्वष्ट्रा प्रयत्नान्नियमेन क्लृप्तां
ब्रह्मद्विषामन्तकरीममाघाम्।।

बलप्रयत्नादनिरोधवेगां
मन्त्रैश्च घोरैरपि पूरयित्वा।
ससर्ज मार्गेण च तां खगानां
वधाय मद्राधिपतेस्तदानीम्।।

हतो ह्यसावित्यभिगर्जमानो
रुद्रोऽन्धकायान्तकरं यथेषुम्।
प्रसार्य बाहुं सुदृढं सुपाणिं
क्रोधेन नृत्यन्निव धर्मराजः।।

`स्फुरत्प्रभामण्डलिनोंशुजालै--
र्धर्मात्मनो मद्रविनाशकाले।
पुरत्रयप्रोत्सरणे पुरस्ता--
न्माहेश्वरं रूपमभूत्तदानीम्।।

आवर्तनाकुञ्चितबाहुदण्डः
सन्ध्याविहारी तनुवृत्तमध्यः।
विशालवक्षा भगवान्हरो यथा
सुदुर्निरीक्ष्योऽभवदर्जुनाग्रजः'।।

तां सर्वशक्त्या प्रहितां सुशक्तिं
युधिष्ठिरेणाप्रतिवार्यवीर्याम्।
प्रतिग्रहायाभिननन्द शल्यः
सम्यग्घुतामग्निरिवाज्यधाराम्।।

सा तस्य वर्माभिविदार्य शुभ्र--
मुरो विशालं च तथैव भित्त्वा।
विवेश गां तोयमिवाप्रसक्ता
यशो विशालं नृपतेर्हरन्ती।।

नासाक्षिकर्णास्यविनिः सृतेन
प्रस्यन्दता च व्रणसम्भवेन।
संसिक्तगात्रो रुधिरेण सोऽभू--
त्क्रौञ्चो यथा स्कन्दहतो महाद्रिः।।

प्रसार्य बाहू च रथाद्गतो गां
सञ्छिन्नवर्मा कुरुनन्दनेन।
महेन्द्रवाहप्रतिमो महात्मा
वज्राहतं शृङ्गमिवाचलस्य।।

ततो निपतितः सोऽभूदिन्द्रध्वज इवोच्छ्रितः।
बाहू प्रसार्याभिमुखो धर्मराजस्य मद्रराट्।
स तथा भिन्नसर्वाङ्गो रुधिरेण समुक्षितः।।

प्रत्युद्गत इव प्रेम्णा भूम्या स नरपुङ्गवः।
प्रियया कान्तया कान्तः पतमान इवोरसि।।

चिरं भुक्त्वा वसुमतीं प्रियां कान्तामिव प्रभुः।
सर्वैरङ्गैः समाश्लिष्य प्रसुप्त इव चाभवत्।।

धर्म्ये धर्मात्मना युद्वे निहतो धर्मसूनुना।
सम्यक्स्फीत इवोत्सृष्टः प्रशान्तोऽग्निरिवाध्वरे।।

शक्त्या विभिन्नहृदयं विप्रविद्धायुधध्वजम्।
संशान्तमपि मद्रेशं लक्ष्मीर्नैव विमुञ्चति।।

ततो युधिष्ठिरश्चापमादायेन्द्रधनुष्प्रभम्।
व्यधमद्द्विषतः सङ्ख्ये खगराडिव पन्नगान्।
देहान्सुनिशितैर्भल्लै रिपूणां नाशयन्क्षणात्।।

ततः पार्थस्य बाणौघैरावृताः सैनिकास्तव।
निमीलिताक्षाः क्षिण्वन्ति भृशमन्योन्यकर्शिताः।
क्षरन्तो रुधिरं देहैर्विशस्त्रायुधजीविताः।।

ततः शल्ये निपतिते मद्रराजानुजो युवा।
भ्रातुस्तुल्यो गुणैः सर्वै रथी पाण्डवमभ्ययात्।।

विव्याध च नरश्रेष्ठो नाराचैर्बहुभिस्त्वरन्।
हतस्यापचितिं भ्रातुश्चिकीषुर्युद्धदुर्मदः।।

तं विव्याधाशुगैः ष़ड्‌भिर्धर्मराजस्त्वरन्निव।
कार्मुकं चास्य चिच्छेद क्षुराभ्यां ध्वजमेव च।।

ततोऽस्य दीप्यमानेन सुदृढेन शितेन च।
प्रमुखे वर्तमानस्य भल्लेनापाहरच्छिरः।।

सकुण्डलं तद्ददृशे पतमानं शिरो रथात्।
पुण्यक्षयमनुप्राप्य पतन्स्वर्गादिव च्युतः।।

तस्यापकृत्तशीर्षं तु शरीरं पतितं रथात्।
रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत।।

विचित्रकवचे तस्मिन्हते मद्रनृपानुजे।
हाहाकारं प्रकुर्वाणाः कुरवोऽभिप्रदुद्रुवुः।।

शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः।
वित्रेसुः पाण्डवभयात्प्रविध्वस्तास्तदा भृशम्।।

तांस्तथा भज्यमानांस्तु कौरवान्भरतर्षभ।
शिनेर्नप्ताऽकिरन्बाणैरभ्यवर्तत सात्यकिः।।

तमायान्तं महेष्वासं दुष्प्रसह्यं दुरासदम्।
हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत्।।

तौ समेतौ महात्मानौ वार्ष्णेयौ वरवाजिनौ।
हार्दिक्यः सात्यकिश्चैव सिंहाविव बलोत्कटौ।।

इषुभिर्विमलाभासैश्छादयन्तौ परस्परम्।
अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ।।

चापमार्गबलोद्वूतान्मार्गणान्वृष्णिसिंहयोः।
आकाशगानपश्याम पतङ्गानिव शीघ्रगान्।।

सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः।
चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा।।

तन्निकृत्तं धनुःश्रेष्ठमपास्य शिनिपुङ्गवः।
अन्यदादत्त वेगेन धनुर्जलदनिःस्वनम्।।

तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्।
हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।।

ततो युगं रथेषां च च्छित्त्वा भल्लैः सुसंयतैः।
अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी।।

हार्दिक्यं विरथं दृष्ट्वा कृपः शारद्वतः प्रभो।
अपोवाह ततः क्षिप्रं रथमारोप्य वीर्यवान्।।

मद्रराजे हते राजन्विरथे कृतवर्मणि।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्।।

स्व परे नान्वबुध्यन्त सैन्येन रजसा वृते।
बलं तु हतभूयिष्ठं त्रस्तमासीत्पराङ्मुखम्।।

ततो मुहूर्तात्तेऽपश्यन्रजो भौमं समुत्थितम्।
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ।।

ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात्।
जवेनापततः पार्थानेकः सर्वानवारयत्।।

पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम्।
आनर्त्तं च दुराधर्षं शितैर्बाणैरवारयत्।।

तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम्।
अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत।।

ततो युधिष्ठिरो राजा त्वरमाणो महारथः।
चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः।
विव्याध गौतमं चापि ष़ड्‌भिर्भल्लैः सुतेजनैः।।

अश्वत्थामाः ततो राज्ञा हताश्वं विरथीकृतम्।
तमपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात्।।

ततः शारद्वतः षड्भिः प्रत्यविध्यद्युधिष्ठिरम्।
विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः।।

एवमेतन्महाराज युद्धशेषमवर्तत।
तव दुर्मन्त्रिते राजन्सहपुत्रस्य भारत।।

तस्मिन्महेष्वासधरे विशस्ते
सङ्ग्राममध्ये कुरुपुङ्गवेन।
पार्थाः समेताः परमप्रहृष्टाः
शङ्खान्प्रदध्मुर्हतमीक्ष्य शल्यम्।।

युधिष्ठिरं च प्रशशंसुराजौ
पुरा सुरा वृत्रवधे यथेन्द्रम्।
चक्रुश्च नानाविधवाद्यशब्दा--
न्निनादयन्तो वसुधां समन्तात्।।

।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे षोडशोऽध्यायः।। 16 ।।