शल्यपर्व
अध्यायः १२
सञ्जय उवाच।
पीडिते धर्मराजे तु मद्रराजेन मारिष।
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ।
परिवार्य रथैः शल्यं पीडयामासुराहवे।।
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः।
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः।।
आश्चर्यमित्यभाषन्त मुनयश्चापि सङ्गताः।।
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे।
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः।।
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया।
मद्रेश्वरमवाकीर्य सिंहनादमथानदत्।।
नकुलः पञ्चभिश्चैनं सहदेवश्च प़ञ्चभिः।
विद्ध्वा तं तु पुनस्तूर्णं ततो विव्याध सप्तभिः।।
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः।
विकृष्य कार्मुकं घोरं भारघ्नं वेगवत्तरम्।।
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष।
भीमसेनं तु सप्तत्या नकुलं सप्तभिस्तथा।।
ततः स विशिखं चापं सहदेवस्य धन्विनः।
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः।।
सहदेवस्तु समरे मातुलं भूरिवर्चसम्।
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत्।
शरैराशीविषाकारैर्ज्वलज्ज्वलनसन्निभैः।।
सारथिं चास्य समरे शरेणानतपर्वणा।
विव्याध भृशसङ्क्रुद्धस्तं वै भूयस्त्रिभिः शरैः।।
भीमसेनस्तु सप्तत्या सात्यकिर्नवभिः शरैः।
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समार्पयत्।।
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः।
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा।।
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः।
विव्याध तरसा राजंस्तदद्भुतमिवाभवत्।।
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष।
धनुश्चिच्छेद समरे सज्जयं स सुमहारथः।।
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः।
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः।।
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः।
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः।।
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते।
मद्राणामधिपं शूरं शरैर्विव्याध पञ्चभिः।।
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः।
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत्।।
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः।
तोमरं प्रेषयामास स्वर्णदण्डं महारणे।।
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्।
नकुलः समरे शक्तिं सहदेवो गदां शुभाम्।
धर्मराजः शतघ्नीं च जिघांसुः शल्यमाहवे।।
तानापतत एवाशु पञ्चानां वै भुजच्युतान्।
वारयामास समरे शस्त्रसङ्घैः स मद्रराट्।।
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्।
प्रहितं भीमसेनेन शरं कनकभूषणम्।।
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्।
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्।।
गदां च सहदेवेन शरौघैः समवारयत्।
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत।।
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च।
नामृष्यत्तत्र शैनेयः शत्रोर्विजयमाहवे।।
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्च्छितः।
द्वाभ्यां मद्रेश्वरं विद्वा सारथिं च त्रिभिः शरैः।।
ततः शल्यो रणे राजन्सर्वांस्तान्दशभिः शरैः।
विव्याध भृशसङ्क्रुद्धस्तोत्रैरिव महाद्विपान्।।
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः।
न शेकुः सम्मुखे स्थातुं तस्य शत्रुनिषूदनाः।।
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्।
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्।
`तथाविधं महाराज मद्रराजस्य विक्रमम्।
असह्यं मानवैर्युद्धे तद्बभूव नरर्षभ।।'
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान्।
सन्त्यज्य मनसा प्राणान्मद्राधिपमयोधयत्।।
नकुलः सहदेवश्च सात्यकिश्च महारथः।
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः।।
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथः।
वृतस्तान्योधयामास मद्रराजः प्रतापवान्।।
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे।
चक्ररक्षं जघानाशु मद्रराजस्य पार्थिवः।।
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे।
मद्रराजोऽपि बलवान्सैनिकानावृणोच्छरैः।।
समावृतांस्ततस्तांस्तु राजन्वीक्ष्य स्वसैनिकान्।
चिन्तयामास समरे धर्मपुत्रो युधिष्ठिरः।।
कथं नु न भवेत्सत्यं तन्माधववचो महत्।
अपि क्रुद्धो रणे राजन्क्षपयेत बलं मम।।
`अहं मद्धातरश्चैव सात्यकिश्च महारथः।
पाञ्चालाः सृञ्जयाश्चैव न शक्तास्म हि मद्रपम्।।
निहनिष्यति चैवाद्य मातुलोऽस्मान्महाबलः।
गोविन्दवचनं सत्यं कथं भवति किन्त्विदम्।।
ततः सरथनागाश्वा पाण्डवाः पाण्डुपूर्वज।
मद्रराजं समासेदुः पीडयन्तः समन्ततः।।
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुद्यताम्।
व्यधमत्समरे राजा महाभ्राणीव मारुतः।।
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम्।
शरवृष्टिमपश्याम शलभानामिवायतिम्।।
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि।
सम्पतन्तः स्म दृश्यन्ते शलभानां व्रजा इव।।
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः।
निरन्तरमिवाकाशं सम्बभूव जनाधिप।।
न पाण्डवानां नास्माकं तत्र किञ्चिद्व्यदृश्यत।
बाणान्धकारे महति कृते तत्र महाहवे।।
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः।
चाल्यमानं तु तं दृष्ट्वा पाण्डवानां बलार्णवम्।
विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः।।
स तु तान्सर्वतो यत्ताञ्शरैः सञ्छाद्य मारिष।
धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः।।
ते च्छन्नाः समरे तेन पाण्डवानां महारथाः।
नाशक्नुवंस्तदा युद्धे प्रत्युद्यातुं महारथम्।।
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः।
निजघ्नुः समरे शूरंशल्यमाहवशोभिनम्।।
।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे द्वादशोऽध्यायः।। 12 ।।