शल्यपर्व

अध्यायः ११

Salya Parva (Sanskrit) · Adhyaya 11
अक्षर का आकार

सञ्जय उवाच।

तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम्।
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु।।

कूजतां स्तनतां चैव पदातीनां महाहवे।
निहतेषु महाराज हयेषु बहुधा तदा।।

प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम्।
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे।।

हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने।
गाहमानेषु योधेषु परस्परवधैषिषु।।

प्राणादाने महाघोरे वर्तमाने दुरोदरे।
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने।।

पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः।
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान्।।

तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे।
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति।।

लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना।
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम्।।

बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः।
कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला।।

तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम्।
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति।।

मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम्।
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः।।

पाण्डवा अपि भूपाल समरे जितकाशिनः।
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः।।

ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः।
अर्दयामास तां सेनां धर्मराजस्य पश्यतः।।

प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः।
चचाल शब्दं कुर्वाणा मही चापि सपर्वता।।

[सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः।]
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम्।।

मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते।
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप।।

[भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ।
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम्।।

शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती।
शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु]।।

ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम्।
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप।।

अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम्।
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक्।।

अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम्।
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः।।

द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ।
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च।।

एकैकं दशभिर्बाणैर्विव्याध स महाबलः।
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव।।

ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः।
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः।।

भ्रमराणामिव व्राताः शलभानामिव व्रजाः।
हादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः।।

द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा।
शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा।।

आविष्ट इव मद्रेशो मन्युना पौरुषेण च।
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः।
विनर्दमानो मद्रेशो मेघहादो महाबलः।।

सा वध्यमाना शल्येन पाण्डवानामनीकिनी।
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम्।।

तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः।
बाणवर्षेण महता युधिष्ठिरमताडयत्।।

तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः।
अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः।।

तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम्।
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम्।।

ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः।
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः।।

द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः।
अभ्यवर्षन्महाराज मेघा इव महीधस्म्।।

ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः।
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम्।।

उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः।
समागम्याथ शनकैरश्वत्थामा महाबलः।
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे।।

भीमसेनं त्रिभिर्विद्धा कृतवर्मा शिलीमुखैः।
बाणवर्षेण महता क्रुद्धरूपमवारयत्।
धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत्।।

द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात्।।

दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ।
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली।।

एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह।
घोररूपाणि चित्राणि तत्रतत्र विशाम्पते।।

ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे।
सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः।
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत।।

प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट्।
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत्।।

गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत्।
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम्।।

द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः।
अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव।।

[पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे।
सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः।।

कालो दण्‍डमिवोद्यम्य गदां क्रुद्धो महाबलः।
पोथयामास तुरगान्रथं च कृतवर्मणः।
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत्।।]

शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान्।
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत्।।

तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम्।
विनाशायाभिसन्धाय गदामादाय वीर्यवान्।।

यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम्।
गजवाजिमनुष्याणां देहान्तकरणीमति।।

हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव।
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम्।।

चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव।
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव।।

पटुघण्टाशतरवां वासवीमशनीमिव।
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि।।

त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम्।
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम्।।

यया कैलासभवने महेश्वरसखं बली।
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम्।।

यया मायामयान्दृप्तान्सुबहून्धनदालये।
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः।
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः।।

तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम्।
समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे।।

गदया युद्धकुशलस्तया दारुणनादया।
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान्।।

ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम्।
निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात्।।

वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम्।
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि।।

स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः।
पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत्।।

कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः।
गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत।।

ततः सुमनसः पार्था भीमसेनमपूजयन्।
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः।।

।। इति श्रीमन्महाभारते
शल्यपर्वणि शल्यवधपर्वणि
अष्टादशदिवसयुद्धे दशमोऽध्यायः।। 10 ।।