सभापर्व
अध्यायः ६६
भीष्म उवाच।।
चेदिराजकुले जातख्यक्ष एष चतुर्भुजः।
रासभारावसदृशं ररास च ननाद च।।
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ।
वैकृतं तस्यत तौ दृष्ट्वा त्यागायाकुरुतां मतिम्।।
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्।
चिन्तासंमूढहृदयं वागुवाचाशरीरेणी।।
एष ते नृपते पुत्रः श्रीमाञ्जातो बलाधिकः।
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम्।।
न च वै तस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः।
यश्च शस्त्रेण हन्ताऽस्य स चोत्पन्नो नराधिप।।
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः।
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत्।।
येनेदमीरितं वाक्यं ममैतं तनयं प्रति।
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः।।
याथातथ्येन भगवान्देवो वा यदि वेतरः।
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति।।
अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः।
यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ।।
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ।
तृतीयमेतद्बालस्य ललाटस्थं तु लोचनम्।।
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति।
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्।।
पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः।
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः।।
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा।
एवं राजसहस्राणा पृथक्त्वेन यथाक्रमम्।।
शिशुरङ्के समारूढो न तत्प्राय निदर्शनम्।
एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ।।
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ।
यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्तदा।।
अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम्।
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ।।
साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः।
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम्।।
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ।
पेततुस्तच्च नयनं न्यमज्जत ललाटजम्।।
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत।
ददस्व मे वरं कृष्ण भयार्ताया महाभुज।।
त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः।
एवमुक्तस्ततः कृष्णः सोऽब्रवीद्यदुनन्दनः।।
मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव।
ददामि कं वरं किं च करवाणि पितृष्वसः।।
शक्यं वा यदि वाऽशक्यं करिष्याणि वचस्तव।
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम्।।
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल।
मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो।।
कृष्ण उवाच।
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः।
पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः।।
भीष्म उवाच।
`स जानन्नात्मनो मृत्युं कृष्णं यदुसुखावहम्'।
एवमेष नृपः पापः शिशुपाः सुमन्दधीः।
त्वां समाह्वयते वीर गोविन्दवरदर्पितः।।
।। इति श्रीमन्महाभारते सभापर्वणि
शिशुपालवधपर्वणि षट्षष्टितमोऽध्यायः।। 66 ।।