सभापर्व
अध्यायः ६५
शिशुपाल उवाच।
स मे बहुमतो राजा जरासन्धो महाबलः।
योऽनेन युद्धं नेयेष दाक्षोऽयमिति संयुगे।।
केशवेन कृतं कर्म जरासन्धवधे तदा।
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते।।
उद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना।
दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः।।
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता।
प्रेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने।।
भुज्यतामिति तेनोक्ताः कृष्णबीमधनञ्जयाटः।
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम्।।
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे।
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति।।
इदं त्वाश्चर्यभूतं मे यदिभे पाण्डवास्त्वया।
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति।।
अथवा नैतदाश्चर्यं येषां त्वमसि भारत।
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः।।
वैशम्पायन उवाच।।
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु।
चकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्।।
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते।
भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः।।
त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव।।
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम्।
युगान्ते सर्वभूतानि कालस्येव जिघत्सतः।।
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन्।
भीष्म एव महाबाहुर्महासेनमिवेश्वरः।।
तस्व भीमस्य भीष्मेण वार्यमाणस्य भारत।
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः।।
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः।
समुद्वृत्तो घनापाये वेलामिव महोदधिः।।
शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप।
नाकम्पत तदा वीरः पौरुषे व्यवस्थितः।।
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः।
न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा।।
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्।
भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम्।।
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपः।
मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना।।
ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः।
भीमसेनमुवाचेदं भीष्मे मतिमतां वरः।।
`नैषा चेदिपतेर्बुद्धिर्यत्त्वामाह्वयतेऽच्युतम्।
भीमसेन महाबाहो कृष्णस्यैव विनिश्चयः'।।
।। इति श्रीमन्महाभारते सभापर्वणि
शिशुपालवधपर्वणि पञ्चषष्टितमोऽध्यायः।।65।।