सभापर्व

अध्यायः ३७

Sabha Parva (Sanskrit) · Adhyaya 37
अक्षर का आकार

वैशम्पायन उवाच।।

तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा।
पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः।।

ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत।
समादाय महार्हाणि रत्नानि विविधानि च।।

तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा।
राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ।।

बहु वित्तं समादाय विविधं पार्थिवा ययुः।
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम्।।

स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः।
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः।।

प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा।
धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम्।।

दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत्।।

सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः।
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः।।

धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः।
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते।
गान्धारराजः सुबलः शकुनिश्च महाबलः।।

अचलो वृषकश्चैव कर्णश्च रथिनां वरः।
तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः।।

सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः।
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः।।

यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः।
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः।।

स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः।
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः।।

पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा।
आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा।।

द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा।
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः।।

बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते।
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः।।

राजानो राजपुत्राश्च नानाजनपदेश्वराः।
शिशुपालो महावीर्यः सह पुत्रेण भारत।।

आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः।
रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः।।

गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्।
उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा।।

वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः।
एते चान्ये च बहवो राजानो मध्यदेशजाः।।

आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्।
ददुस्तेषामावसथान्धर्मराजस्य शासनात्।।

बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान्।
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम्।।

सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः।
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान्।।

सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः।
सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान्।।

सुखारोहणसोपानान्महासनपरिच्छदान्।
स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः।।

हंसेन्दुवर्णसदृशानायोजनसुदर्शनान्।
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः।।

बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव।
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम्।।

वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम्।
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः।
भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः।।

।। इति श्रीमन्महाभारते सभापर्वणि
दिग्विजयपर्वणि सप्तत्रिंशोऽध्यायः।। 37।।