सभापर्व
अध्यायः ३६
वैशम्पायन उवाच।।
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्।
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः।।
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्।
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्।।
सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक्।
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः।।
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्।
राजवल्लभतश्चैव नाश्रूयन्त मृषागिरः।।
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्।
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे।।
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्।
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथञ्चनः।।
धर्मैर्धनागमैस्तस्य ववधे निचयो महान्।
कर्तुं यस्य न शक्येन क्षयो वर्षशतैरपि।।
स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः।
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे।।
सुहृदश्चैव ये सर्वे पृथक्च सहचाब्रुवन्।
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम्।।
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः।
ऋषिः पुराणो वेदात्मा दृश्यश्चैव विजानताम्।।
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह।
भूतभव्यभवन्नाथः केशवः केशिसूदनः।।
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा।
बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम्।।
उच्चावचमुपादाय धर्मराजाय माधवः।
धनौघं पुरुषव्याघ्रो बलेन महता वृतः।।
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्।
नादयन्रथघोषेण प्रविशेश पुरोत्तमम्।।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्।
असूर्यमिव सूर्येण निवातमिव वायुना।
कृष्णेन समुपेतेन जहृषे भारतं पुरम्।।
तं मुदाऽभिसमागम्य सत्कृत्य च यथाविधि।
स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः।।
म्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभः।
भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत्।।
युधिष्ठिर उवाच।।
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते।
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्।।
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत।
उपयोक्तुं द्विजाग्र्येभ्यो हव्यवाहे च माधव।।
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया।
अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि।।
तद्दीक्षापय गोविन्द त्वमात्मानं महाभुज।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्।।
मां वाप्यभ्यनुजानीह सहैभिरनुजैर्विभो।
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्।।
वैशम्पायन उवाच।
तं कृष्णःस प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्।
त्वमेव राजशार्दूल रम्राडर्हो महाक्रतुम्।
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्।।
यदस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते।
नियुङ्क्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः।।
युधिष्ठिर उवाच।
सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम।
यस्यमे त्वं हृषीकेश यथेप्सितमुपस्थितः।।
वैशम्पायन उवाच।
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह।
ईजितुं राजसूयेन साधनान्युपचक्रमे।।
ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः।
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः।।
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्व्जातिभिः।
यथोपकरणं सर्वं मङ्गलानि च सर्वशः।।
अधियज्ञांश्च सम्भारान्दौम्योक्तान्क्षिप्रमेव हि।
समानयन्तु पुरुषा यथायोगं यथाक्रमम्।।
इन्द्रसेनो विशोकश्च पूरश्चार्जुनसारथिः।
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया।।
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः।
मनोरथप्रीतिकरा द्विजानां कुरुसत्तम।।
वैशम्पायन उवाच।।
तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत्।
सहदेवो युधां श्रेष्ठो धर्मराजो युधिष्ठिरे।।
ततो द्वैपायनो राजन्नृत्विजः समुपानयत्।
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान्।।
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः।
धनञ्जयानामृषभः सुसामा सामगोऽभवत्।।
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः।
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत्।।
एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ।
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः।।
ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम्।
शास्त्रोक्तं पूजयामासुस्तद्देवयजनं महत्।।
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः।
गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम्।।
तत आज्ञापयामास स राजा राजसत्तमः।
सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः।।
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम्।
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा।।
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानथ।
विनाश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च।।
वैशम्पायन उवाच।।
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात्।
आमन्त्रयाम्बभूवुस्ते प्रेषयामास चापरान्।।
दूताश्च वाहनैर्जग्भू राष्ट्राणि सुबहून्यपि।
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्।।
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ।
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च।
भ्रातृणां चैव सर्वेणां येऽनुरक्ता युधिष्ठिरे।।
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्।
दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत।।
`ज्येष्ठामूले अमावास्यां मृगाजिनसमावृतः।
रौरवाजिनसंवीतो नवनीताक्तदेहवान्'।।
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः।
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः।।
भातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह।
क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः।।
अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव।
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः।।
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः।
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्।।
बह्वन्नाच्छादनैर्युक्तान्सगणानां पृथक् पृथक्।
सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः।।
तेषु ते न्यवसन्राजन्ब्राह्मणा नृपसत्कृताः।
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान्।।
भुञ्जतां चैव विप्राणां वदतां च महास्वनः।
अनिशं श्रूयते तत्र मुदितानां महात्मनाम्।।
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति।
एवम्प्रकाराः सञ्जल्पाः श्रूयन्तेस्मात्र नित्यशः।।
गवां शतसहस्राणि शयनानां च भारत।
रुक्मस्य योषितां चैव धर्मराजः पृथक् ददौ।।
प्रावर्ततैव यज्ञः स पाण्डवस्य महात्मनः।
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे।।
।। इति श्रीमन्महाभारते सभापर्वणि
दिग्विजयपर्वणि षट्त्रिंशोऽध्यायः।। 36।।