सभापर्व

अध्यायः २१

Sabha Parva (Sanskrit) · Adhyaya 21
अक्षर का आकार

वासुदेव उवाच।।

एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान्।
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः।।

वैहारो विपुलः शैलो वाराहो वृषभस्तथा।
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः।।

एते पञ्चमहाशृङ्गाः पर्वताः शीतलद्रुमाः।
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्।।

पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः।
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः।।

`यत्र दीर्घतमा नाम ऋषिः परमन्त्रितः'।
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः।
औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः।।

गौतमः प्रणयात्तस्माद्यथाऽसौ तत्र सद्मनि।
भजते मागधं वंशं स नृपाणामनुग्रहः।

अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः।
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन।।

वनराजीस्तु पश्येमाः पिप्लानां मनोरमाः।
लोघ्राणां च शुभाः पार्थ गौतमौकः समीपजाः।।

अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ।
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः।।

अपारिहार्या मेघानां मागधा मनुना कृताः।
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम्।।

`पाण्डरे विपुले चैव तथा वाराहकेऽपि च।
चैत्यके चज गिरिश्रेष्ठे मादङ्गे च शिलोच्चये।।

एतेषु पर्वतेन्द्रेषु सर्वसिद्धसमालयाः।
यतीनामाश्रमाश्चैव मुनीनां च महात्मनाम्।।

वृषभस्य तमालस्य महावीर्यस्य वै तथा।
गन्धर्वरक्षसां चैव नागानां च तथाऽऽलयाः।।

कक्षीवतस्तपोवीर्यात्तपोदा इति विश्रुताः।
पुण्यतीर्थाश्च ते सर्वे सिद्धानां चैव कीर्तिताः।
मणेश्च दर्शनादेव भद्रं शिवमवाप्नुयात्'।।

एवं प्राप्य पुरं रम्यं दुराधर्पं समन्ततः।।
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते।।

वयमासादने तस्य दर्पमद्य हरेम हि।

वैशम्पायन उवाच।

एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः।।

वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम्।
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम्।।

स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजतम्।
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्।।

बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः।
मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन्।।

यत्र मांसादमृषभमाससाद बृहद्रथः।
तं हत्वा मासतालाभिस्तिस्रो भेरीकारयत्।।

स्वपुरे स्थापयामास तेन चानह्य चर्मणा।
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः।।

भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन्।
द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तधा।।

मागधानां सुरुचिरं चैत्यकं तं समाद्रवन्।
शिरसीव समाघ्नन्तो जरासन्धं जिघांस्वः।।

स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम्।
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम्।।

विपुलैर्बाहुभिर्वीरस्तेऽभिहत्याभ्यपातयन्।
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा।।

एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः।
दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन्।।

पर्युग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः।
ततस्तच्छान्तये राजा जरासन्धः प्रतापवान्।
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत्।।

स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः।
युयुत्सवः प्रविविशुर्जरासन्धेन भारत।।

भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्।
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनाम्।।

तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः।
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः।
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः।।

`कर्पूरशृङ्गं कोष्ठं च सफलं चान्तरापणे।
वैश्याद्बलाद्गृहीत्वा ते विहृत्य च महारथाः'।।

विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः।
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः।।

गोवासमिव वीक्षन्तः सिंहा हैमवता यथा।
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः।।

अशोभन्त महाराज बाहवो युद्धशालिनाम्।
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्दानिवोद्गतान्।।

व्यूढोरस्कान्मागधानां विस्मयः समपद्यत।
`अद्वारेणाभ्यवस्कन्द्य विविशुर्मागधालयम्'।।

ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः।
अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः।।

`भो शब्देनैव राजानमुचुस्ते तु महारथाः'।
तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान्।
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि।।

उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः।
मौनमासीत्तदा पार्थभीमयोर्जनमेजय।।

तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्।
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः।।

अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः।
यज्ञागारे स्थापयित्वा राजा राजगृहं वदिष्यतः।

ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः।
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्।।

स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः।
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत।।

तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः।
उपतस्थे जरान्धो विस्मितश्चाभवत्तदा।।

ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः।
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम।।

स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः।
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम्।।

तानब्रवीञ्जरासन्धस्तथा पाण्डवयादवान्।
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान्।।

अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः।
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः।।

तानुवाच जरासन्धः सत्यसन्धो नराधिपः।
विगर्हमाणः कौरव्य वेषग्रहणवैकृतान्।।
न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः।।

भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः।
के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः।।

बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ।
एवं विरागवसना बहिर्माल्यानुलेपनाः।।

`क्षत्रिया एव लोकेऽस्मिन्विदिता मम सर्वशः'।।
सत्यं वदत के यूयं सत्यं राजसु शोभते।।

चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह सद्मनि।
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात्।।

वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः।
कर्म चैतद्विलिङ्गस्थं किं वोऽद्य प्रसमीक्षितम्।।

एवं च मामुपास्थाय कस्माच्च विधिर्नाहणाम्।
प्रणीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे।।

वैशम्पायन उवाच।

एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः।
स्निग्धगमभीरया वाचा वाक्यं वाक्यविशारदः।।
xकृष्ण उवाच।

स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप।
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः।।

विशेषनियमाश्चैषामविशेषाश्च सन्त्युत।
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति।।

पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्।
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्।।
अम्प्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम्।।

स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत्।
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयटः।।

अद्वारेण रिम्पोर्गेहं द्वारेण सुहृदो गृहान्।
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः।।

कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्।
प्रतिगृह्णीम् तद्विद्वि एतन्नः शाश्वतं व्रतम्।।

।। इति श्रीमन्महाभारते सभापर्वणि
जरासन्धवधपर्वणि एकविंशोऽध्यायः।। 21।।