सभापर्व
अध्यायः १७
वासुदेव उवाच।।
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च।
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता।।
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा।
न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम।।
एतावदेव पुरुषैः कार्यं हृदयतोषणम्।
नयेन विधिदृष्टेन यदुपक्रमते परान्।।
सुनयस्यानपायस्य संयोगे परमः क्रमः।
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः।।
अनयस्यानुपायस्य संयुगे परमः क्षयटः।
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः।।
ते वयं नयमास्थाय शत्रुदेशसमीपगाः।
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः।।
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः।।
व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह।
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते।।
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत्।
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे।।
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः।
अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये।।
अथवैनं निहत्याजौ शेषेणापि समाहताः।
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः।।
युधिष्ठिर उवाच।।
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः।
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा।।
कृष्ण उवाच।।
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः।
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः।।
अक्षौहिणीनां तिसृणां पतिः समरदर्पितः।
राजा बृहद्रथो नाम मगधाधिपतिर्बली।।
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः।
नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः।।
तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः।
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः।।
`स्वराज्यं कारयामास मगधेषु गिरिव्रजे'।
तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम।
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः।।
स काशिराजस्य सुते यमजे भरतर्षभः।
उपयेमे महावीर्यो रूपद्रविणसंयुते।
तयोश्चकार समयं मिथः स पुरुषर्षभः।।
नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा।
स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः।।
प्रियाम्भामनुरूपाभ्यां करेणुभ्यामिव द्विपः।
तयोर्मध्यगतश्चापि रराज वसुधाधिपः।।
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः।
विषयेषु निमग्रस्य तस्य यौवनमत्यगात्।।
न च वंशकरः पुत्रस्तस्याजायत कश्चन।
मङ्गलैर्बभिर्होमैः पुत्रकामाभिरिष्टिभिः।।
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्।
स भार्याभ्यां च सहितो निर्वेदमगमद्धृशम्।।
`राज्यं चापि परित्यज्य तपोवनमथाश्रयत्। '
वार्यमाणः प्रकृतिभिर्नृपभक्त्या विशाम्पते'।।
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः।।
शुश्राव तपसि श्रेष्ठमुदारं चण्डकौशिकम्।।
यदृच्छयाऽऽगतं तं तु वृक्षमूलमुपाश्रितम्।
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत्।।
`बृहद्रथं च स ऋषिर्यथावच्चाभ्यनन्दत। '
उपविष्टः स तेनाथ अनुज्ञातो महात्मना।।
तमपृच्छत्तदा विप्रः किमागमनमित्यथ।
विप्रैरनुगतस्यैव पत्नीभ्यां सहितस्य च।।
स उवाच मुनिं राजा भगवन्नास्ति मे सुतः।
अपुत्रस्य तु राज्येन वृद्धत्वे किं प्रयोजनम्।।
सोऽहं तपश्चरिष्यामि पत्नीभ्यां सहितो वने।
नाप्रजस्य मुने किर्तिः स्वधा चैवाक्षया भवेत्।
एवमुक्तः स राज्ञा तु मुनिः कारुण्यमागतः।।
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः।
परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत।।
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः।
पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा।।
राजोवाच।।
भगवन् राज्यमुत्सृज्य प्रस्थितस्य तपोवनम्।
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे।।
कृष्ण उवाच।
एतच्छ्रुत्वा मुनिर्ध्यानमगमन्क्षुभितेन्द्रियः।
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत।।
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह।
अवानमशुकादष्टमेकमाम्रफलं किल।।
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च।
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम्।।
उवाच च महाप्राज्ञस्तं राजानं महामुनिः।
गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप।।
`एष ते तनयो राजन्मा तपेह तपोवने।
प्रजाः पालय धर्मेण एव धर्मो महीक्षिताम्।।
यजस्व विविधैर्यज्ञैरिन्द्रं तर्पय चेन्दुना।
पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रममाव्रज।।
अष्टौ वरान्प्रयच्छामि तव पुत्रस्य पार्थिव।
ब्रह्मण्यत्वमजेयत्वं युद्धेषु च तथा मतिः।।
प्रियातिथेयतां चैव दीनानामन्ववेक्षणम्।
तथा बलं च सुभहल्लोके कीर्ति च शाश्वतीम्।।
अनुरागं प्रजानां चेत्येवमष्टौ वरान्नृप।
गच्छ त्वं कृतकृत्योऽसि निवर्तस्व जनाधिप'।।
अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः।
पौरैरनुगतश्चापि विवेश स्वपुरं ततः।।
यथासमयमाज्ञाय तदा स नृपसत्तमः।
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ।।
मुनेश्च बहुमानेन कालस्य च विपर्ययात्।
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे।
तयोः समभवद्गर्भः फलप्राशनसम्भवः।
ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह।।
अथ काले महाप्राज्ञ यथासमयमागते।
जायेतामुभे राजञ्शरीरशकले तदा।।
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे।
दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम्।।
उद्विग्रे सह संमन्त्र्य ते भगित्यौ तदाऽबले।
सजीवे प्राणिशकले तत्यजाते सुदुःखिते।।
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे।
निर्गम्यान्तः पुरद्वारात्समुत्सृज्याभिजग्मतुः।।
`दुकूलाभ्यां सुसञ्छन्ने पाण्डराभ्यामुभे तदा।
अज्ञाते कस्यचित्ते तु जहतुस्ते चतुष्पथे।।
ततो विविशतुर्धात्र्यौ पुनरन्तः पुरं तदा।
कथयामासतुरुभे देवीभ्यां तु पृथक्पृथक्'।।
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी।
जग्राह मनुजव्याघ्र मांसशोणितभोजना।।
कर्तुकामा सुखवहे शकले सा तु राक्षसी।
संयोजयामास तदा विधानबलचोदिता।।
ते समानीतमात्रे तु शकले पुरुषर्षभ।
एकमूर्तिधरो वीरः कुमारः समपद्यत।।
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना।
न शशाक समुद्वोदुं वज्रसारमयं शिशुम्।।
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः।
प्राक्रोशदतिसंरब्धः सतोय इव तोयदः।।
तेन शब्देन सम्भ्रान्तः सहसाऽन्तः पुरे जनः।
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप।।
ते चाबले परिम्लाने पयः पूर्णपयोधरे।
निराशे पुत्रलाभाय सहसैवाब्यगच्छताम्।।
ते च दृष्ट्वा तथाभूते राजानं चेष्टसंततिम्।
तं च बालं सुबलिनं चिन्तयामास राक्षसी।।
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः।
बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः।।
सा तं बालमुपादाय मेघलेखेन भास्करम्।
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम्।।
बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम्।
तव पत्नीद्वये जातो द्विजातिवरशासनात्।
धात्रीजनपरित्यक्तो मयाऽयं परिरक्षितः।।
कृष्ण उवाच।
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे।
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम्।।
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च।
अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम्।।
कात्वं कमलगर्भाभे मम पुत्रप्रदायिनी।
कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे।।
।। इति श्रीमन्महाभारते सभापर्वणि
मन्त्रपर्वणि सप्तदशोऽध्यायः।। 17।।