सभापर्व
अध्यायः १६
युधिष्ठिर उवाच।।
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्।।
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्।।
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्।
यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम्।।
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते।
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम।।
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम।
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन।
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः।।
वैशम्पायन उवाच।।
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी।
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत।।
अर्जुन उवाच।
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्।
प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्।
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते।
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति।
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते।।
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये।
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून्।।
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति।
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्।।
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते।।
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः।।
दैन्यं यथा बलवति तथा मोहो बलान्विते।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना।।
जरासन्धिविनाशं च राज्ञां च परिरक्षणम्।
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत्।।
अनारम्भे हि नियतो भवेदगुणनिश्चयः।
गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम्।।
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्।
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्।।
।। इति श्रीमन्महाभारते
सभापर्वणि षोडशोऽध्यायः।। 16।।