कर्णपर्व
अध्यायः ९८
सञ्जय उवाच।
अथाब्रवीद्वासुदेवो महात्मा
राधेय दिष्ट्या स्मरसीह धर्मम्।
`धर्मे हि बद्धा सततं हि पार्था--
स्तेभ्यस्ततो वृद्धिसौ ददाति।।
धर्मादपेताः परिपन्थिनस्ते
तस्माद्गता वै कुरवो विनाशम्'।
प्रायेण नीचा व्यसनेषु मग्ना
निन्दन्ति दैवं न तु दुष्कृतं स्वम्।।
कृष्णां सभां कर्ण यदेकवस्त्रा--
मानीतवांस्त्वं च सुयोधनश्च।
दुःशासनः शकुनिः सौबलश्च।
धर्मस्तदा ते रुचितो न कस्मात्।।
यदा सभायां राजानमनक्षज्ञं युधिष्ठिरम्।
आनीय जितवन्तो वै क्व ते धर्मस्तदा गतः।।
वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे।
न प्रयच्छसि यद्राज्यं क्व ते धर्मस्तदा गतः।।
यद्भीमसेनं सर्पैश्च विषयुक्तैश्च भोजनैः।
आचरत्त्वन्मते राजा क्व ते धर्मस्तदा गतः।।
यद्वारणावते पार्थान्सुप्ताञ्जतुगृहे तदा।
हन्तुकामास्तदा यूयं क्व ते धर्मस्तदा गतः।।
यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम्।
सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः।।
यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम्।
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः।।
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः।
पतिमन्यं वृणीष्वेति वदंस्त्वं गजगामिनीम्।
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः।।
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवान्।
यदा शकुनिमाश्रित्य क्व ते धर्मस्तदा गतः।।
यदाऽभिमन्युं बहवो युद्धे जघ्नुर्महारथाः।
परिवार्य रणे बालं क्व ते धर्मस्तदा गतः।।
[यद्येष धर्मस्तत्र न विद्यते हि
किं सर्वथा तालुविशोषणेन।
अद्येह धर्म्याणि विधत्स्व सूत
तथापि जीवन्न विमोक्ष्यसे हि।।
नलो ह्यक्षैर्निर्जितः पुष्करेण
पुनर्यशो राज्यमवाप वीर्यात्।
प्राप्तास्तथा पाण्डवा बाहुवीर्या--
त्सर्वैः समेताः परिवृत्तलोभाः।।
निहत्य शत्रून्समरे प्रवृद्धा--
न्ससोमका राज्यमवाप्नुयुस्ते।
तथा गता धार्तराष्ट्रा विनाशं
धर्माभिगुप्तैः सततं नृसिंहैः]।।
सञ्जय उवाच।
एवमुक्तस्तदा कर्णो वासुदेवेन भारत।
लज्जयावनतो भूत्वा नोत्तरं किञ्चिदुक्तवान्।।
क्रोधात्प्रस्फुरमाणौष्ठो धनुरुद्यम्य भारत।
योधयामास वै पार्थं महावेगपराक्रमः।।
ततोऽब्रवीद्वासुदेवः फल्गुनं पुरुषर्षभम्।
दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल।।
एवमुक्तस्तु देवेन क्रोधमागात्तदाऽर्जुनः।
मन्युमभ्याविशद्धोरं स्मृत्वा तत्तु धनञ्जयः।।
तस्य क्रुद्धस्य सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः।
प्रादुरासंस्तदा राजंस्तदद्भुतमिवाभवत्।।
तत्समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम्।
अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने।।
ब्रह्मास्त्रेणव तं पार्थो कवर्ष शरवृष्टिभिः।
तदस्त्रमस्त्रेणावार्य प्रजहार च पाण्डवः।।
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः।
मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल तेजसा।।
वारुणेन ततः कर्णः शमयामास पावक्रम्।
जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः।।
पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान्।
अपोवाह तदाऽभ्राणि राधेयस्य प्रपश्यतः।।
[ततः शरं महाघोरं ज्वलन्तिमिव पावकम्।
आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसया।।
योज्यमाने ततस्तस्मिन्बाणे धनुषि पूजिते।
चचाल पृथिवी राजन्सशैलवनकानना।।
ववौ सशर्करो वायुर्दिशश्च रजसा वृताः।
हाहाकारश्च संवज्ञे सुराणां दिवि भारत।।
तमिगुं सन्धितं दृष्ट्वा सूतपुत्रेण मारिष।
विषादं परमं जग्मुः पाण्डवा दीनचेतसः।।
स सायकः कर्णभुजप्रमुक्तः
शक्राशनिग्रख्यरुचिः शिताग्रः।
मुलान्तरं प्राप्य धनञ्जयस्य
विवेश वल्मीकमिवोरमोत्तमः।।
स राढविद्धः समरे महात्मा
विधूर्णमानः श्लथहस्तगाण्डिवः।
चचाल वीभत्सुरमित्रमर्दनः
क्षितेः प्रकम्पे च यथाऽचलोत्तमः।।
तदन्तरं प्राप्य वृषो महारथो
रथाङ्गसुर्वीगतमुज्जिहीर्षुः।
रथादवप्लुत्य निगृह्य दोर्भ्यां
शशाक दैवान्न महाबलोऽपि।।
ततः किरीटि प्रतिलभ्य संज्ञां
जग्राह बाणं यमदण्डकल्पम्।
ततोऽर्जुनः प्राञ्जलिकं महात्मा
ततोऽब्रवीद्वासुदेवोऽपि पार्थम्।।
महारथे रथचक्रे विमग्ने।।
तं हस्तिकक्षाप्रवरं सुकेतुं
सुवर्णमुक्तामणिवज्रजुष्टम्।
कलाप्रकृष्टोत्तमशिल्पियत्नैः
कृतं सुरूपं तपनीयचित्रम्।।
जयास्पदं तव सैन्यस्य नित्य---
ममित्रवित्रासनमीड्यरूपम्।
विख्यातमादित्यसुतस्य लोके
त्विषा समं पावकभानुचन्द्रैः।।
ततः क्षुरप्रेण सुसंशितेन
सुवर्णपुङ्खेन हुताग्निवर्चसा।
श्रिया ज्वलन्तं ध्वजमुन्ममाथ
महारथस्याधिरथेः किरीटी।।
यशश्च दर्पश्च तथा प्रियाणि
सर्वाणि कार्याणि च तेन केतुना।
साकं कुरूणां हृदयानि चापतन्
बभूव हाहेति च निःस्वनो महान्।।
द्वष्ट्वा ध्वजं पातितमाशुकारिणा
कुरुप्रवीरेण निकृत्तमाहवे।
नाशंसिरे सूतपुत्रस्य सर्वे
जयं तदा भारत ये त्वदीयाः।।
अथ त्वरन्कर्णवधाय पार्थो
महेद्रवज्रानलदण्डसन्निभम्।
आदत्त चाथाञ्जलिकं निषङ्गा--
त्सहस्ररश्मेरिव रश्मिमुत्तमम्।।
मर्मच्छिदं शोणितमांसदिग्धं
वैश्वानरार्कप्रतिमं महार्हम्।
नराश्वनागासुहरं त्र्यरत्निं
षड्वाजमञ्जोगतिमुग्रवेगम्।।
सहस्रनेत्राशनितुल्यवीर्यं
कालानलं व्यात्तमिवातिघोरम्।
पिनाकनारायणचक्रसन्निभं
भयङ्करं प्राणभृतां विनाशनम्।।
जग्राह पार्थः स शरं प्रहृष्टो
यो देवसङ्घैरपि दुर्निवार्यः।
सम्पूजितो यः सततं महात्मा
देवासुरान्यो विजयेन्महेषुः।।
तं वै प्रमृष्टं प्रसमीक्ष्य युद्धे
चचाल सर्वं सचराचरं जगत्।
कृत्स्नं जगत्स्वस्त्यृषयोऽभिचक्रु--
स्तमुद्यतं प्रेक्ष्य महाहवेषुम्।।
ततस्तु तं वै शरमप्रमेयं
गाण्डीवधन्वा धनुषि व्ययोजयत्।
युक्त्वा महास्त्रेण परेण चापं
विकृष्य गाण्डीवमुवाच सत्वरम्।।
अयं हास्त्रप्रहितो महाशरः
शरीरहृच्चासुहरश्च दुर्हृदः।
तपोऽस्ति तप्तं गुरवश्च तोषिता
मया यदीष्टं सुहुतं यदि श्रुतम्।।
अनेन सत्येन निहन्त्वयं शरः
सुसंहितः कर्णमरिं ममोर्जितम्।
इत्यूचिवांस्तं प्रमुमोच बाणं
धनञ्जयः कर्णवधाय घोरम्।।
कृत्या ह्यथर्वाङ्गिरसी प्रचोदिता
यथा तथा त्वं जहि शात्रवं मम।
ब्रुवन्किरीटी तमतिप्रहृष्टो--
ऽसृजद्देवानां जयहेतुं महेषुम्।।
जिघांसुरर्केन्दुसमप्रभावः
कर्णं वशी पाण्डवः क्षिप्रकारी।
ततो विमुक्तो बलिना महेषुः
प्रज्वालयामास नभो दिशश्च।।
सैन्यान्यनेकानि च विप्रमोह्य
गाण्डीवमुक्तेन ततो महात्मा।
तेनार्जुनस्तन्महनीयमस्य
शिरोऽहरत्सूतपुत्रस्य राजन्।।
कायश्च पश्चाद्धरणीं जगाम।।
तदुद्यतादित्यसमानतेजसं
शरन्नभोमध्यगभास्करोपमम्।
वराङ्गमुर्व्यामपतच्चमुमूखे
दिवाकरोऽस्तादिव रक्तमण्डलः।।
ततोऽस्य देहं सततं सुखैधितं
सुरूपमत्यर्थसुखं सुगन्धि च।
परेण कृच्छ्रेण शिरः समत्यज--
द्गृहं महर्धीन्निवसन्निवेश्वरः।।
शरैर्विभिन्नं व्यसु तत्सुवर्चसः
पपात कर्णस्य शरीमुच्छ्रितम्।
स्रवद्व्रणं गैरिकतोयविस्रवं
गिरेर्यथा वज्रहतं महाशिरः।।
देहाच्च कर्णस्य निपातितस्य
तेजः सूर्यं खं वितत्याविवेश।
तदद्भुतं सर्वमनुष्ययोधाः
संदृष्टवन्तो निहते स्म कर्णे।।
ततः शङ्खान्पाण्डवा दध्मुरुच्चै--
र्दृष्ट्वा कर्णं पातितं फल्गुनेन।
तथैव कृष्णश्च धनञ्जयश्च
हष्टौ यमौ दध्मतुर्वारिजातौ।।
तं सोमकाः प्रेक्ष्य हतं शयानं
सैन्यैः सार्धं सिंहनादान्प्रचक्रुः।
तूर्याणि सञ्जघ्नुरतीव हृष्टा
वासांसि चैवादुधुवुर्भुजांश्च।।
संवर्धयन्तश्च नरेन्द्र योधाः
पार्थं समाजग्मुरतीव हृष्टाः।
बलान्विताश्चापरे ह्यप्यनृत्य--
न्नन्योन्यमाश्लिष्य नदन्त ऊचुः।।
दृष्ट्वा तु कर्णं भुवि वा विपन्नं
कृत्तं रथात्सायकैरर्जुनस्य।
महानिलेनाद्रिमिवापविद्वं
यज्ञावसानेऽग्निमिव प्रशान्तम्।।
तदाननं सूर्यसुतस्य राज--
न्विभ्राजते पद्मिवावनालम्।
रराज कर्णस्य शिरो निकृत्त--
मस्तंगतं भास्करस्येव बिम्बम्।।
शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः।
रराज देहः कर्णस्य स्वरश्मिभिरिवांशुमान्।।
प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः।
बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः।।
अस्तं गच्छन्यथाऽदित्यः प्रभामादाय गच्छति।
तथा जीवितमाहाय कर्णस्येषुर्जगाम सः।।
अपराह्णेऽपराह्णस्य सूतपुत्रस्य मारिष।
छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः।।
उपर्युपरि सैन्यानां विनिघ्नन्नितराञ्जनान्।
शिरः कर्णस्य सोऽत्सेधमिषुः सोप्यहरद्द्रुतम्।।
कर्णं तु शूरं पतितं पृथिव्यां
शराचितं शोणितदिग्धगात्रम्।
दृष्ट्वा शयानं भुवि मद्रराज--
श्छिन्नध्वजेनाथ ययौ रथेन।।
हते कर्णे कुरवः प्राद्रवन्त
भयार्दिता गाढविद्धाश्च सङ्ख्ये।
अवेक्षमाणा मुहुरर्जुनस्य
ध्वजं महान्तं वपुषा ज्वलन्तम्।।
तच्छिरो भरतश्रेष्ठ शोभयामास मेदिनीम्।
यदृच्छयेव पतितं मण्डलं चाण्डदीधितेः।।
तं दृष्ट्वा समरविमर्द (बद्ध) लब्धनिद्रं
दष्टोष्ठं रुधिरपीरतकातराक्षम्।
राधेयं रथवरपृष्ठसन्निषण्णं
हीनांशुर्दिवसकरो मुहूर्तमासीत्।।
निःशब्दतूर्यं हतयोधमुख्यं
प्रशान्तदर्पं धृतराष्ट्रसैन्यम्।
न शोभते सूर्यसुतेन हीनं
वृन्दं ग्रहाणामिव चन्द्रहीनम्।।
सहस्रनेत्रप्रतिमानकर्मणः
सहस्रपत्रप्रतिमाननं शुभम्।
सहस्ररश्मिर्दिवसक्षये यथा
तथाऽपतत्कर्णशिरो वसुन्धराम्।।
व्यूढोरस्कं कमलवदनं तप्तहेमावभासं
कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम्।
पांसुग्रस्तं मलिनमसकृत्पुत्रमन्वीक्षमाणो
मन्दम्मन्दं व्रजति सविता मन्दिरं मन्दरश्मिः।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे अष्टनवतितमोऽध्यायः।। 98 ।।