कर्णपर्व

अध्यायः १००

Karna Parva (Sanskrit) · Adhyaya 100
अक्षर का आकार

सञ्जय उवाच।

शरसङ्कृत्तवर्माणं रुधिरोक्षितवक्षसम्।
गतासुमपि राधेयं नैव लक्ष्मीर्विमुञ्चति।।

तप्तजाम्बूनदनिभं बालार्कसदृशद्युतिम्।
जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे।।

हतस्यापि महाराज सूतपुत्रस्य संयुगे।
वित्रेसुः सर्वतो योधाः सिंहस्येवेतरे मृगाः।।

हतोऽपि पुरुषव्याघ्रो व्याहरन्निव लक्ष्यते।
नाभवद्विकृतिः काचिन्मृतस्यापि महात्मनः।।

चारुवेषधरं राजंश्चारुमौलिशिरोधरम्।
तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति।।

कनकोत्तमसह्काशो ज्वलन्निव विभावसुः।
स शान्तः पुरुषव्याघ्रः पार्थसायकवारिणा।।

यथाऽग्निर्ज्वलनो दीप्तो जलमासाद्य शाम्यति।
कर्णाग्निः समरे तद्वत्पार्थमेघेन शामितः।।

आहृत्य स यशो दीप्तं सुयुद्धेनात्मनो भुवि।
सपुत्रः समरे कर्णः प्रशान्तः पार्थतेजसा।।

प्रताप्य पाण्डवान्सर्वान्पाञ्चालानस्त्रतेजसा।
नानाभरणवान्रजंस्तप्तजाम्बूनदप्रभः।।

वर्षित्वा शरवर्षाणि प्रताप्य रिपुवाहिनीम्।
श्रीमानिव सहस्रांशुर्ज्वलन्सर्वान्प्रताप्य च।
हतो वैकर्तनः कर्णः पादपोऽङ्कुरवानिव।।

ददानीत्येव यः प्रादान्न नास्तीत्यर्थितोऽवदत्।
सद्ध्यः सदा सत्पुरुषः स हतो द्वैरथे वृषा।।

यस्य ब्राह्मणसात्सर्वं वित्तमासीन्महात्मनः।
नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम्।।

स दातॄणां प्रियो राजन्दाता चैव मनोरथान्।
स पार्थास्त्रविनिर्दग्धो गतः परमिकां गतिम्।।

यमाश्रित्याकरोद्वैरं सुतस्ते स गतो दिवम्।
आदाय तव पुत्राणां जयाशां सर्म वर्म च।।

हते च कर्णे सरितो न सस्रु--
र्जगाम चास्तं कलुषो दिवाकरः।
श्वेतो ग्रहश्च ज्वलितार्कवर्णो
यमस्य पुत्रोऽभ्युदितः स तिर्यक्।।

नभश्चचालाथ ननाद चोर्वी
ववुश्च वाताः परुषाश्च घोराः।
दिशो बभूवुर्ज्वलिताः सधूमा
महार्णवाः सस्वनुश्चुक्षुभुश्च।।

सकाननाश्चाद्रिवराश्चकम्पिरे
प्रविव्यथुर्भूतगणाश्च मारिष।
बृहस्पतिः सम्परिवार्य रोहिणीं
बभूव चन्द्रार्कसमो विशाम्पते।।

हते कर्णे न दिशो विप्रचाराः
सचन्द्रार्का द्यौर्विचचाल भूमिः।
पपात चोल्का ज्वलनप्रभा च
निशाचरा हृष्टतरा बभूवुः।।

शशिप्रकाशाननमर्जुनो यदा
जहार कर्णस्य शिरः शरेण।
ततोऽन्तरिक्षे सहसैव शब्दो
बभूव हाहेति सुरैर्विमुक्तः।।

सदेवगन्धर्वमनुष्यपूजितं
निहत्य कर्णं रिपुमाहवेऽर्जुनः।
रराज राजन्परमेण तेजसा
यथा पुरा वृत्रवधे शतक्रतुः।।

पताकिना भीमनिनादकेतुना
रथेन शङ्खस्फटिकावभासिना।
महेन्द्रवाहप्रतिमेन तावुभौ
महेन्द्रवीर्यप्रतिमानपौरुषौ।।

समानयोगाविव विष्णुवासवैः।।

मनांस्यरीणामुपतापयन्तौ।।

सुवर्णजालावततौ महास्वनौ
हिमावदातौ परिगृह्य पाणिमिः।
चुचुम्बतुः शङ्खवरौ नृणां वरौ
विघोषयन्तौ विजयं जगत्त्रये।।

पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः।
पृथिवीमन्तरिक्षं च दिशश्च समपूरयत्।।

वित्रस्ताश्चाभवन्सर्वे कुरवो राजसत्तम।
शूरयोः शङ्खशब्देन माधवस्यार्जुनस्य च।।

तौ शङ्खशब्देन निनादयन्तौ
वनानि शैलान्सरितो गुहाश्च।
वित्रासयन्तौ तव पुत्रसेनां
युधिष्ठिरं नन्दयितुं प्रयातौ।।

ततः प्रजग्मुः कुरवो जवेन
श्रुत्वैव शङ्खस्वनमीर्यमाणम्।
विहाय मद्राधिपतिं पतिं च
दुर्योधनं भारत भारतानाम्।।

ततो रथेनाम्बुदबृन्दनादिना
शरद्वहर्मध्यदिवाकरत्विषा।
धनञ्जयस्याधिरथेश्च विस्मिताः
प्रशंसमानाः प्रययुस्तदाऽर्जुनम्।।

महाहवे तं बहुशोभमानं
धनञ्जयं योधगणैः समेताः।
तावन्वमोदंश्च जनाः प्रकामं
प्रभाकरावभ्युदितौ यथैव।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
शततमोऽध्यायः।। 100 ।।