कर्णपर्व
अध्यायः ७४
सञ्जय उवाच।
एतच्छ्रुत्वा पाण्डवो धर्मराजो
भ्रातुर्वाक्यं परुषं फल्गुनस्य।
उत्थाय तस्माच्छयनादुवाच
पार्थं ततो दुःखपरीतचेताः।।
कृतं मया पार्थं न साधुकर्म
येन प्राप्तं व्यसनं वः सुघोरम्।
तस्माच्छिरश्छिन्धि ममैतदद्य
कुलान्तकस्याधमपूरुषस्य।।
पापस्य पाप्मोहतस्य वीर
विमूढबुद्धेरलसस्य भीरोः।
वृद्धावमन्सुः परुषत्य चैव
किं ते चिरं मामनुसृज्य रूक्षम्।।
गच्छाम्यहं वनमद्यैव पापः
सुखं भवान्वर्ततां मद्विहीनः।
योग्यो राजा भीमसेनो महात्मा
क्लीबस्य किं वा मम राज्यकृत्यम्।।
न चापि शक्तः परुषाणि सोढुं
पुनस्तवेमानि रुषान्वितस्य।
भीमोऽस्तु राजा मम जीवितेन
न कार्यमद्यावमतस्य वीर।।
इत्येवमुक्त्वा सहसोत्पपात
रुषान्वितस्तच्छयनं विहाय।
इयेष निर्गन्तुमथो वनाय
तं वासुदेवः प्रणतोऽभ्युवाच।।
न राजन्विदितं तत्ते यथा गाण्डीवधन्वनः।
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता।।
ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत।
वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोयमीदृशम्।।
ततः सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता।
मच्छन्दादवमानोऽयं कृतस्तव महीपते।।
गुरूणामवमानो हि वध इत्यभिधीयते।
तस्मात्क्षम महाबाहो मम पार्थस्य चोभयोः।।
व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति।
शरणं त्वां महाराज प्रतिपन्नावुभावपि।।
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः।
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम्।।
सत्यं ते प्रतिजानामि हतं विद्व्यद्य सूतजम्।
यस्येच्छसि वधं तस्य गतमेवाद्य जिवीतम्।।
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः।
ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा।
कृताञ्जलिमुवाचेदं वाक्यं यत्समनन्तरम्।।
एवमेव यथात्थ त्वमस्त्येषोऽतिक्रमो मम।
अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव।।
मोचिता व्यसनाद्धोराद्वयमद्य त्वयाच्युत।
भवन्तं नावमासाद्य ह्यावां व्यसनसागरात्।
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ।।
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम्।
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
चतुःसप्ततितमोऽध्यायः।। 74 ।।