कर्णपर्व

अध्यायः ७३

Karna Parva (Sanskrit) · Adhyaya 73
अक्षर का आकार

सञ्जय उवाच।

इत्येवमुक्तस्तु जनार्दनेन
पार्थः प्रशस्याथ सुहृद्वचस्तत्।
ततोऽब्रवीदर्जुनो धर्मराज--
मनुक्तपूर्वं परुषं प्रसह्य।।

मा त्वं राजन्व्याहरस्वाद्य पापं
त्वं तिष्ठसि क्रोशमात्रे व्यपेत्य।
भीमस्तु मामर्हति गर्हणाय
यो युध्यते सर्वलोकप्रवीरैः।।

काले हि शत्रून्परिपीड्य वीरो
हत्वा प्रवीरान्वसुधाधिपानाम्।
रथप्रधानोत्तमनागमुख्या
युधिप्रवीरा निहताश्च शूराः।।

सुदुष्करं कर्म करोति भीमः
कर्तुं यथा नार्हति कश्चिदन्यः।
रथादवस्कन्द्य गदां परामृशं--
स्तथा रणे हन्ति तथैव वारणान्।।

स कुञ्जराणामधिकं सहस्रं
हत्वा नदंस्तुमुलं सिंहनादम्।
काम्भोजवानायुजपार्वतीया--
नीहामृगाभान्विनिहत्य वाजिनः।।

महारथान्दविरदाञ्शैलकल्पा--
न्सहेत यः कुञ्जरान्वध्यमानान्।
असौ भीमो धार्तराष्ट्रेषु मग्नः
स मामुपालब्धुमरिन्दमोऽर्हति।।

वरासिना चाथ नराश्वकुञ्जरां--
स्तथा रथाङ्गैर्धनुषा च हन्त्यरीन्।
प्रमृद्य पद्ध्यामहितांस्तु हन्ति
पुनश्च दोर्भ्यां शतमन्युविक्रमः।।

महाबलो वैश्रवणान्तकोपमः
प्रसह्य हर्ता द्विषतां यशांसि।
स भीमसेनोऽर्हति गर्हणाय
न त्वं नित्यं रक्ष्यमाणः सुहृद्भिः।।

कलिङ्गवङ्गाङ्गनिपादमागधा--
न्सदा महाशैलवलाहकोपमान्।
निहन्ति यः शत्रुगणाननेकशः
स मां हि वक्तुं प्रभवत्यमानगसम्।।

संयुक्तमास्थाय रथं हि काले
धनुर्विधून्वञ्छरपूर्णमुष्टिः।
सृजेच्च यो बाणसङ्घान्परेषु
महाबलो मेघ इवाम्बुधाराः।।

शतान्यष्टौ वारणानामदर्शय--
द्विशातितैः कुम्भघटाग्रहस्तैः।
यो भीमसेनो निहतारिसङ्घः
स मामुपालब्धुमरिन्दमोऽर्हति।।

रथाश्च नागाश्च हयाश्च राज--
न्भीमेनाजौ निहताः सङ्घशोऽद्य।
राजानश्च बहवो महाबलाः
स मामुपालब्धुमरिन्दमोऽर्हति।।

धृतराष्ट्रपुत्रा बलिनश्च येन
महाबला निहताः प्रायशो वै।
शूरो युद्धे ह्यप्रतिवार्यवीर्यः
स मामुपालब्धुमरिन्दमोऽर्हति।।

प्रतापयंस्तद्बलमुग्ररूपं
योऽसौ रमे धार्तराष्ट्रस्य वीरः।
एकः सहेताप्रतिसह्यपौरुष--
स्तेनास्मि वाच्यो न त्वया वै कदाचित्।।

महारथा यत्र यत्रैव युद्धे
भिन्दन्ति सैन्यं तव कामतोऽद्य।
तत्रैव तत्रैव रणे महात्मा
दृढं भीमः परसङ्घानमृद्रात्।।

तेनास्मि वाच्यो न त्वया हं कदाचि--
न्मा मा वोचः क्रूरमिहाद्य पार्थ।
नास्मद्विधो वै भवता तु वाच्यो
यथा भवान्सर्वलोकस्य वाच्यः।।

एवं हि मा ते ब्रुवतो नरेन्द्र
कथं न दीर्येच्छतधाऽद्य जिह्वा।
अहो बतेदं सुनृशंसरूपं
कामादवोचस्त्वमिहाद्य यद्वै।।

बलं न वाधिष्ठितं सत्तमानां
यत्क्षत्रियाणां बहुलं वदन्ति।
त्वं चाबलो भारत निष्ठुरोऽसि
त्वमेव मां वेत्सि यथाविधोऽहम्।।

नकुलेन राजन्गजवाजियोधा
हताश्च वीराः सहसा समेत्य।
त्यक्त्वा प्राणान्समरे युद्धकाङ्क्षी
स मामुपालब्धुमरिन्दमोऽर्हति।।

कृतं कर्म सहदेवेन दुष्करं
यो युध्यते परसैन्यावमर्दी।
न चाब्रवीत्किञ्चिदिहागतो बली
पश्यान्तरं तस्य चेवात्मनश्च।।

धृष्टद्युम्नः सात्यकिर्द्रौपदेया
युधामन्युश्चोत्तमौजाः शिखण्डी।
एतेऽद्य युधि सम्प्रपीडिता--
स्ते मामुलपालब्धुमर्हन्ति न त्वम्।।

त्वन्मूलमस्माभिरिदं हि वैरं
प्राप्तं तथा व्यसनं चातिघोरम्।
द्यूप्रमत्तेन कृतं त्वयाऽसकृ--
त्कस्मादुपालब्धुमिहार्हसि त्वम्।।

त्वमेव राजन्सततं प्रमत्त--
स्त्वमेव मूढो भारतानामसाधुः।
त्वां प्राप्य राज्यं च विनष्टमेत--
त्प्राप्ता महत्पाण्डवाश्चापि दास्यम्।।

त्वत्तः कृतोऽस्मकद्वनवासदुःखं
राज्यस्य नाशो ह्यभिमन्योश्च घोरः।
आत्मानमेवं सुनृशंसरूपं
ज्ञात्वा किमर्थं गर्हसे माद्य वीर।।

लज्जस्व राजन्यदि तेऽस्ति लज्जा
तूष्णीम्भूतः पश्य सर्वं कृतघ्नः।
भीमो नित्यं समरस्य कर्ता
दर्पस्य भेत्ता पुनरेव नित्यम्।।

स्वयं ह्यशक्तेन नरेन्द्र युद्धे
नरेण कार्या सततं क्षमैव।
बलं हि वाचि द्विजसत्तमानां
क्षात्रं द्विजा बाहुबलं वदन्ति।।

त्वं वाग्बलो भारत निष्ठुरोऽसि
त्वमेव मां वेत्सि यथाविधोऽहम्।
घटामि नित्यं तव कर्तुमिष्टं
दारैः सुतैर्जीवितेनात्मना च।।

एवञ्च मां वाक्छलाकैर्हिनत्सि
त्वत्तः सुखं न वयं विद्म किञ्चित्।
मा मामवंस्था द्रौपदीतल्पकसंस्थो
महारथान्प्रतिहन्मि त्वदर्थे।।

सर्वातिशङ्की भवसि प्रमत्त--
स्त्वत्तः सुखं नाभिजानामि किञ्चित्।
प्रोक्तः स्वयं सत्यसन्धेन मृत्यु--
स्तव प्रियार्थं नरदेव युद्धे।।

शिखण्डिनाम्ना प्रधने तवार्थे
मयाभिगुप्तेन हतश्च भीष्मः।
द्रोणो हतो यः सततोपकारी
धृष्टद्युम्नेन स्यन्दनाद्विप्रकृष्टः।।

द्रौणिश्च रुद्धः सगणो महात्मा
तथापि ते वै वचनं नृशंसवत्।
दुःखं प्रियं ते नरदेव कर्तुं
यस्य प्रियं ते न करोम्यहं वै।।

न युच्यते वै दिवि चेह यः पुमा--
न्यस्ते मदन्योऽप्रियमारभेत।
न चाभिनन्दामि तथाहि राज्यं
यतस्त्वमक्षेषु दृढं प्रसक्तः।।

स्वयं कृतं पापमनार्यजुष्ट--
मस्माभिराजौ व्यसनं तितीर्षसि।।
अक्षेषु दोषा बहवो विधर्म्याः
श्रुतास्त्वया सहदेवोऽब्रवीद्यान्।।

तान्नेच्छसि त्यक्तुमनार्यजुष्टा--
न्घोरे स्म सर्वे निरये त्वयाऽस्ताः।
त्वं देविता त्वत्कृते राज्यनाशं--
स्त्वत्सम्भवं व्यसनं नो नरेन्द्र।।

मास्मान्क्रूरैर्षाक्प्रतोदैस्तुदस्त्वं
भूयो राजन्कोपयस्यल्पबुद्ध्या।।

सञ्जय उवाच।

एता वाचः परुषाः सव्यसाची
स्थिरप्रतिज्ञः श्रावयित्वा नरेन्द्रम्।
विनिः श्वसञ्ज्येष्ठमनिष्टमुक्त्वा
ततस्तु कोशादसिमुद्वबर्ह।।

तमाह कृष्णः किमिदं पुनर्भवा--
न्विकोशमाकाशनिभं करोत्यसिम्।
प्रब्रूहि सत्यं पुनरुत्तरं सखे
वचः प्रवक्ष्याभि तवार्थसिद्धये।।

इतीव पृष्टः पुरुषोत्तमेन
सुदुःखितः केशवमाह पार्थः।
अहं हनिष्ये स्वशरीरमेत--
त्प्रसह्य येनाहितमुक्तवान्गुरुम्।।

निशम्य तत्पार्थवचोऽब्रवीदिदं
जनार्दनो धर्मभृतां वरिष्ठः।
प्रब्रूहि पार्थ स्वगुणानिहात्मन--
स्ततो हतात्मा भवसीति निश्चयः।।

तथा तु कृष्णस्य वचो निशम्य
ततोऽर्जुनः प्राह धनुः प्रगृह्य।
युधिष्ठिरं धर्मभृतां वरिष्ठं
शृणुष्व राजन्निति दुर्वचः स्वयम्।।

अर्जुन उवाच।

न मादृशोऽन्यो नरदेव विद्यते
धनुर्धरो देवमृते पिनाकिनम्।
अहं हि तेनानुमतो महात्मना
क्षणेन हन्यां सचराचरं जगत्।।

मया हि राजन्सदिगीश्वरा दिशो
विजित्य सर्वा भवतः कृता वशे।
स राजसूयश्च समाप्तदक्षिणः
सभा च दिव्या भवतो ममौजसा।।

पाणी पृषत्कालिखिताविमौ पुन--
र्धनुश्च सव्ये विततं सबाणम्।
पादौ च मे लक्षणतः प्रशस्तौ
न मादृशं युद्धगतं जयन्ति।।

हता उदीच्या निहताः प्रतीच्याः
प्राच्या निरस्ता दाक्षिणात्या विशस्ताः।
संशप्तकानां किञ्चिदेवावशिष्टं
सर्वस्य लोकस्य हतं मयाऽर्धम्।।

शेते मया निहता शत्रुसेना
छिन्नैर्गात्रैर्भूमितले स्खलन्ती।
अनस्त्रज्ञान्नैव निहन्मि चास्त्रै--
स्तस्मान्न भस्मैव करोमि लोकान्।।

जैत्रं रथं भीममास्थाय कृष्ण
यावच्छीघ्रं सूतपुत्रं निहन्तुम्।
राजा भवत्वद्य सुनिर्वृतोऽयं
कर्णं रणे नाशयितास्मि बाणैः।।

शरैरहत्वा कवचं विमोक्ष्ये।।

सञ्जय उवाच।

इत्येवमुक्त्वा पुनरेव पार्थो
युधिष्ठिरं धर्मभृतां वरिष्ठम्।
विमुच्य शस्त्राणि धनुर्विसृज्य
कोशे च खङ्गं विनिधाय तूर्णम्।।

स व्रीडया नम्रशिराः किरीटी
युधिष्ठिरं प्राञ्जलिरभ्युवाच।
प्रसीद राजन्क्षम यन्मयोक्तं
काले भवान्वेत्स्यति तन्नमस्ते।।

ततस्तु पादावुपगृह्य पार्थः
समुत्थितो दीप्ततेजाः किरीटि।
प्रसाद्य राजानममित्रसाहं
स्थितोऽब्रवीच्चैनमभिप्रतप्तम्।।

याम्येष भीमं समराद्विमोक्तुं
सर्वात्मना सूतपुत्रं च हन्तुम्।
भवत्प्रियार्थं मम जीवितं हि
ब्रवीमि सत्यं तदवेहि राजन्।।

नेदं चिरात्क्षिप्रमिदं भविष्य--
दावर्ततेऽसावभियामि चैनम्।
अद्याप्यपुत्रा तेन हतेन राधा
कुन्ती मया वा तदिदं विद्धि राजन्।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे त्रिसप्ततितमोऽध्यायः।। 73 ।।