कर्णपर्व

अध्यायः ४७

Karna Parva (Sanskrit) · Adhyaya 47
अक्षर का आकार

सञ्जय उवाच।

क्षत्रियास्ते महाराज परस्परवधैषिणः।
अन्योन्यं समरे जघ्नुः कृतवैरा महौजसः।।

रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः।
गजौघाश्च महाराज संसक्ताश्च परस्परम्।।

गदानां परिघाणां च शक्तीनां च परस्परम्।
प्रासानां भिण्डिपालानां मुसुण्ठीनां च सर्वशः।।

सम्पातं चानुपश्याम सङ्ग्रामे भृशदारुणे।
शलभा इव सम्पेतुः शरवृष्ट्यः समन्ततः।।

नागान्नागाः समासाद्य व्यधमन्त परस्परम्।
हया हयांश्च समरे रथिनो रथिनस्तथा।।

पत्तयः पत्तिसङ्घांश्च हयसङ्घांश्च पत्तयः।
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च।
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप।।

वध्यतां तत्र शूराणां क्रोशतां च परस्परम्।
घोरमायोधनं जज्ञे पशूनां घातने यथा।।

रुधिरेण समास्तीर्णा बभौ भारत मेदिनी।
शक्रगोपगणाकीर्णा प्रावृषीव वसुन्धरा।।

यथा वा वाससी शुक्ले महारजनरञ्जिते।
बिभ्रती युवती श्यामा तद्वदासीद्वसुन्धरा।।

`बद्वचूडामणिधरैः शिरोभिश्चारुकुण्डलैः।
उज्झितैर्वृषभाक्षाणां भ्राजते स्म वसुन्धरा'।।

शशशोणितदिग्धेव शातकुम्भमयीव च।
`भूर्बभौ भरतश्रेष्ठ शान्तार्चिर्भिरिवानलैः।।'

छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह।
कुण्डलानां पिनद्धानां भूषणानां च भारत।।

निष्काणां हेमसूत्राणां शरीराणां च धन्विनाम्।
चर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि।

`प्रावृट्‌काले महाराज मेघा इव सविद्युतः'।।

स्यन्दमाना यथा भान्ति पर्वता धातुमण्डिताः।
`तथा रेजू रणे नागा रुधिरेण समाप्लुताः'।।

तोमरान्सादिभिर्मुक्तान्प्रतिमानस्थितान्बहून्।
हस्तैरुद्धृत्य तान्नागा बभञ्जुश्चापरे रणे।।

नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः।
हिमागमे यथा राजन्व्यभ्रा इव महीधराः।।

शरैः कनकपुङ्खैश्च चिता रेर्जुर्गजोत्तमाः।
उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव भारत।।

केचिदभ्याहता नागैर्नागा नगवरोपमाः।
न चेलुः समरात्तस्माच्छिन्नपक्षा इवाद्रयः।।

अपरे प्राद्रवन्नागाः शरार्ता व्रणपीडिताः।
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे।।

निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान्।
वेमुश्च बहवो राजंश्चुक्रुशुश्चापरे गजाः।।

हयाश्च निहता बाणैर्हेमभाण्डविभूषिताः।
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश।।

अपरे क्लिश्यमानाश्च व्यवेष्टन्त महीतले।
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः।।

नरास्तु निहता भूमौ कूजन्तस्तत्र मारिप।
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान्।।

धावमानान्परांश्चान्ये दृष्ट्वान्ये तत्र भारत।
ख्यातानि गोत्रनामानि शशंसुरितरेतरम्।।

तेषां छिन्ना महाराज भुजाः कनकभूषणाः।
उद्वेष्टन्ते विवेष्टन्ते भ्रमन्ति ह्युत्पतन्ति च।।

निपतन्ति तथैवान्ये स्फुरन्ति च सहस्रशः।
वेगांश्चान्ये रमे चक्रुः पञ्चास्या इव पन्नगाः।।

ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते।
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव।।

वर्तमाने तथा घोरे सङ्कुले सर्वतो दिशम्।
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम्।।

भौमेन रजसाकीर्णे शस्त्रसम्पातसङ्कुले।
नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृताः।।

तथा तदभवद्युद्धं घोररूपं भयानकम्।
लोहितोदा महानद्यः प्रसस्रुस्तत्र चासकृत्।।

शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः।
अस्थिमीनसमाकीर्णा धनुःशरगदोडुपाः।।

मांसशोणितपङ्किन्यो घोररूपाः सुदारुणाः।
नदीः प्रवर्तयामासुः सोणितौघविवर्धिनीः।।

भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः।
ता नद्यो घोररूपास्तु नयन्त्यो यमसादनम्।।

अवगाढान्मज्जयन्त्यः क्षत्रस्याजनयन्भयम्।
क्रव्यादानां नरव्याघ्र नर्दतां तत्रतत्र ह।।

घोरमायोधनं जज्ञे प्रेतराजपुरोपमम्।
उत्थितान्यगणेयानि कबन्धानि समन्ततः।।

नृत्यन्ति वै भूतगणाः सुतृप्ता मांसशोणितैः।
पीत्वा च शोणितं तत्र वसां भुक्त्वा च भारत।।

मेदोमज्जावसामत्तास्तृप्ता मांसस्य चैव ह।
धावमानाः स्म दृश्यन्ते काकगृघ्रबकास्तथा।।

शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम्।
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत्।।

शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले।
व्यचरन्त रणे शूराः ख्यापयन्तः स्वपौरुषम्।।

अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत।
पितृनामानि च रणे गोत्रनामानि वा विभो।।

श्रावयाणाश्च बहवस्तत्र योधा विशाम्पते।
अन्योन्यमवमृद्रन्तः शक्तितोमरपट्टसैः।।

वर्तमाने तथा युद्धे घोररूपे सुदारुणे।
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः।। 47 ।।